संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४७

मत्स्यपुराणम् - अध्यायः १४७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


तारकासुरोपाक्यानवर्णनम् ।

वराङ्ग्युवाच ।
त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च ।
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥१॥

दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता ।
पुत्रं मे तारकं देहि दुःख शोक महार्णवात् ॥२॥

एवमुक्तः स दैत्येन्द्रः कोपव्याकुल लोचनः ।
शक्तोऽपि देवराजस्य प्रतिकर्तुं महासुरः ॥३॥

तपः कर्तुं पुनर्दैत्यो व्यवस्यत महाबलः ।
ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः ॥४॥

आजगाम तदा तत्र यत्रासौ दितिनन्दनः ।
उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा ॥५॥

ब्रह्मोवाच ।
किमर्थं पुत्रभूयस्त्वं नियमं क्रूरमिच्छसि ।
आहाराभिमुखो दैत्यस्तन्नो ब्रूहि महाव्रत ॥६॥

यावदब्दसहस्रेण निराहारस्य यत् फलम् ।
क्षणेनैकेन तल्लब्धा त्यत्त्वा हारमुपस्थितम् ॥७॥

त्यागो ह्यप्राप्तकामानां कामेभ्यो न तथा गुरुः ।
यथा प्राप्तं परित्यज्य कामं कमललोचन ॥८॥

श्रुत्वैतद् ब्रह्मणो वाक्यं दैत्यः प्राञ्जलिरब्रवीत् ।
चिन्तयंस्तपसा युक्तो हृदि ब्रह्ममुखेरितम् ॥९॥

वज्राङ्ग उवाच ।
उत्थितेन मया दृष्टा समाधानात् त्वदाज्ञया ।
महिषी भीषिता दीना रुदन्ती शाखिनस्तले ॥१०॥

सा मयोक्ता तु तन्वङ्गी दूयमानेन चेतसा ।
किमेव वर्त्तसे भीरु! वद त्वं किञ्चिकीर्षसि ॥११॥

इत्युक्ता सा मया देव! प्रोवाच स्खलिताक्षरम् ।
वाक्यं वाचस्पते! भीता तन्वङ्गी हेतुसंहितम् ॥१२॥

वराङ्ग्युवाच ।
त्रासितास्म्यपविद्धास्मि कर्षिता पीडितास्मि च ।
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥१३॥

दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता ।
पुत्रं मे तारकं देहि ह्यस्माद्दुःखमहार्णवात् ॥१४॥

एवमुक्तस्तु संक्षुब्धस्तस्याः पुत्रार्थमुद्यतः ।
तपो घोरं करिष्यामि जयाय त्रिदिवौकसाम् ॥१५॥

एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा ।
उवाच दैत्यराजानं प्रसन्नश्चतुराननः ॥१६॥

ब्रह्मोवाच ।
अलन्ते तपसा वत्स! मा क्लेशे दुस्तरे विश ।
पुत्रस्ते तारको नाम भविष्यति महाबलः ॥१७॥

देवसीमन्तिनी कान्त धम्मिल्लस्य विमोक्षण ।
इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम् ॥१८॥

आगत्यानन्दयामास महिषीं हर्षिताननः ।
तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदा ॥१९॥

वज्राङ्गनाहितं गर्भं वराङ्गा वरवर्णिनी ।
पूर्णं वर्षसहस्रञ्च दधारोदर एव हि ॥२०॥

ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम् ।
जायमाने तु दैत्येन्द्रे तस्मिन् लोकभयङ्करे ॥२१॥

चचाल सकला पृथ्वी समुद्राश्च चकम्पिरे ।
चेलुर्महीधराः सर्वे ववुर्वाताश्च भीषणाः ॥२२॥

जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि ।
चन्द्रसूर्या जहुः कान्तिं सनीहारा दिशोऽभवन् ॥२३॥

जाते महासुरे तस्मिन् सर्वे चापि महासुराः ।
आजग्मुर्दृषितास्तत्र तथाचासुर योषितः ॥२४॥

जग्मुः हर्षसमाविष्टा ननृतुश्चासुराङ्गनाः ।
ततो महोत्सवो जातो दानवानां द्विजोत्तमाः ॥२५॥

विषण्ण मनसो देवाः समहेन्द्रास्तदाभवन् ।
वराङ्गी स्वसुतं दृष्ट्वा हर्षेणापूरिता तदा ॥२६॥

बहु मेने न देत्येन्द्र विजयन्तु तदैव सा ।
जातमात्रस्तु दैत्येन्द्रस्तारकश्चण्डविक्रमः ॥२७॥

अभिषिक्तोऽसुरैः सर्वैः कुजम्भमहिषादिभिः ।
सर्वासुरमहाराज्ये पृथिवी तुलन क्षमैः ॥२८॥

स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः ।
उवाच दानवश्रेष्ठान् युक्तियुक्तमिदं वचः ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP