TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४५

मत्स्यपुराणम् - अध्यायः १४५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १४५
मन्वन्तरस्थितिवर्णनम् ।

सूत उवाच ।
मन्वन्तराणि यानि स्युः कल्पे कल्पे चतुर्दश ।
व्यतीतानागतानि स्युर्यानि मन्वन्तरेष्विह ॥१॥

विस्तरेणानुपूर्व्याच्च स्थितिं वक्ष्ये युगे युगे ।
तस्मिन् युगे च सम्भूतिर्यासां यावच्च जीवितम् ॥२॥

युगमात्रन्तु जीवन्ति न्यूनं तस्माद्‌द्वयेन च ।
चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह ॥३॥

मनुष्याणां पशूनाञ्च पक्षिणां स्थावरैः सहः ।
तेषामायुरुपक्रान्तं युगधर्मेषु सर्वशः ॥४॥

तथैवायुः परिक्रान्तं युगधर्मेषु सर्वशः ।
अस्थितिञ्च कलौ द्रृष्ट्वा भूतानां मानुषे तथा ॥५॥

परमायुः शतन्त्वेतन्मानुषाणां कलौ स्मृतम् ।
देवासुरमनुष्याश्च यक्षगन्धर्वराक्षसाः ॥६॥

परिणाहोच्छ्रये तुल्या जायन्तेह कृते युगे ।
षण्णवत्यङ्गुलोत्सेधो अष्टानां देवयोनिनाम् ॥७॥

नवाङ्गुलप्रमाणेन निष्पन्नेन तथाष्टकम् ।
एतत् स्वाभाविकं तेषां प्रमाणमधिकुर्वताम् ॥८॥

मनुष्या वर्त्तमानास्तु युगसन्ध्यांशकेष्विह ।
देवासुरप्रमाणन्तु सप्तसप्ताङ्गुलं क्रमात् ॥९॥

चतुराशीतिकैश्चैव कलिजैरङ्गुलैः स्मृतम् ।
आपादतलमस्तको नवतालो भवेत्तु यः ॥१०॥

संहृत्याजानुबाहुश्च दैवतैरभिपूज्यते ।
गवाञ्च हस्तिनाञ्चैव महिषस्थावरात्मनाम् ॥११॥

क्रमेणैतेन विज्ञेये ह्रासवृद्धी युगे युगे ।
षट्‌सप्तत्यङ्गुलोत्सेधः पशुराककुदो भवेत् ॥१२॥

अङ्गुलानामष्टशतमुत्सेधो हस्तिनां स्मृतः ।
अङ्गुलानां सहस्रन्तु द्विचत्वारिंशदङ्गुलम् ॥१३॥

शतार्द्धमङ्गुलानान्तु ह्युत्सेधः शाखिनाम्परः ।
मानुषस्य शरीरस्य सन्निवेशस्तु याद्रृशः ॥१४॥

तल्लक्षणन्तु देवानां द्रृश्यतेऽन्वयदर्शनात् ।
बुद्ध्यातिशयसंयुक्तो देवानां काय उच्यते ॥१५॥

तथा नातिशयश्चैव मानुषः काय उच्यते ।
इत्येव हि परिक्रान्ता भावा ये दिव्यमानुषाः ॥१६॥

पशूनां पक्षिणाञ्चैव स्थावराणां च सर्वशः ।
गावोऽजाश्वाश्च विज्ञेया हस्तिनः पक्षिणो मृगाः ॥१७॥

उपयुक्ताः क्रियास्वेते यज्ञियास्त्विह सर्वशः ।
यथाक्रमोपभोगाश्च देवानां पशुमूर्त्तयः ॥१८॥

तेषां रूपानुरूपैश्च प्रमाणैः स्थिरजङ्गमाः ।
मनोज्ञैस्तत्र तैर्भागैः सुखिनो ह्युपपेदिरे ॥१९॥

अथ सन्तः प्रवक्ष्यामि साधूनथ ततश्च वै ।
ब्राह्मणाः श्रुतिशब्दाश्च देवानां पशुमूर्त्तयः ॥२०॥

संपूज्य ब्रह्मणा ह्यन्तस्तेन सन्तः प्रचक्षते ।
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च ॥२१॥

ब्रह्मक्षत्रविशो युक्ताः श्रौतस्मार्तेन कर्म्मणा ।
वर्णाश्रमेषु युक्तस्य सुखोदर्कस्य स्वर्गतौ ॥२२॥

श्रौतस्मार्त्तो हि यो धर्मो ज्ञानधर्मः स उच्यते ।
दिव्यानां साधनात् साधुर्ब्रह्मचारीगुरोर्हितः ॥२३॥

कारणात् साधनाच्चैव गृहस्थः साधुरुच्यते ।
तपसश्च तथाऽरण्ये साधुर्वैखानसः स्मृतः ॥२४॥

यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ।
धर्मो धर्मगतिः प्रोक्तः शब्दो ह्येष क्रियात्मकः ॥२५॥

कुशलाकुशलौ चैव धर्माधर्मौ ब्रवीत् प्रभुः ।
अथ देवाश्च पितरः ऋषयश्चैव मानुषाः ॥२६॥

अयं धर्मो ह्ययं नेति ब्रुवते मौनमूर्त्तिना ।
धर्मेति धारणे धातुर्महत्वे चैव उच्यते ॥२७॥

आधारणे महत्त्वे वा धर्म्मः स तु निरुच्यते ।
तत्रेष्टप्रापको धर्म्म आचार्य्यैरुपदिश्यते ॥२८॥

अधर्म्मश्चानिष्टफल आचार्य्यैर्नोपदिश्यते ।
वृद्धाश्च लोलुपाश्चैव आत्मवन्तोह्यदाम्भिकाः ॥२९॥

सम्यग्विनीतामृदवस्तानाचार्यान् प्रचक्षते ।
धर्मज्ञैः विहितो धर्म्मः श्रौतस्मार्त्तो द्विजातिभिः ॥३०॥

दाराग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम् ।
स्मार्त्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः ॥३१॥

पूर्वेभ्यो वेदयित्वाह श्रौतं सप्तर्षयोऽब्रुवन् ।
ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि वै श्रुतिः ॥३२॥

मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत् ।
तस्मात् स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागशः ॥३३॥

एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते ।
शिषेर्धातोश्च निष्ठन्ताच्छिष्ठशब्दं प्रचक्षते ॥३४॥

मन्वन्तरेषु ये शिष्टा इह निष्ठान्तात्‌ धार्मिकाः ।
मनुः सप्तर्षयश्चैव लोकसन्तानकारिणः ॥३५॥

तिष्ठन्तीह च धर्मार्थं ताञ्छिष्टान्‌ सम्प्रचक्षते ।
तैः शिष्टैश्चलितो धर्मः स्थाप्यते वै युगे युगे ॥३६॥

त्रयीवार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेप्सया ।
शिष्टैराचर्य्यते यस्मात् पुनश्चैव मनुक्षये ॥३७॥

पूर्वैः पूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः ।
दानं सत्यं तपो लोको विद्येज्या पूजनन्दमः ॥३८॥

अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ।
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ह ॥३९॥

मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ।
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते ॥४०॥

इज्या वेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः ।
प्रत्यङ्गानि प्रवक्ष्यामि धर्मस्येह तु लक्षणम् ॥४१॥

द्रृष्टानुभूतमर्थञ्च यः पृष्टो न विगूहते ।
यथा भूतप्रवादस्तु इत्येतद्धर्मलक्षणम् ॥४२॥

ब्रह्मचर्य्यं तपो मौनं निराहारत्वमेव च ।
इत्येतत् तपसो रूपं सुघोरन्तु दुरासदम् ॥४३॥

पशूनां द्रव्यहविषामृक्‌सामयजुषां तथा ।
ऋत्विजां दक्षिणायाश्च संयोगो यज्ञ उच्यते ॥४४॥

आत्मवत्सर्वभूतेषु यो हिताय शुभाय च ।
वर्त्तते सततं हृष्टः क्रिया श्रेष्ठा दया स्मृता ॥४५॥

आक्रुष्टोऽभिहतो यस्तु नाक्रोशेत्प्रहरेदपि ।
अदुष्टो वाङ्मनः कायैस्तितिक्षुः साक्षमास्मृता ॥४६॥

स्वामिना रक्ष्यमाणानामुत्सृष्टानाञ्च सम्भ्रमे ।
परस्वानामनादानमलोभ इति संज्ञितः ॥४७॥

मैथुनस्यासमाचारो जल्पनाच्चिन्तनात्तथा ।
निवृत्तिर्ब्रह्मचर्यञ्च तदेतच्छ्रमलक्षणम् ॥४८॥

आत्मार्थे वा परार्थे वा इन्द्रियाणीह यस्य वै ।
विषये न प्रवर्त्तन्ते दमस्यैतत्तु लक्षणम् ॥४९॥

पञ्चात्मके यो विषये कारणे चाष्टलक्षणे ।
तत्तद्‌गुणवते देयमित्येतद्दानलक्षणम् ॥५१॥

श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः ।
शिष्टाचारप्रवृद्धश्च धर्मोऽयं साधुसम्मतः ॥५२॥

अप्रद्वेष्यो ह्यनिष्टेषु इष्टं वै नाभिनन्दति ।
प्रीतितापविषादानां विनिवृत्तिर्विरक्तता ॥५३॥

सन्न्यासः कर्मणां न्यासः कृतानामकृतैः सह ।
कुशलाकुशलाभ्यां तु प्रहाणं न्यास उच्यते ॥५४॥

अव्यक्तादिविशेषान्त विकारेऽस्मिन्निवर्त्तते ।
चेतनाचेतनं ज्ञात्वा ज्ञाने ज्ञानी स उच्यते ॥५५॥

प्रत्यङ्गानि तु धर्मस्य चेत्येतल्लक्षणं स्मृतम् ।
ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायम्भुवेऽन्तरे ॥५६॥

अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु ।
तथैव चातुर्होत्रस्य चातुर्वर्ण्यस्य चैव हि ॥५७॥

प्रति मन्वन्तरञ्चैव श्रुतिरन्या विधीयते ।
ऋचो यजूंषि सामानि यथावत् प्रतिदैवतम् ॥५८॥

विधिस्तोत्रं तथा होत्रं पूर्ववत् सम्प्रवर्त्तते ।
द्रव्यस्तोत्रं गुणस्तोत्रं कर्म्मस्तोत्रं तथैव च ॥५९॥

तथैवाभिजनस्तोत्रं स्तोत्रमेवं चतुर्विधम् ।
मन्वन्तरेषु सर्वेषु यथा वेदाद्भवन्ति हि ॥६०॥

प्रवर्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः ।
एवं मन्त्रगुणानान्तु समुत्पत्तिश्चतुर्विधा ॥६१॥

अथर्वऋग्यजुः साम्नां वेदेष्विह पृथक् पृथक् ।
ऋषिणां तपतां तेषां तपः परमदुश्चरम् ॥६२॥

मन्त्राः प्रादुर्भवन्त्यादौ पूर्वमन्वन्तरस्य ह ।
असन्तोषाद्भयाद्‌दुः खान्मोहाच्छोकाच्च पञ्चधा ॥६३॥

ऋषीणां तारका येन लक्षणेन यद्रृच्छया ।
ऋषीणां याद्रृशत्वं हि तद्वक्ष्यामीह लक्षणाम् ॥६४॥

अतीतानागतानाञ्च पञ्चधा ह्यार्षकं स्मृतम् ।
तथा ऋषीणां वक्ष्यामि आर्षस्येह समुद्भवम् ॥६५॥

गुणसाम्येन वर्त्तन्ते सर्वसम्प्रलये तदा ।
अविभागेन वेदानामनिर्द्देश्यतमोमये ॥६६॥

अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते ।
तेनार्षं बुद्धिपूर्वन्तु चेतनेनाप्यधिष्ठितम् ॥६७॥

प्रवर्तते यथा ते तु यथा मत्स्योदकावुभौ ।
चेतनाधिकृतं सर्वं प्रावर्तत गुणात्मकम् ॥
कार्यकारणभावेन तथा तस्य प्रवर्तते ॥६८॥

विषयो विषयित्वञ्च तदा ह्यर्थपदात्मकौ ।
कालेन प्रापणीयेन भेदाश्च कारणात्मकाः ॥६९॥

सांसिद्धिकास्तदावृत्ताः क्रमेण महदादयः ।
महतोऽसावहङ्कारस्तस्माद्‌भूतेन्द्रियाणि च ॥७०॥

भूतभेदाश्च भूतेभ्यो जज्ञिरे तु परस्परम् ।
संसिद्धिकारणं कार्य्यं सद्य एव निवर्त्तते ॥७१॥

यथोल्मुकात्तु विटपा एककालाद्भवन्ति हि ।
तथा प्रवृत्ताः क्षेत्रज्ञाः कालेनैकेनकारणात् ॥७२॥

यथान्धकारे खद्योतः सहसा सम्प्रद्रृश्यते ।
तथा निवृत्तो ह्यव्यक्तः खद्योत इव सज्वलन् ॥७३॥

स महात्मा शरीरस्थस्तत्रैवेह प्रवर्त्तते ।
महतस्तमसः पारे वैलक्षण्याद्विभाव्यते ॥७४॥

तत्रैव संस्थितो विद्वान् तपसान्त इति श्रुतम् ।
बुद्धिर्विवर्द्धतस्तस्य प्रादुर्भूता चतुर्विधा ॥७५॥

ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ।
सांसिद्धिकान्यथैतानि अप्रतीतानि तस्य वै ॥७६॥

महात्मनः शरीरस्य चैतन्यात् सिद्धिरुच्यते ।
पुरि शेते यतः पूर्वं क्षेत्रज्ञानं तथापि च ॥७७॥

पुरे शयनात् पुरुषः क्षेत्रज्ञानात् क्षेत्रज्ञ उच्यते ।
यस्माद्धर्मात् प्रसूते हि तस्माद्वै धार्मिकस्तु सः ॥७८॥

सांसिद्धिके शरीरे च बुद्‌ध्याव्यक्तस्तु चेतनः ।
एवं विवृत्तः क्षेत्रज्ञः क्षेत्रं ह्यनभिसन्धितः ॥७९॥

निवृत्तिसमकाले तु पुराणन्तदचेतनम् ।
क्षेत्रज्ञेन परिज्ञातं भोग्योऽयं विषयो मम ॥८०॥

ऋषिर्हिंसागतौ धातुर्विद्या सत्यं तपः श्रुतम् ।
एष सन्निचयो यस्माद् ब्रह्मणस्तु ततस्त्वृषिः ॥८१॥

निवृत्तिसमकालाच्च बुद्ध्या व्यक्तऋषिस्त्वयम् ।
ऋषते परमं यस्मात्परमर्षिस्ततः स्मृतः ॥८२॥

गत्यर्थाद्रृषतेर्धातोर्नामनिर्वृत्तिकारणम् ।
यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता ॥८३॥

सेश्वराः स्वयमुद्‌भूता ब्रह्मणो मानसाः सुताः ।
निवर्तमानैस्तैर्बुद्ध्या महान्‌ परिगतः परः ॥८४॥

यस्माद्‌द्रृशपरत्वेन सह तस्मान्महर्षयः ।
ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै ॥८५॥

ऋषिस्तस्मात्परत्वेन भूतादिर्ऋषयस्ततः ।
ऋषिपुत्रा ऋषीकास्तु मैथुनाद्‌ गर्भसम्भवाः ॥८६॥

परत्वेन ऋषन्ते वै भूतादिनृषिकास्ततः ।
ऋषिकाणां सुता ये तु विज्ञेया ऋषिपुत्रकाः ॥८७॥

श्रुत्वा ऋषं परत्वेन श्रुतास्तस्माच्छ्रुतर्षयः ।
अव्यक्तात्मा महात्मा वाहङ्कारात्मा तथैव च ॥८८॥

भूतात्मा चेन्द्रियात्मा च तेषां तज्‌ज्ञानमुच्यते ।
इत्येवमृषिजातिस्तु पञ्चधा नाम विश्रुता ॥८९॥

भृगुर्मरीचिरत्रिश्च अङ्गिरः पुलहः क्रतुः ।
मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चापि ते दश ॥९०॥

ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः ।
परत्वेनर्षयो यस्मान्मतास्तस्मान्महर्षयः ॥९१॥

ईश्वराणां सुतास्त्वेषामृषयस्तान्निबोधत ।
काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा ॥९२॥

उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा ।
कर्दमो वालखिल्याश्च विश्रवाः शक्तिवर्द्धनः ॥९३॥

इत्येते ऋषयः प्रोक्तास्तपसा ऋषिताङ्गताः ।
तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत ॥९४॥

वत्सरो नग्नहूश्चैव भरद्वाजश्च वीर्यवान् ।
ऋषिर्दीर्घतमा चैव बृहद्वक्षाः शरद्वतः ॥९५॥

वाजिश्रवाः सुचिन्तश्च शावश्च सपराशरः ।
श्रृङ्गी च शङ्खपाच्चैव राजा वै श्रवणस्तथा ॥९६॥

इत्येते ऋषिकाः सर्वे सत्येन ऋषिताङ्गताः ।
ईश्वरा ऋषयश्चैव ऋषीका ये च विश्रुताः ॥९७॥

एवं मन्त्रकृतः सर्वे कृत्स्नशश्च निबोधत ।
भृगुः काश्यपः प्राचेता दधीचो ह्यात्मवानपि ॥९८॥

ऊर्वोऽथ जमदग्निश्च वेदः सारस्वतस्तथा ।
आर्ष्टिषेणश्च्यवनश्च पीतहव्य स वेधसः ॥९९॥

वैण्यः पृथुर्दिवोदासो ब्रह्मवान् गृत्सशौनकौ ।
एकोनविंशतिर्ह्येते भृगवो मन्त्रकृत्तमाः ॥१००॥

अङ्गिराश्चैव त्रितश्च भरद्वाजोऽथ लक्ष्मणः ।
कृतवाचस्तथा गर्गः स्मृतिसंस्कृतिरेव च ॥१०१॥

गुरुवीतश्च मान्धाता अम्वरीषस्तथैव च ।
युवनाश्वः पुरुकुत्सः स्वश्रवस्तु सदस्यवान् ॥१०२॥

अजमीढो स्वहार्यश्च ह्युत्कलः कविरेव च ।
पृषदश्वो विरूपश्च काव्यश्चैवाथ मुद्गलः ॥१०३॥

उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि ।
अपस्यौषः सुचित्तिश्च वामदेवस्तथैव च ॥१०४॥

ऋषिजो बृहच्छुल्कश्च ऋषिर्दीर्घतमा अपि ।
कक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्यङ्गिरसां वराः ॥१०५॥

एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ।
कश्यपः सहवत्सारो नैध्रुवो नित्य एव च ॥१०६॥

असितो देवलश्चैव षडेते ब्रह्मवादिनः ।
अत्रिरर्द्धस्वनश्चैव शावास्योऽथ गविष्ठिरः ॥१०७॥

कर्णकश्च ऋषिः सिद्धस्तथा पूर्वातिथिश्च यः ॥१०८॥

इत्येते त्वत्रयः प्रोक्ता मन्तकृत् षण्महर्षयः  ।
वसिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः ॥१०९॥

ततस्तु इन्द्रप्रतिमः प़ञ्चमस्तु भरद्वसुः ।
षष्ठस्तु मित्रावरुणः सप्तमः कुण्डिनस्तथा ॥११०॥

इत्येते सप्त विज्ञेया वासिष्ठा ब्रह्मवादिनः ।
विश्वामित्रश्च गाधेयो देवरातस्तथा बलः ॥१११॥

तथा विद्वन्मधुच्छन्दा ऋषिश्चान्योऽघमर्षणः ।
अष्टको लोहितश्चैव भृतकीलश्चमाम्बुधिः ॥११२॥

देवश्रवा देवरतः पुराणश्च धनञ्जयः ।
शिशिरश्च महातेजाः शालङ्कायन एव च ॥११३॥

त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः ।
अगस्त्योऽथ द्रृढद्युम्नो इन्द्रबाहुस्तथैव च ॥११४॥

ब्रह्मिष्टागस्तयो ह्येते त्रयः परमकीर्त्तयः ।
मनुर्वैवस्वतश्चैव ऐलो राजा पुरूरवाः ॥११५॥

क्षत्रियाणां वरौ ह्येतौ विज्ञेयौ मन्त्रवादिनौ ।
भलन्दकश्च वासाश्वः सङ्कीलश्चैव ते त्रयः ॥११६॥

एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः सदा ।
इति द्विनवतिः प्रोक्ता मन्त्रा यैश्च बहिष्कृताः ॥११७॥

ब्राह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत ।
ऋषीकाणां सुता ज्ञेते ऋषिपुत्राः श्रुतर्षयः ॥११८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मौंजकेश II.

  • n. अंगिराकुलोत्पन्न एक गोत्रकार । 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.