TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२६

मत्स्यपुराणम् - अध्यायः १२६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १२६
सूर्यरथवर्णनम् ।
सूत उवाच ।
स रथोऽधिष्ठितो देवैर्मासि मासि यथाक्रमम् ।
ततो वहत्यथादित्यं बहुभिर्ऋषिभिः सह ॥१॥

गन्धर्वैरप्सरोभिश्च सर्पग्रामणि राक्षसैः ।
एते वसन्ति वै सूर्य्ये मासौ द्वौ द्वौ क्रमेण च ॥२॥

धाता यमा पुलस्त्यश्च पुलहश्च प्रजापती ।
उरगौ वासुकिश्चैव सङ्गीर्णश्चैव तावुभौ ॥३॥

तुम्बरुर्नारदश्चैव गन्धर्वौ गायताम्बरौ ।
कृतस्थल अप्सराश्चैव या च सा पुञ्जिकस्थली ॥४॥

ग्रामण्यौ रथकृत्तस्य रथौजाश्चैव तावुभौ ।
रक्षोहेतिः प्रहेतिश्च यातुधानादुभौ स्मृतौ ॥५॥

मधुमाधवयोर्ह्येष गणो वसति भास्करे ।
वसन् ग्रीष्मे तु द्वौ मासौ मित्रश्च वरुणश्च वै ॥६॥

ऋषिरत्रिर्वसिष्ठश्च नागौ तक्षकरम्भकौ ।
मेनका सहधन्या च हाहा हूहूश्च---गायकौ ॥७॥

रथन्तरश्च ग्रामण्यौ रथकृच्छैव तावुभौ ।
पौरुषेयो वधश्चैव यातुधानौ तु तौ स्मृतौ ॥८॥

एते वसन्ति वै सूर्य्ये मासयोः शुचिशुक्रयोः ।
ततः सूर्य्ये पुनश्चान्या निवसन्ति स्म देवताः ॥९॥

इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ।
एलापत्रस्तथा सर्पः शङ्खपालश्च पन्नगः ॥१०॥

विश्वावसुसुसेनौ च प्रातश्चैव रथश्च हि ।
प्रम्लोचेत्यप्सराश्चैव निम्लोचन्ती च ते उभे ॥११॥

यातुधानस्तथा हेतिर्व्याघ्रश्चैव तु तावुभौ ।
नभस्य नभसोरेतैर्वसन्तश्च दिवाकरे ॥१२॥

मासौ द्वौ देवताः सूर्य्यो वसन्ति च शरद्रृतौ ।
पर्यन्यश्चैव पूषा च भरद्वाजः सगौतमः ॥१३॥

चित्रसेनश्च गन्धर्वस्तथा वा सुरुचिश्च यः ।
विश्वाची च घृताची च उभेते पुण्यलक्षणे ॥१४॥

नागश्चैरावतश्चैव विश्रुतश्च धनञ्जयः ।
सेनजिच्च सुषेणश्च सेनानी ग्रामणीस्तथा ॥१५॥

चारोवातश्च द्वावेतौ यातुधानावुभौ स्मृतौ ।
वसन्त्ये ते च वै सूर्य्ये मासयोश्च त्विषोर्जयोः ॥१६॥

हेमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे ।
अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च ॥१७॥

भुजङ्गश्च महापत्यसर्पः कर्कोटकस्तथा ।
चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ ॥१८॥

अप्सराः पूर्वचित्तिश्च गन्धर्वाह्युर्वशी च या ।
तक्षा वारिष्टनेमिश्च सेनानीग्रामणीश्च तौ ॥१९॥

विद्युत् सूर्य्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ ।
सहे चैव सहस्ये च वसन्त्ये ते दिवाकरे ॥२०॥

ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते ।
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ॥२१॥

काद्रवेयौ यथा नागौ कम्बलाश्वतरावुभौ ।
गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चाश्च तावुभौ ॥२२॥

तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा ।
ग्रामणीर्ऋतजिच्चैव स्त्यजिच्च महाबलः ॥२३॥

ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च ।
इत्येते निवसन्तिस्म द्वौ द्वौ मासौ दिवाकरे ॥२४॥

स्थानाभिमानिनो ह्येते गणा द्वादशसप्तकाः ।
सूर्यमापादयन्त्येते तेजसा तेज उत्तमम् ॥२५॥

ग्रथितैस्तु वचोभिश्च स्तुवन्ति ऋषयो रविम् ।
गन्धवाप्सरसश्चैव गीतनृत्यैरुपासते ॥२६॥

विद्याग्रामणिनो यक्षाः कुर्वन्त्याभीषु संग्रहम् ।
सर्पाः सर्पन्ति वै सूर्यो यातुधानानुयान्ति च ॥२७॥

वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् ।
एतेषामेव देवानां यथावीर्य्यं यथा तपः ॥२८॥

यथायोगं यथाधर्मं यथातत्त्वं यथाबलम् ।
तथा तपत्यसौ सूर्य्यस्तेषामिद्वस्तु तेजसा ॥२९॥

भूतानामशुभं सर्वं व्यपोहति स्वतेजसा ।
मानवानां शुभैर्ह्येतैर्ह्रियते दुरितन्तु वै ॥३०॥

दुरितं शुभचाराणां व्यपोहन्ति क्वचित् क्वचित् ।
एते सहैवसूर्येण भ्रमन्ति सानुगा दिवि ॥३१॥

तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः ।
गोपायन्तिस्म भूतानि ईहन्ते ह्यनुकम्पया ॥३२॥

स्थानाभिमानिनां ह्येतत् स्थानं मन्वन्तरेषु वै ।
अतीतानागातानाञ्च वर्तन्ते साम्प्रतञ्च ये ॥३३॥

एवं वसन्ति वै सूर्य्ये सप्तकास्ते चतुर्दश ।
चतुर्दशेषु वर्त्तन्ते गणा मन्वन्तरेषु वै ॥३४॥

ग्रीष्मे हिमे च वर्षासु च मुञ्चमानो
घर्मं हिमञ्च वर्षञ्च निशां दिनञ्च ॥३५॥

गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान् पितृंश्च
मनुजाश्च सुतर्पयन्वै ॥
शुक्ले च कृष्णे तदहः क्रमेण कालक्षये चैव सुराः पिवन्ति ।
मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु ॥३६॥

सर्वेऽमृतं तत् पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः ।
सूर्य्येण गोभिर्हविवर्द्धिताभिरद्भिः पुनश्चैव समुच्छ्रिताभिः ॥३७॥

वृष्ट्याभिवृष्टाभिरथौषधीभिर्मत्या अथान्नेन क्षुधं जयन्ति ।
तृप्तिश्चाप्यमृतेनार्द्धमासं सुराणां मासे स्वाहाभिः स्वधया पितॄणाम् ॥
अनेन जीवन्त्यनिशं मनुष्याः सूर्य्यः श्रितन्तद्वि बिभर्ति गोभिः ॥३८॥

इत्येष एकचक्रेण सूर्य्यस्तूर्णं प्रसर्पति ।
तत्र तैरक्रमैरश्वैः सर्पतेऽसौ दिनक्षये ॥३९॥

हरिर्हरिद्भिर्ह्रियते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा ।
पुनः प्रमुञ्चत्यथ ताश्च यो हरिः समुह्यमानो हरिभिस्तुरङ्गमैः ॥४०॥

अहोरात्रं रथेनासावेकचक्रेण वै भ्रमन् ।
सप्तद्वीपसमुद्रांस्तु सप्तभिः सप्तभिर्द्रुतम् ॥४१॥

च्छन्दोरूपैश्च तैरश्वैर्यतश्चक्रं ततः स्थितिः ।
कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः ॥४२॥

हिरतैरव्यथैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः ।
वाह्यतोऽनन्तरञ्चैव मण्डलं दिवसः क्रमात् ॥४३॥

कल्पादौ सम्प्रयुक्ताश्च वहन्त्याभूतसंप्लवम् ।
आवृतो वालखिल्यैश्च भ्रमते रात्र्यहानि तु ॥४४॥

ग्रथितैः स्ववचोभिश्च स्तूयमानो महर्षिभिः ।
सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसाङ्गणैः ॥४५॥

तपङ्गैः पतगैरश्वैर्भ्राम्यमाणो दिवस्पतिः ।
वीथ्याश्रयाणि चरति नक्षत्राणि तथा रशी ॥४६॥

ह्रासवृद्धी तथैवास्य रश्मयः सूर्यवत् स्मृताः ।
त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः ॥४७॥

अपाङ्गर्भसमुत्पन्नो रथः साश्वः ससारथिः ।
सहारैस्तै स्त्रिभिश्चक्रैर्युक्तः शुक्तैर्हयोत्तमैः ॥४८॥

दशभिस्तुरगैर्दिव्यैरसङ्गैस्तन्मनोजवैः ।
सकृद्‌युक्ते रथे तस्मिन् वहन्तस्त्वायुगक्षयम् ॥४९॥

संग्रहीता रथे तस्मिन् श्वेतश्चक्षुः श्रवाश्च वै ।
अश्वास्तमेकवर्णास्ते वहन्ते शङ्कवर्चसः ॥५०॥

अजश्च त्रिपथश्चैव वृषो वाजी नरो हयः ।
अंशुमान् सप्तधातुश्च हंसो व्योम मृगस्तथा ॥५१॥

इत्येते नामभिश्चैव दश चन्द्रमसो हयाः ।
एवं चन्द्रमसं देवं वहन्ति स्मायुगक्षयम् ॥५२॥

देवैः परिवृतः सोमः पितृभिः सह गच्छति ।
सोमस्य शुक्लपक्षादौ भाष्करे परतः स्थिते ॥५३॥

आपूर्यते परो भागाः सोमस्य तु अहः क्रमात् ।
ततः पीतक्षयं सोमं युगपद् व्यापयन् रविः ॥५४॥

पीतं पञ्चदशाहञ्च रश्मिनैकेन भास्करः ।
आपूरयन् ददौ तेन भागं भागमहः क्रमात् ॥५५॥

सुषुम्नाप्यायमानस्य शुक्ले वर्द्धन्ति वै कलाः ।
तस्माद्ध्रसन्ति वै कृष्णे शुक्ले ह्याप्याययन्ति च ॥५६॥

इत्येवं सूर्य्यवीर्येण चन्द्रस्याप्यायते तनुः ।
पूर्णमास्यां प्रद्रृश्येत शुक्लः सम्पूर्णमण्डलः ॥५७॥

एवमाप्यायते सोमः शुक्लपक्षेष्वहः क्रमात् ।
ततो द्वितीया प्रभृति बहुलस्य चतुर्दशी ॥५८॥

अपां सारमयस्येन्दो रसमात्रात्मकस्य च ।
पिबन्त्यम्बुमयं देवा मधुसौम्यं तथामृतम् ॥५९॥

संभृतन्त्वर्द्धमासेन अमृतं सूर्य्यतेजसा ।
भक्षार्थमागतं सोमं पौर्णमास्यामुपासते ॥६०॥

एकरात्रं सुराः सार्द्धं पितृभिर्ऋषिभिश्च वै ।
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य वै ॥६१॥

प्रक्षीयते परे ह्यात्मा पीयमानकलाक्रमात् ।
त्रयश्च त्रिंशता सार्द्धं त्रयस्त्रिंशच्छतानि तु ॥६२॥

त्रयस्त्रिंशत् सहस्राणि देवाः सोमं पिबन्ति वै ।
इत्येवं पीयमानस्य कृष्णे वर्द्धन्ति ताः कलाः ॥६३॥

क्षीयन्ते च ततः शुक्लाः कृष्णा ह्याप्याययन्ति च ।
एवं दिनक्रमात् पीते देवैश्चापि निशाकरे ॥६४॥

पीत्वार्द्धमासं गच्छन्ति अमावास्यां सुराश्च ते ।
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥६५॥

ततः पञ्चदशे भागे किञ्चिच्छेषे निशाकरे ।
ततोऽपराह्णे पितरो यदन्यदिवसे पुनः ॥६६॥

पिबन्ति द्विकलं कालं शिष्टास्तास्तु कलास्तु याः ।
विनिस्सृष्टं त्वमावास्यां गभिस्तिब्यस्तदामृतम् ॥६७॥

अर्द्धमाससमाप्तौ तु पीत्वा गच्छन्ति तेऽमृतम् ।
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये स्मृताः ॥६८॥

काव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ।
सम्वत्सराश्च ये काव्या पश्चाद्वा वै द्विजाः स्मृताः ॥६९॥

सौम्याः सुतपसौ ज्ञेया सौम्या बर्हिषदस्तथा ।
अग्निष्वात्तास्त्रयश्चैव पितृसर्गस्थिता द्विजाः ॥७०॥

पितृभिः पीयमानायां पञ्चदश्यान्तु वै कलाम् ।
यावच्च क्षीयते तस्माद् भागः पञ्चदशस्तु सः ॥७१॥

अमावास्यां तथा तस्य अन्तरा पूर्यते परः ।
वृद्धिक्षयौ वै पक्षादौ षोड़श्यां शशिनः स्मृतौ ।
एवं सूर्य्यनिमित्ते ते क्षयवृद्वी निशाकरे ॥७२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सळो कां पळो असें करणें

  • अतिशय त्रासून सोडणें. ‘ इंग्रजांस सळो का पळो करुन सोडल्याखेरीज ते कांहीं देणार नाहींत.’ -केले २.२.४७. ‘ आजू बाजूच्या परिवारालाही तुमची कार्ये सळो कीं पळो करुन सोडीत असतात.’ -दाजी, भाग 
  • पा. २०४. 
RANDOM WORD

Did you know?

What is the Hindu Caste System?
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site