TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०३

मत्स्यपुराणम् - अध्यायः १०३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १०३
नन्दिकेश्वर उवाच ।
अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम् ।
मार्कण्डेयेन कथितं यत् पुरा पाण्डुसूनवे ॥१॥

भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते ।
एतस्मिन्नन्तरे राजा कुन्तिपुत्रो युधिष्ठिरः ॥२॥

भातृशोकेन सन्तप्तश्चिन्तयन् स पुनः पुनः ।
आसीत् सुयोधनो राजा एकादशचमूपतिः ॥३॥

अस्मान् सन्ताप्य बहुशः सर्वे ते निधनं गताः ।
वासुदेवं समाश्रित्य प़ञ्चशेषास्तु पाण्डवाः ॥४॥

हत्वा भीष्मं च द्रोणञ्च कर्णं चैव महाबलम् ।
दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम् ॥५॥

राजानो निहताः सर्वे ये चान्ये शूरमानिनः ।
किन्नो राज्येन गोविन्द! किम्भोगैर्जीविते न वा ॥६॥

धिक्कष्टमिति सञ्चिन्त्य राजा वैक्लव्यमागतः ।
निर्विचेष्टो निरुत्साहः किञ्चित्तिष्ठत्यधोमुखः ॥७॥

लब्धसंज्ञो यदा राजा चिन्तयन् स पुनः पुनः ।
कतरो विनियोगो वानियमं तीर्थमेव च ॥८॥

येनाहं शीघ्रमामुञ्चे महापातककिल्बिषात् ।
यत्र स्थित्वा नरो याति विष्णुलोकमनुत्तमम् ॥९॥

कथं पृच्छामि वै कृष्णं येनेदङ्कारितोऽस्म्यहम् ।
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् ॥१०॥

एवं वैक्लव्यमापन्नो धर्म्मराजो युधिष्ठिरः ।
रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः ॥११॥

ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः ।
कुन्ती च द्रौपदीचैव ये च तत्र समागताः ॥
भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः ॥१२॥

वाराणस्यां मार्कण्डेयस्तेन ज्ञातो युधिष्ठिरः ।
यथा वैक्लव्यमापन्नो रुदमानस्तुदुःखितः ॥१३॥

अचिरेणैव कालेन मार्कण्डेयो महातपाः ।
संप्राप्तो हस्तिनपुरं राजद्वारे ह्यतिष्ठत ॥१४॥

द्वारपालोऽपि तं द्रृष्ट्वा राज्ञः कथितवान् द्रुतम् ।
त्वां द्रष्टुकामो मार्कण्डो द्वारि तिष्ठत्यसौ मुनिः ।
त्वरितो धर्म्मपुत्रस्तु द्वारमागादतः परम् ॥१५॥

स्वागतं ते महाभाग! स्वागतं ते महामुने ।
अद्य मे सफलं जन्म अद्य मे तारितं कुलम् ॥१६॥

अद्य मे पितरस्तुष्टास्त्वयि द्रृष्टे महामुने ।
अद्याहं पूतदेहोऽस्मि यत्त्वया सहदर्शनम् ॥१७॥

नन्दिकेश्वर उवाच ।
सिंहासने समास्थाप्य पादशौचार्चनादिभिः ।
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् ॥१८॥

ततः सुतुष्टो मार्कण्डः पूजितश्चाह तं नृपम् ।
आख्याहि त्वरितं राजन्! किमर्थं रुदितं त्वया ।
केन वा विक्लवीभूतः का बाधा ते किमप्रियम् ॥१९॥

युधिष्ठिर उवाच ।
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने ।
एतत् सर्वं विदित्वा तु चिन्तावशमुपागतः ॥२०॥

मार्कण्डेय उवाच ।
श्रृणु राजन्! महाबाहो! क्षत्रधर्मव्यवस्थितम् ।
नैव द्रृष्टं रणे पापं युद्धमानस्य धीमतः ॥२१॥

किम्पुना राजधर्मेण क्षत्रियस्य विशेषतः ।
तदेवं हृदयं कृत्वा तस्मात् पापं न चिन्तयेत् ॥२२॥

ततो युधिष्ठिरो राजा प्रणम्य शिरसामुनिम् ।
पप्रच्छविनयोपेतः सर्वपातकनाशनम् ॥२३॥

पृच्छामि त्वां महाप्राज्ञ! नित्यं त्रैलोक्यदर्शिनम् ।
कथय त्वं समासेन येन मुच्येत किल्बिषात् ॥२४॥

मार्कण्डेय उवाच ।
श्रृणु राजन् । महाबाहो सर्वपातकनाशम् ।
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्म्मणाम् ॥२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:50.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अपिधान

  • न. झांकणें ; आच्छादन ; लपविणें . भरलें रतिसागरीं विषयउद्यान । करुं कुठवर करीं अपिधान । - प्रला ३९ . [ सं . पिधान ] 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.