TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२२

मत्स्यपुराणम् - अध्यायः १२२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १२२
शाकद्वीपवर्णनम् ।
सूत उवाच ।
शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम् ।
कथ्यमानं निबोधध्वं शाकं द्वीपं द्विजोत्तमाः! ॥१॥

जम्बूद्वीपस्य विस्ताराद्‌द्विगुणस्तस्य विस्तरः ।
विस्तारात् त्रिगुणाश्चापि परीणाहः समन्ततः ॥२॥

तेनावृतः समुद्रोऽयं द्वितीयो लवणोदकः ।
तत्र पुण्या जनपदा चिराच्च म्रियते जनः ॥३॥

कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह ।
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः ॥४॥

शाकद्वीपादिषु त्वेषु सप्त सप्त नगास्त्रिषु ।
ऋज्वायताः प्रतिदिशं निविष्टाः पर्वतोत्तमाः ॥५॥

रत्नाकाराद्रिनामानः सानुमन्तो महाचिताः ।
समोदिताः प्रतिदिशं द्वीपविस्तारमानतः ॥६॥

उभयत्रावगाढौ च लवणक्षीरसागरौ ।
शाकद्वीपे तु वक्ष्यामि सप्तदिव्यान् महाचलान् ॥७॥

देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते ।
प्रागायतः स सौवर्ण उदयो नाम पर्वतः ॥८॥

तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यपयान्ति च ।
तस्यापरेण सुमहान् जलधारो महागिरिः ॥९॥

स वै चन्द्रः समाख्यातः सर्वौषधिसमन्वितः ।
तस्मान्नित्यमुपादत्ते वासवः परमञ्जलम् ॥१०॥

नारदो नाम चैवोक्तो दुर्गशैलो महाचितः ।
तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ ॥११॥

तस्यापरेण सुमहान् श्यामो नाम महागिरिः ।
यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥१२॥

स एव दुन्दुभिर्नाम श्यामपर्वतसन्निभः ।
शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताड़ितः सुरैः ॥१३॥

रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् ।
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥१४॥

स वै सोमक इत्युक्तो देवैर्यत्रामृतं पुरा ।
संभृतञ्च हृतञ्चैव मातुरर्थे गरुत्मता ॥१५॥

तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः ।
हिरण्याक्षो वराहेण तस्मिन्‌ शैले निषूदितः ॥१६॥

आम्बिकेयात् परो रम्यः सर्वौषधिनिषेवितः ।
विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान् गिरिः ॥१७॥

यस्माद्विभ्राजते वह्निर्विभ्राजस्तेन स स्मृतः ।
सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च ॥१८॥

तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः! ।
श्रृणुध्वं नामतस्तानि यथावदनुपूर्वशः ॥१९॥

द्विनामान्येव वर्षाणि यथैव गिरयस्तथा ।
उदयस्योदयं वर्षं जलधारेति विश्रुतम् ॥२०॥

नाम्नागतभयं नाम वर्षं तत् प्रथमं स्मृतम् ।
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् ॥२१॥

तदेव शैशिरं नाम वर्षं तत् परिकीर्त्तितम् ।
नारदस्य च कौमारन्तदेव च सुखोदयम् ॥२२॥

श्यामपर्वतवर्षं तदनीचकमिति स्मृतम् ।
आनन्दकमितिप्रोक्तं तदेव मुनिभिः शुभम् ॥२३॥

सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्करम् ।
तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम् ॥२४॥

आंबिकेयस्य मैनाकं क्षेमकञ्चैव तत् स्मृतम् ।
तदेव ध्रुवमित्युक्तं वर्षं विभ्राजसंज्ञितम् ॥२५॥

द्वीपस्य परिणाहञ्च ह्रस्वदीर्घत्वमेव च ।
जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिम् ॥२६॥

शाको नाम महावृक्षः प्रजास्तस्य महानुगाः ।
एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥२७॥

विहरन्ति रमन्ते च द्रृश्यमानाश्च तैः सह ।
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ॥२८॥

तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः ।
द्विनाम्ना चैव ताः सर्वा गङ्गा सप्तविधा स्मृता ॥२९॥

प्रथमा सुकुमारीति गङ्गा शिवजला शुभा ।
मुनितप्ता च नाम्नैषा नदी सम्परिकीर्त्तिता ॥३०॥

सुकुमारी तपः सिद्धा द्वितीया नामतः सतो ।
नन्दाच पावनी चैव तृतीया परिकीर्त्तिता ॥३१॥

शिविका च चतुर्थी स्यात् द्विविधा च पुनः स्मृता ।
इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कुहूः ॥३२॥

वेणुका चामृता चैव षष्ठी सम्परिकीर्त्तिता ।
सुकृता च गभस्ती च सप्तमी परिकीर्त्तिता ॥३३॥

एताः सप्त महाभागाः प्रतिवर्षं शिवोदकाः ।
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥३४॥

अभिगच्छन्ति ताश्चान्या नदनद्यः सरांसि च ।
बहूदकपरिस्रावा यतो वर्षति वासवः ॥३५॥

तासान्तु नामधेयानि परिमाणं तथैव च ।
न श्क्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥३६॥

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।
एते शान्तभयाः प्रोक्ताः प्रमोदा ये च वै शिवाः ॥३७॥

आनन्दाश्च सुखाश्चैव क्षेमकाश्च नवैः सह ।
वर्णाश्रमाचारयुता देशास्तु सप्त विश्रुताः ॥३८॥

आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः ।
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः ॥३९॥

न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् ।
त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते ॥४०॥

शाकद्वीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्वशः ।
देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः ।
न तेषु सङ्करः कश्चित् वर्णाश्रमकृतः क्वचित् ॥४१॥

धर्म्मस्य चाव्यभीचारादेकान्तसुखिनः प्रजाः ॥४२॥

न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः ।
विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम् ॥४३॥

कालो नैव च तेष्वस्ति न दण्डो न च दाण्डिकः ।
स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम् ॥४४॥

परिमण्डलस्तु सुमहान् दीपो वै कुशसंज्ञकः ।
नदीजलैः परिवृतः पर्वतैश्चाभ्रसन्निभैः ॥४५॥

सर्वधातुविचित्रैश्च मणिविद्रमभूषितैः ।
अन्यैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥४६॥

वृक्षैः पुष्पफलोपेतैः सर्वतो धनधान्यवान् ।
नित्यं पुष्पफलोपेतः सर्वरत्नसमावृतः ॥४७॥

आवृतः पशुभिः सर्वैर्ग्रामारण्यैश्च सर्वशः ।
आनुपूर्वात् समासेन कुशद्वीपं निबोधत ॥४८॥

अथ तृतीयं वक्ष्यामि कुशद्वीपञ्च कृत्स्नशः ।
कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः ॥४९॥

शाकद्वीपस्य विस्तारो द्विगुणेन समन्वितः ।
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ॥५०॥

रत्नाकारस्तथा नद्यस्तेषां नामानि मे श्रृणु ।
द्विनामानश्च ते सर्वे शाकद्वीपे यथा तथा ॥५१॥

प्रथमः सूर्य्यसङ्काशः कुमुदो नाम पर्वतः ।
विद्रुमोच्चय इत्युक्तः स एव च महीधरः ॥५२॥

सर्वधातुमयैः श्रृङ्गैः शिलाजालसमन्वितैः ।
द्वितीय पर्वतस्तत्र उन्नतो नाम विश्रुतः ॥५३॥

हेमपर्वत इत्युक्तः स एव च महीधरः ।
हरितालमयैः श्रृङ्गै र्द्वीपमावृत्य सर्वशः ॥५४॥

बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरि ।
द्युतिमान्नामतः प्रोक्तः स एव च महीधरः ॥५५॥

चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महागिरौ ।
विशल्यकरणी चैव मृतसञ्जीवनी तथा ॥५६॥

पुष्पवान्नाम सैवोक्तः पर्वतः सुमहाचितः ।
कङ्कस्तु पञ्चमस्तेषां पर्वतो नाम सारवान् ॥५७॥

कुशेशय इति प्रोक्तः पुनः स पृथिवीधरः ।
दिव्यपुष्पफलोपेतो दिव्यवीरुत्समन्वितः ॥५८॥

षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः ।
स एव तु पुनः प्रोक्तो हरिरित्यभिविश्रुतः ॥५९॥

तस्मिन् सोऽग्निर्निवसति महिषो नाम योऽप्सुजः ।
सप्तमः पर्वतस्तत्र ककुद्मान् स हि भाषते ॥६०॥

मन्दरः सैव विज्ञेयः सर्वधातुमयः शुभः ।
मन्द इत्येष यो धातुरपामर्थे प्रकाशकः ॥६१॥

अपां विदारणाच्चैव मन्दरः स निगद्यते ।
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥६२॥

प्रजापतिमुपादाय प्रजाभ्यो विदधत् स्वयम् ।
तेषामन्तरविष्कम्भो द्विगुणः समुदाहृतः ॥६३॥

इत्येते पर्वतः सप्त कुशद्वीपे प्रभाषिताः ।
तेषां वर्षाणि वक्ष्यामि सप्तैव तु विभागशः ॥६४॥

कुमुदस्य स्मृतः श्वेत उन्नतश्चैव स स्मृतः ।
उन्नतस्य तु विज्ञेयं वर्षं लोहितसंज्ञकम् ॥६५॥

वेणुमण्डलकञ्चैव तथैव परिकीर्त्तितम् ।
बलाहकस्य जीमूतः स्वैरथाकारमित्यपि ॥६६॥

द्रोणस्य हरिकं नाम लवणञ्च पुनः स्मृतम् ।
कङ्कस्यापि ककुन्नाम धृतिमच्चैव तत् स्मृतम् ॥६७॥

महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ।
ककुद्मिनस्तु यद्वर्षं कपिलं नाम विश्रुतम् ॥६८॥

एतान्यपि विशिष्टानि सप्त सप्त पृथक् पृथक् ।
वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥६९॥

तत्रापि नद्यः सप्तैव प्रतिवर्षं हि ताः स्मृताः ।
द्विनामवत्यस्ताः सर्वाः सर्वाः पुण्यजलाः स्मृताः ॥७०॥

धूतपापा नदी नाम योनिश्चैव पुनः स्मृता ।
सीता द्वितीया विज्ञेया सा चैव हि निशा स्मृता ॥७१॥

पवित्रा तृतीया ज्ञेया वितृष्णापि च या पुनः ।
चतुर्थी ह्लादिनीत्युक्ता चन्द्रभा इति च स्मृता ॥७२॥

विद्युच्च पञ्चमी प्रोक्ता शुक्लाचैव विभाव्यते ।
पुण्ड्रा षष्ठी तु विज्ञेया पुनश्चैव विभावती ॥७३॥

महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता ।
अन्यास्ताभ्योऽपि सञ्जाताः शतशोऽथ सहस्रशः ॥७४॥

अभिगच्छन्ति ता नद्यो यतो वर्षति वासवः ।
इत्येष सन्निवेशो वः कुशद्वीपस्य वर्णितः ॥७५॥

शाकद्वीपेन विस्तारः प्रोक्तस्तस्य सनातनः ।
कुशद्वीपः समुद्रेण घृतमण्डोदकेन च ॥७६॥

सर्वतः सुमहान् द्वीपश्चन्द्रवत् परिवेष्टितः ।
विस्तारान्‌ मण्डलाच्चैव क्षीरोदाद्‌द्विगुणोमतः ॥७७॥

ततः परं प्रवक्ष्यामि क्रौञ्चद्वीपं यथा तथा ।
कुशद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः ॥७८॥

घृतोदकः समुद्रो वै क्रौञ्चद्वीपेन संवृतः ।
चक्रनेमिप्रमाणेन वृतो वृत्तेन सर्वशः ॥७९॥

तस्मिन् द्वीपे नराः श्रेष्ठा देवनो गिरिरुच्यते ।
देवनात्‌ परतश्चापि गोविन्दो नाम पर्वतः ॥८०॥

गोविन्दात् परतश्चापि क्रोञ्चस्तु प्रथमो गिरिः ।
क्रौञ्चात्परे पावनकः पावनादन्धकारकः ॥८१॥

अन्धकारात्परे चापि देवावृन्नाम पर्वतः ।
देवावृतः परेणापि पुण्डरीको महान् गिरिः ॥८२॥

एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वता ।
परस्परस्य द्विगुणो विष्कम्भो वर्षपर्वतः ॥८३॥

वर्षाणि तस्य वक्ष्यामि नामतस्तु निबोधत ।
क्रौञ्चस्य कुशलो देशो वामनस्य मनोऽनुगः ॥८४॥

मनोऽनुगात्परे चोष्णस्तृतीयोऽपि स उच्यते ।
उष्णात्परे पावनकः पावनादन्धकारकः ॥८५॥

अन्धकारकदेशात्तु मुनिदेशस्तथापरः ।
मुनिदेशात् परे चापि प्रोच्यते दुन्दुभिस्वनः ॥८६॥

सिद्धचारणसङ्कीर्णो गौरप्रायः शुचिर्जनः ।
श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षङ्गताः शुभाः ॥८७॥

नारी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्याती च पुण्डरीका च गङ्गाः सप्तविधाः स्मृताः ॥८८॥

तासां सहस्रशश्चान्या नद्यः पार्श्वसमीपगाः ।
अभिगच्छन्ति ता नद्यो बहुलाश्च बहूदकाः ॥८९॥

तेषां निसर्गो देशानामानुपूर्वेण सर्वशः ।
न शक्यो विस्तराद्वक्तुमपि वर्षशतैरपि ॥९०॥

सर्गायश्च प्रजानान्तु संहारो यश्च तेषु वै ।
अत ऊद्‌र्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत ॥९१॥

शाल्मलो द्विगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् ।
परिवार्य्य समुद्रन्तु दधिमण्डोदकं स्थितम् ॥९२॥

तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः ।
कुत एव तु दुर्भिक्षं क्षमातेजोयुता हि ते ॥९३॥

प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्वतः ।
पीतस्तु मध्यमश्चासीत्ततः कुम्भमयो गिरिः ॥९४॥

नाम्ना सर्वसुखो नाम दिव्यौषधिसमन्वितः ।
तृतीयश्चैव सौवर्णो भृङ्गपत्रनिभो गिरिः ॥९५॥

सुमहान् रोहितो नाम दिव्यो गिरिवरो हि सः ।
सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः ॥९६॥

रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः ।
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥९७॥

प्रजापतिमुपादाय प्रसन्नो विदधत् स्वयम् ।
न तत्र मेघा वर्षन्ति शीतोष्णञ्च न तद्विधम् ॥९८॥

वर्णाश्रमाणां वार्ता वा त्रिषु द्वीपेषु विद्यते ।
न ग्रहो न च चन्द्रोऽस्ति ईर्ष्याऽसूया भयं तथा ॥९९॥

उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च ।
भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् ॥१००॥

अधमोत्तमं न तेष्वस्ति न लोभो न परिग्रहः ।
आरोग्यबलवन्तश्च एकान्तसुखिनो नराः ॥१०१॥

त्रिंशद्वर्षसहस्राणि मानसीं सिद्धिमास्थिताः ।
सुखमायुश्च रूपञ्च धर्मैश्वर्य्यन्तथैव च ॥१०२॥

शाल्मलान्तेषु विज्ञेयं द्वीपेषु त्रिषु सर्वतः ।
व्याख्यातः शाल्मलान्तानां द्वीपानान्तु विधिः शुभः  ॥१०३॥

परिमण्‍डस्तु द्वीपस्य चक्रवत् परिवेष्टितः ।
सुरोदेन समुद्रेण द्विगुणेन समन्वितः ॥१०४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सतार

  • f  A guitar with three strings. 
  • स्त्री. एक तंतुवाद्य ; तारा ७ , तीन तांब्याच्या चार पोलादी , पहिल्या दोन षड्‍ज स्वरांत , पुढील मुख्य तार ( कोमल ) मध्यमांत चवथी पंचमांत , पांचवी खरज पंचमांत , सहावी षड्‍ज स्वरांत , सातवी तारसप्तकांतील षड्‍ज स्वरांत . पडदे १८ अगर २४ . १८ पडद्यांचा चलथाट , २४ पडद्यांचा अचल थाट ; याशिवाय तरफेच्या तारा ११ पडद्याखालीं लावतात . [ फा . सितारा = तीन तारांचें वाद्य ; यास पूर्वी तीनच तारा असत ] 
  • वि. १ सरळ . दोहीं मुनै सरिसे सतार । जैसे अमृताचे परांकुर । - ऋ ८० . २ उज्ज्वल . तिक्ष्ण सतार तरळ नएन । - आद्यमराठी कवयित्री उ . २११ . [ सं . स + तारा ] 
RANDOM WORD

Did you know?

परदेशात १३ हा आंकडा अशुभ कां मानतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.