TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २७

मत्स्यपुराणम् - अध्यायः २७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः २७
देवयानी कथानकम्   ।

शौनक उवाच  ।
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः  ।
कचादवेत्य तां विद्यां कृतार्था भरतर्षभ! ॥१॥

सर्व एव समागम्य शतक्रतुमथाब्रुवन्  ।
कालः स्त्वद्विक्रमस्याद्य जहि शत्रून् पुरन्दर! ॥२॥

एवमुक्तस्तु सह तै स्त्रिदशैर्मघवांस्तदा  ।
तथेत्युक्त्वोप चक्राम सोऽपश्यद्विपिने स्त्रियः ॥३॥

क्रीड़न्तीनान्तु कन्यानां वने चैत्ररथोपमे  ।
वायुर्भूतः सवस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥४॥

ततो जलात्‌ समुत्तीर्य ताः कन्याः सहितास्तदा  ।
वस्त्राणिजगृहुस्तानि यथा संस्थान्यनेकशः ॥५॥

तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा  ।
व्यतिक्रममजानन्ती दुहिता वृषपर्वणः ॥६॥

ततस्तयोर्मिथस्तत्र विरोधः समजायत  ।
देवयान्याश्च राजेन्द्र! शर्मिष्ठायाश्च तत्कृते ॥७॥

देवयान्युवाच  ।
कस्माद्‌ गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि!
समुदाचारहीनाया न ते श्रेयो भविष्यति ॥८॥

शर्मिष्ठोवाच  ।
आसीनञ्च शयानञ्च पिता ते पितरं मम  ।
स्तौति पृच्छति चाभीक्ष्णं नीचस्तः सुविनीतवत् ॥९॥

याचतस्त्वञ्च दुहिता स्तुवतः प्रतिगृह्णतः  ।
सुताहं स्तूयमानस्य ददतो न तु गृह्णतः ॥१०॥

अनायुधासायुधायाः किं त्वं कुप्यसि भिक्षुकि!  ।
लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम् ॥११॥

शौनक उवाच  ।
सा विस्मयं देवयानीं गतां सक्ताञ्च वाससि  ।
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत् ॥१२॥

हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्रया  ।
अनवेक्ष्य ययौ तस्मात् क्रोधवेगपरायणा ॥१३॥

अथ तं देशमभ्यगाद्ययातिर्नहुषात्मजः  ।
श्रान्तयुग्मः श्रान्तरूपो मृगलिप्सुः पिणसितः ॥१४॥

नाहुषिः प्रेक्ष्यमाणो हि सनिपाते गतोदके  ।
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥१५॥

तामपृच्छत् स दृष्ट्वैव कन्याममरवर्णिनीम्  ।
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥१६॥

का त्वं चारुमुखीश्यामा सुमृष्टमणिकुण्ड्ला  ।
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्‌वसिषि चातुरा ॥१७॥

कथञ्च पतिता ह्यस्मिन्  । कृते वीरुत्तृणावृते  ।
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥१८॥

देवयान्युवाच  ।
योऽसौ देवै र्हतान् दैत्यानुत्थापयति विद्यया  ।
तस्य शुक्रस्य कन्याह त्वं मां नूनं न बुध्यसे ॥१९॥

एष मे दक्षिणो राजन्! पाणिस्ताम्रनखाङ्गुलिः  ।
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥२०॥

जानामि त्वाञ्चसंशान्तं वीर्य्यवन्तं यशस्विनम्  ।
तस्मान्मां पतितं कूपादस्मादुद्धर्तुमर्हसि ॥२१॥

शौनक उवाच  ।
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः  ।
गृहीत्वा दक्षिणे पाणावुज्जहार ततो बलात् ॥२२॥

उद्‌धृत्य चैनान्तरसा तस्मात् कूपान्नराधिपः  ।
आमन्त्रयित्वा सुश्रोणीं ययाति स्वपुरं ययौ ॥२३॥

देवयान्युवाच  ।
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः  ।
नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः ॥२४॥

शौनक उवाच  ।
सा तु वै त्वरितं गत्वा घूणिका सुरमन्दिरम्  ।
द्रृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना ॥२५॥

आचख्यौ च महाभागा देवयानी वने हता  ।
शर्मिष्ठया महाप्राज्ञ!दुहित्रा वृषपर्वणः ॥२६॥

श्रुत्वा दुहितरं काव्यस्तदा शर्मिष्ठया हताम्  ।
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥२७॥

द्रृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने  ।
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् ॥२८॥

आत्मदोषैर्निंयच्छन्तिः सर्वे दुःखमुखे जना  ।
मन्येदुश्चरितं तस्मिन् तस्येयं निष्कृतिः कृता ॥२९॥

निष्कृतिर्वास्तु वा मास्तु श्रृणुष्वावहितो मम  ।
शर्मिष्ठयाय दुक्तास्मि दुहित्रा वृषपर्वणः ॥३०॥

सत्यं किलैतत् सा प्राह दैत्यानामस्मि गायना  ।
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ॥३१॥

वचनं तीक्ष्ण परुषं क्रोधरक्तेक्षणा भृशम्  ।
स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः ॥३२॥

सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः  ।
इति मामाह शर्मिष्ठ दुहिता वृषपर्वणः ॥
क्रोधसंरक्तनयना दर्पपूर्णानना ततः ॥३३॥

यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः  ।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥३४॥

शुक्र उवाच  ।
स्तुवतो दुहिता नस्त्वं भद्रे! न प्रतिगृह्णतः  ।
अतस्त्वं स्तूयमानस्य दुहिता देवयान्यसि ॥३५॥

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः  ।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:45.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Sine die

  • अनिश्चित दिनापर्यंत 
  • अनिश्चित काल के लिए 
  • अनिश्चित दिनापर्यंत 
  • बेमुदत 
More meanings
RANDOM WORD

Did you know?

what is the history behind " HARI MERE HALAR KI LAKARI" made by Surdasji?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.