TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४८

मत्स्यपुराणम् - अध्यायः १४८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १४८
तारकासुरोपाख्यानम् ।

तारक उवाच ।
श्रृणुध्वमसुराः! सर्वे वाक्यं मम महाबलाः ।
श्रेयसे क्रियतां बुद्धिः सर्वैः कृत्यस्य सम्विधौ ॥१॥

वंशक्षयकरा देवाः सर्वेषामेव दानवाः ।
अस्माकं जातिधर्मो वै विरूढं वैरमक्षयम् ॥२॥

वयमद्य गमिष्यामः सुराणां निग्रहाय तु ।
स्वबाहु बलमाश्रित्य सर्व एवमसंशयः ॥३॥

किन्तु ना तपसा युक्तो मन्येऽहं सुरसङ्गमम् ।
अहमादौ करिष्यामि तपो घोरन्दितेः सुताः ॥४॥

ततः सुरान् विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम् ।
स्थिरोपायो हि पुरुषः स्थिरश्रीरपि जायते ॥५॥

रक्षितुं नैव शक्नोति चपलश्चपलाः श्रियः ।
तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु ॥६॥

साधु साध्वित्यवोचंस्ते तत्र दैत्याः सविस्मयाः ।
सोऽगच्छत्पारियात्रस्य गिरैः कन्दरमुत्तमम् ॥७॥

सर्वर्तु कुसुमाकीर्णं नानौषधि विदीपितम् ।
नानाधातुरसस्राव चित्रं नानागुहागृहम् ॥८॥

गहनैः सर्वतो गूढं चित्रकल्प द्रुमाश्रयम् ।
अनेकाकारबहुलं पृथक् पक्षि कुलाकुलम् ॥९॥

नानाप्रस्रवणोपेतं नानाविधजलाशयम् ।
प्राप्य तत् कन्दरं दैत्यश्चचार विपुलं तपः ॥१०॥

निराहारः पञ्चतपा पत्रभुग्वारिभोजनः ।
शतं शतं समानान्तु तपांस्येतानि सोऽकरोत् ॥११॥

ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने ।
मांसस्याग्नौ जुहावासौ ततो निर्मांसताङ्गतः ॥१२॥

तस्मिन्निर्मांसतां याते तपोराशित्वमागते ।
जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः ॥१३॥

उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः ।
एतस्मिन्नन्तरे ब्रह्मा परमं तोषमागतः ॥१४॥

तारकस्य वरं दातुं जगाम त्रिदशालयात् ।
प्राप्य तं शैलराजानं स गिरेः कन्दरस्थितम्
उवाच तारकं देवो गिरा मधुरया युतः ॥१५॥

पुत्रालं तपसा तेऽस्तु नास्त्यसाध्यं तवाऽधुना ॥१६॥

वरं वृणीष्व रुचिरं यत्ते मनसि वर्त्तते ।
इत्युक्तस्यारको दैत्यः प्रणम्यात्मभुवं विभुम्
उवाच प्राञ्जलिर्भूत्वा प्रणतः पृथुविक्रमः ॥१७॥

तारक उवाच ।
देव! भूतमनोवास! वेत्सि जन्तुविचेष्टितम् ॥१८॥

कृतप्रतिकृताकाङ्क्षी जिगीषुः प्रायशो जनः ।
वयञ्च जातिधर्मेण कृतवैराः सहामरैः ॥१९॥

तैश्च निःशेषिता दैत्याः क्रूरैः सन्त्यज्य धर्मिताम् ।
तेषामहं समुद्धर्त्ता भवेयमिति मे मतिः ॥२०॥

अवध्यं सर्वभूतानामस्त्राणाञ्च महौजसाम् ।
स्यामहं परमो ह्येष वरो मम हुदि स्थितः ॥२१॥

एतन्मे देहि देवेश! नान्यो मे रोचते वरः
तमुवाच ततो दैत्यं विरिञ्चिः सुरनायकः ॥२२॥

न युज्यन्ते विना मृत्युं देहिनो दैत्यसत्तम ।
यतस्ततोऽपि वरय मृत्युं यस्मान्न शङ्खसे ॥२३॥

ततः सञ्चिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात् ।
वव्रे महासुरो मृत्युमवलेपनमोहितः ॥२४॥

ब्रह्मा चास्मै वरं दत्वा यत्किञ्चिन्मनसेप्सितम् ।
जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम् ॥२५॥

उत्तीर्णं तपसस्तं तु दैत्यं दैत्येश्वरास्तथा ।
परिबब्रुः सहस्राक्षं दिवि देवगणा यथा ॥२६॥

तस्मिन् महति राज्यस्य तारके दैत्यनन्दने ।
ऋतवो मूर्त्तिमन्तश्च स्वकाल गुणबृंहिताः ॥२७॥

अभवन् किङ्करास्तस्य लोकपालाश्च सर्वशः ।
कान्तिद्युतिर्धृतिर्मेधाः श्रीरवेक्ष्य च दानवम् ॥२८॥

परिबब्रुर्गुणाकीर्णा निश्छिद्राः सर्व एव हि ।
कालागुरुविलिप्ताङ्गं महामुकुटभूषणम् ॥२९॥

रुचिराङ्गदनद्धाङ्गं महासिंहासने स्थितम् ।
वीजयन्त्यप्सरः श्रेष्ठाः भृशं मुञ्चन्ति नैव ताः ॥३०॥

चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः ।
कृतान्तोऽग्रेसरस्तस्य बभूवुर्मुनिसत्तमाः ॥३१॥

एवं प्रयाति काले तु वितते तारकासुरः ।
बभाषे सचिवान् दैत्यः प्रभूतवरदर्पितः ॥३२॥

तारक उवाच ।
राज्येन कारणं किं मे त्वनाक्रम्य त्रिविष्टपम् ।
अनिर्याप्य सुरैर्वैरं का शान्तिर्हृदये मम ॥३३॥

भुञ्जतेऽद्यापि यज्ञांशानमरा नाक एव हि ।
विष्णुः श्रियं न जहति तिष्ठते च गतभ्रमः ॥३४॥

स्वस्थाभिः स्वर्गनारीभिः पीड्यन्तेऽमरवल्लभाः ।
सोत्पलामदिरामोदा दिविक्रीड़ायनेषु च ॥३५॥

लब्ध्वा जन्म न यः कश्चिद् घटयेत् पौरुषं नरः ।
जन्म तस्य वृथा भूतम् जन्मना तु विशिष्यते ॥३६॥

माता पितृभ्यां न करोति कामान् बन्धूनशोकान् न करोति यो वा ।
कीर्त्तिं हि वानार्जयते हिमाभां पुमान् स जातोऽपि मृतो मतं मे ॥३७॥

तस्माज्जयायामरपुङ्गवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् ।
संयोज्यतां मे रथमष्टचक्रं बलञ्च मे दुर्जय दैत्यचक्रम् ।
ध्वजञ्च मे काञ्चनपट्टनद्धं छत्रञ्च मे मौक्तिकजालबद्धम् ॥३८॥

तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः ।
सेनानीर्दैत्यराजस्य तथा चक्रे बलान्वितः ॥३९॥

आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः ।
तुरगाणां सहस्रेण चक्राष्टकविधूषितम् ॥४०॥

शुक्लाम्बरपरिष्कारं चतुर्थोजन विस्तृतम् ।
नानाक्रीडागृहयुतं गीतवाद्यमनोहरम् ॥४१॥

विमानमिव देवस्य सुरभर्त्तुः शतक्रतोः ।
दशकोटीश्वरा दैत्या दैत्यास्ते चण्डविक्रमाः ॥४२॥

तेषामग्रेसरो जम्भः कुजम्भोऽनन्तरस्ततः ।
महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा ॥४३॥

मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः ।
अन्येऽपि शतशस्तस्य पृथिवी दलन क्षमाः ॥४४॥

दैत्येन्द्रा गिरिवर्ष्माणः सन्ति चण्डपराक्रमाः ।
नानायुधप्रहरणा नानाशस्त्रास्त्रपारगाः ॥४५॥

तारकस्याभवत् केतू रौद्रः कनकभूषण ।
केतुना मकरेणापि सेनानीर्ग्रसनोऽरिहा ॥४६॥

पैशाचं यस्य वदनं जम्भस्यासीदयोमयम् ।
स्वरं विधूतलाङ्गूलं कुजम्भस्याभवद् ध्वजे ॥४७॥

महिषस्य तु गोमायुङ्केतोर्हैमं तदा भवत् ।
ध्वाङ्क्षं ध्वजेतु शुम्भस्य कृष्णायोमयमुच्छ्रितम् ॥४८॥

अनेकाकारविन्यासाश्चान्येषान्तु ध्वजास्तथा ।
शतेन शीघ्रवेगानां व्याघ्राणां हेममालिनाम् ॥४९॥

ग्रसनस्य रथो युक्तो किङ्किणी जालमालिनाम् ।
शतेनापि च सिंहानां रथो जम्भस्य दुर्जयः ॥५०॥

कुजम्भस्य रथो युक्तः पिशाचवदनैः स्वरैः ।
रथस्तु महिषस्योष्ट्रैर्गजस्य तु तुरङ्गमैः ॥५१॥

मेघस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः ।
पर्वताभैः समारूढो निमिर्मत्तैर्महागजैः ॥५२॥

चतुर्दन्तैर्गन्धवद्भिः शिक्षितैर्मेधभैरवैः ।
शतहस्तायते कृष्णे तुरङ्गैर्हेमभूषणैः ॥५३॥

सितचामरजालेन शोभिते दक्षिणां दिशम् ।
सितचन्दन चार्वङ्गो नानापुष्पस्रजोज्ज्वलः ॥५४॥

मथनो नाम दैत्येन्द्रः पाशहस्तो व्यराजत ।
जम्भकः किङ्किणीजाल मालमुष्ट्रं समास्थितः ॥५५॥

कालशुक्लमहामेषमारूढः शुम्भदानवः ।
अन्वेऽपि दानवा वीरा नाना वाहनगामिणः ॥५६॥

प्रचण्डचित्रकर्माणः कुण्डलोष्णीषभूषणाः ।
नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः ॥५७॥

नानासुगन्धिगन्धाढ्या नानाबन्दिजनस्तुताः ।
नानावाद्यपरिष्पन्दा श्चाग्रेसरमहारथा ॥५८॥

नानाशौर्यकथासक्तास्तस्मिन् सैन्ये महासुराः ।
तद् बलं दैत्यसिंहस्य भीमरूपं व्यजायत ॥५९॥

प्रमत्त चण्डमातङ्ग तुरङ्ग रथसङ्कुलम् ।
प्रतस्थेमरयुद्धाय बहुपत्तिपताकिनम् ॥६०॥

एतस्मिन्नन्तरे वायुर्देवदूतोऽम्बरालये ।
दृष्ट्वा स दानवबलं जगामेन्द्रस्य शंसितम् ॥६१॥

स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः ।
शशंस मध्ये देवानां तत्कार्यं समुपस्थितम् ॥६२॥

तच्छ्रुत्वा देवराजस्तु निमीलित विलोचनः ।
बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः ॥६३॥

इन्द्र उवाच ।
संप्राप्नोति विमर्दोऽयं देवानां दानवैः सह ।
कार्यं किमिति तद् ब्रूहि नीत्युपाय समन्वितम् ॥६४॥

एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरां पतिः ।
इत्युवाच महाभागे बृहस्पतिरुदारधीः ॥६५॥

सामपूर्वा स्मृता नीतिश्चतुरङ्गां पताकिनीम् ।
जिगीषतां सुरश्रेष्ठ! स्थितिरेषा सनातनी ॥६६॥

सामभेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम् ।
नीतौ क्रमाद्देशकाल रिपुयोग्य क्रमादिदम् ॥६७॥

सामदैत्येषु नैवास्ति यतस्ते लब्धसंश्रयाः ।
जातिधर्मेण वा भेद्या दानं प्राप्त श्रिये च किम् ॥६८॥

एकोऽभ्युपायो दण्डोऽत्र भवता यदि रोचते ।
दुर्जनेषु कृतं साम महद्याति च वन्ध्यताम् ॥६९॥

भयादिति व्यवस्यन्ति क्रूराः साम महात्मनाम् ।
ऋजुतामार्य्यबुद्धित्वं दयानीति व्यतिक्रमम् ॥७०॥

मन्यन्ते दुर्जना नित्यं साम चापि भयोदयात् ।
तस्माद् दुर्जनमाक्रान्तुं श्रेयान् पौरुषसंश्रयः ॥७१॥

आक्रान्ते तु क्रिया युक्ता सतामेतन्महाव्रतम् ।
दुर्जनः सुजनत्वाय कल्पते न कदाचन ॥७२॥

सुजनोऽपि स्वभावस्य त्यागं वाञ्छेत् कदाचन ।
एवं मे बुद्ध्यते बुद्धिर्भवन्तोऽत्र व्यवस्यताम् ॥७३॥

एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम् ।
कर्त्तव्यतां स सञ्चिन्त्य प्रोवाचामरसंसदि ॥७४॥

इन्द्र उवाच ।
सावधानेन मे वाचं श्रृणुध्वं नाकवासिनः!  ।
भवन्तो यज्ञभोक्तारः तुष्टात्मानोऽतिसात्विकाः ॥७५॥

स्वे महिम्नि स्थिता नित्यं जगतः परिपालकाः ।
भवतश्चानिमेत्तेन बाधन्ते दानवेश्वराः ॥७६॥

तेषां सामादि नैषास्ति दण्ड एव विधीयताम् ।
क्रियतां समरोद्योगः सैन्यं संयुज्यतां मम ॥७७॥

आद्रियन्तां च शस्त्राणि पूज्यन्तामस्त्रदेवताः ।
वाहनानि च यानानि योजयन्तु सहामराः ॥७८॥

यमं सेनापतिं कृत्वा शीग्रमेवं दिवौकसः ।
इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः ॥७९॥

वाजिनाम युतेनाजौ हेमघण्टापरिष्कृतम् ।
नानाश्चर्यगुणोपेतं संप्राप्तं सर्वदैवतैः ॥८०॥

रथं मातलिना क्लृप्तं देवराजस्य दुर्जयम् ।
यमो महिषमास्थाय सेनाग्रे समवर्त्तत ॥८१॥

चण्डकिङ्करवृन्देन सर्वतः परिवारितः ।
कल्पकालोद्धतज्वाला पूरिताम्बरलोचनः ॥८२॥

हुताशनश्छागरूढः शक्तिहस्तो व्यवस्थितः ।
पवनोऽङ्कुशपाणिस्तु विस्तारित महाजवः ॥८३॥

भुजगेन्द्रसमारूढो जलेशो भगवान् स्वयम् ।
नरयुक्तरथे देवो राक्षसेशो वियच्चरः ॥८४॥

तीक्ष्णखङ्गयुतो भीमः समरे समवस्थितः ।
महासिंहरवो देवो धनाध्यक्षो गदायुधः ॥८५॥

चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्वितौ ।
राजभिः सहितास्तस्थुर्गन्धर्वा हेमभूषणाः ॥८६॥

हेमपीठोत्तरासङ्गा- श्चित्रधर्म-रथायुधाः ।
नाकपृष्ठ शिखण्डास्तु वैढूर्य्य-मकरध्वजाः ॥८७॥

जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्द्धजाः ।
गृध्रध्वजा महावीर्या निर्मलायो विभूषणाः ॥८८॥

मुसलासिगदाहस्ता रथे चोष्णीष दंशिताः ।
महामेघरवा नागा भीमोल्काशनिहेतयः ॥८९॥

यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्द्धराः ।
ताम्रोलूकध्वजा रौद्रा हेमरत्न विभूषणाः ॥९०॥

द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ ।
गार्धपत्रध्वजप्रायमस्थिभूषण भूषितम् ॥९१॥

मुसलायुध दुष्प्रेक्ष्यं नाना प्राणि महारवम् ।
किन्नराः श्वेतवसनाः सितपत्रिपताकिनः ॥९२॥

मत्तेभवाहनप्रायाः तीक्ष्ण तोमरहेतयः ।
मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः ॥९३॥

केतुर्जलाघिनाथस्य भीमधूम ध्वजानिलः ।
पद्मरागमहारत्न-विटपं धनदस्य तु ॥९४॥

ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम् ।
वृकेण काष्ठलोहेन यमस्यासीत् महाध्वजः ॥९५॥

राक्षसेशस्य केतोर्वै प्रेतस्य सुखमाबभौ ।
हेमसिंहध्वजौ देवो चन्द्रार्कावमितद्युती ॥९६॥

कुम्भेन रत्नचित्रेण केतुरश्विनयोरभूत् ।
हेममातङ्गरचितं चित्र रत्न परिष्कृतम् ॥९७॥

ध्वजं शतक्रतोरासीत् सितचामरमण्डितम् ।
सनाग यक्ष गन्धर्व महोरगनिशाचरा ॥९८॥

सेना सा देवराजस्य दुर्जया भुवनत्रये ।
कोटयस्तास्त्रयस्त्रिंशद्दैवे देवनिकायिनाम् ॥९९॥

हिमाचलाभे सितकर्णचामरे सुवर्ण पद्मामल सुन्दरस्रजि ।
कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसङ्कुले ॥१००॥

स्थितस्तदैरावतनामकुञ्जरे महाबलश्चित्रविभूषणाम्बरः  ।
विशालवस्त्रांशु-वितानभूषितः प्रकीर्णकेयूर-भुजाग्रमण्डलः॥
सहस्रदृक् वन्दिसहस्रसंस्तुत-स्त्रिविष्टपेऽशोभत पाकशासनः ॥१०१॥

तुरङ्ग मातङ्ग बलौध सङ्कुला सितात पत्रध्वज राजिशालिनी ।
चमूश्च सा दुर्जयपत्रिसन्तता विभाति नानायुधयोधदुस्तरा ॥१०२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.5370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

efficiency bar

  • दक्षतारोध 
  • दक्षता रोध 
  • दक्षतारोध 
  • दक्षतारोध 
More meanings
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.