संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५६

मत्स्यपुराणम् - अध्यायः ५६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कृष्णाष्टमीव्रतकथनम् ।

श्रीभगवानुवाच ।
कृष्णाष्टमीमथो वक्ष्ये सर्वपापाप्रणाशिनीम् ।
शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः ॥१॥

शङ्करं मार्गशिरसि शम्भुं पौषेऽभिपूजयेत् ।
माघे महेश्वरं देवं महादेवञ्च फाल्गुने ॥२॥

स्थाणुं चैत्रे शिवं तद्वद्वैशाखे त्वर्चयेन्नरः ।
ज्यैष्ठे पशुपतिं चार्चेदाषाढ़े उग्रमर्चयेत् ॥३॥

पूजयेत् श्रावणे सर्वं नभस्ये त्र्यम्बकं तथा ।
हरमाश्वयुजे मासि तथेशानञ्च कार्तिके ॥४॥

कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद्‌ द्विजान् ।
गो भूहिरण्यवासोभिः शिवभक्तानुपोषितः ॥५॥

गोमूत्रघृतगोक्षीर तिलान् यवकुशोदकम् ।
गोश्रृङ्गोदशिरीषार्क बिल्वपत्रदधीनि च ॥
पञ्चगव्यञ्च सम्प्राश्य शङ्करं पूजयेन्निशि ॥६॥

अश्वत्थं च वटं चैवोदुम्बरं प्लक्षमेव च ।
पलाशं जम्बुवृक्षञ्च विदुषञ्च महर्षयः ॥७॥

मार्गशीर्षाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात् ।
एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत् ॥८॥

देवाय दद्यादर्घ्यं च कृष्णाङ्गं कृष्णवाससम् ।
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम्  ॥९॥

द्विजानामुदकुम्भांश्च पञ्चरत्न समन्वितान् ।
गावः कृष्णाः सुवर्णञ्च वासांसि विविधानि च
अशक्तस्तु पुनर्दद्याद् नामेकामपि शक्तितः ॥१०॥

न वित्तशठ्यं कुर्वीत कुर्वन्‌ दोषमवाप्नुयात् ।
कृष्णाष्टमीमुपोष्येव सप्तकल्पशतत्रयम् ॥
पुमान् स्रम्पूजितो देवैः शिवलोके महीयते ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP