संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८६

मत्स्यपुराणम् - अध्यायः ८६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सुवर्णाचलदानवर्णनम् ।

अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् ।
यस्य प्रदानाद्भवनं वैरिञ्च्यं याति मानवः ॥१॥

उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।
तदर्द्धेनाधमस्तद्वदल्पवित्तोऽपि शक्तितः ।
दद्यादेकपलादूद्‌र्ध्वं यथाशक्या विमत्सरः ॥२॥

धान्यपर्वतवत्सर्वं विदध्यान्मुनिपुङ्गवः ।
विष्कम्भशैलांस्तद्वच्च ऋत्विग्‌भ्यः प्रतिपादयेत् ॥३॥

नमस्ते ब्रह्म बीजाय ब्रह्मगर्भाय ते नमः ।
यस्मादनन्तफलदस्तस्मात्पाहि नगोत्तम ॥४॥

यस्मादग्नेरपत्यं त्वं यस्मात् पुण्यं जगत्पते ।
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम ॥५॥

अनेन विधिना यस्तु दद्यात् कनकपर्वतम् ॥६॥

स याति परमं ब्रह्म लोकमानन्दकारकम् ।
तत्र कल्पशतं तिष्ठेत् ततो याति पराङ्गतिम् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP