TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१२

मत्स्यपुराणम् - अध्यायः २१२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः २१२
सावित्र्युपाख्यानम् ।
सावित्र्युवाच ।
धर्मार्जने सुरश्रेष्ठ! कुतो ग्लानिः क्लमस्तथा ।
त्वपादमूलसेवा च परमं धर्मकारणम् ॥१॥

धर्मार्जनन्तथा कार्यं पुरुषेण विजानता ।
तल्लाभः सर्वलाभेभ्यो यदा देव विशिष्यते ॥२॥

धर्मश्चार्थश्च कामश्च त्रिवर्गो जन्मनः फलम् ।
धर्महीनस्य कामार्थौ वन्ध्यासुतसमौ प्रभो! ॥३॥

धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा ।
धर्मएकोऽनुयात्येनं यत्र क्वचन गामिनम् ॥४॥

शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ।
एको हि जायते जन्तुरेक एव विपद्यते ॥५॥

धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः ।
क्रिया सौभाग्यलावण्यं सर्वं धर्मेण लभ्यते ॥६॥

ब्रह्मोन्द्रोपेन्द्रशर्वेन्दुर्यमार्काग्न्यनिलाम्भसाम् ।
वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः ॥७॥

धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक! ।
मनोहराणि द्वीपानि वर्षाणि सुसुखानि च ॥८॥

प्रयान्ति धर्मेण नरास्तथैव नरगण्डिकाः ।
नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ॥९॥

तानि पुण्येन लभ्यन्ते नाकपृष्ठन्तथा नरैः ।
विमानानि विचित्राणि तथैवाप्सरसः शुभाः ॥१०॥

तैजसानि शरीराणि सदा पुण्यवतां फलम् ।
राज्यं नृपतिपूजा च कामसिद्धिस्तथेप्सिता ॥११॥

संस्काराणि च मुख्यानि फलं पुण्यस्य दृश्यते ।
रुर्क्मवैदूर्यदण्डानि चण्डांशुसदृशानिच ॥१२॥

चामराणि सुराध्यक्ष! भवन्ति शुभकर्मणाम् ।
पूर्णोन्दुमण्डलाभेन रत्नांशुकविकाशिना ॥१३॥

धार्यतां याति छत्रेण नरः पुण्येन कर्मणा ।
जयशङ्खस्वरौघेण सूतमागधनिःस्वनैः ॥१४॥

वरासनं सभृङ्गरं फलं पुण्यस्य कर्मणः ।
वरान्नपानं गीतञ्च भृत्यमाल्यानुलेपनम् ॥१५॥

रत्नवस्त्राणि मुख्यानि फलं पुण्यस्य कर्मणः ।
रूपौदार्यगुणोपेतास्त्रियश्चातिमनोहराः ॥१६॥

वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मिणः ।
सुवर्णकिङ्किणीमिश्रचामरापीडधारिणः ॥१७॥

वहन्ति तुरगा देव नरं पुण्येन कर्मणा ।
तस्य द्वाराणि यजनन्तपोदानन्दमः क्षमा ॥१८॥

ब्रह्मचर्यं तथा सत्यन्तीर्थानुमरणं शुभम् ।
स्वाध्याय-सेवा-साधूनां सहवासः सुरार्चनम् ॥१९॥

गुरुणां चैव शुश्रूषा ब्राह्मणानां च पूजनम् ।
इन्द्रियाणां जयश्चैव ब्रह्मचर्यममत्सरम् ॥२०॥

तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता ।
नहि प्रतीक्षते मृत्युः कृतमस्य च वा कृतम् ॥२१॥

बाल-एव-चरेद्धर्ममनित्यं देव! जीवितम् ।
कोहि जानाति कस्याद्य मृत्युरेवापतिष्यति ॥२२॥

पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम् ।
अमरस्येव चरितमत्याश्चर्यं सुरोत्तम! ॥२३॥

युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा ।
मृत्योरुत्सङ्गमारूढः स्थविरः किमपेक्षते ॥२४॥

तत्रापि विन्दतस्त्राणां मृत्युना तस्य का गतिः ।
न भयं मरणञ्चैव प्राणिनामभयं क्वचित् ॥२५॥

यम उवाच ।
तुष्टोऽस्मि ते विशालाक्षि! वचनैर्धर्मसङ्गतैः ।
विना सत्यवतः प्राणान् वरं वरयमाचिरम् ॥२६॥

सावित्र्युवाच ।
वरयामि त्वया दत्तं पुत्राणां शतमौरसम् ।
अनपत्यस्य लोकेषु गतिः किल न विद्यते ॥२७॥

यम उवाच ।
कृतेन कामेन निवर्त भद्रे! भविष्यतीदं सकलं यथोक्तम् ।
ममोपरोधस्तव च क्लमः स्यात्तथाऽधुना तेन तव ब्रवीमि ॥२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:56.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

adaptation of instruction

  • अध्यापन अनुकूलन 
RANDOM WORD

Did you know?

वारी म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.