संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९८

मत्स्यपुराणम् - अध्यायः १९८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कुशिकवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।

मत्स्य उवाच ।
अत्रेरेवापरं वंशन्तव वक्ष्यामि पार्थिव! ।
अत्रे सोमः सुतः श्रीमांस्तस्य वंशोद्भवो नृप ॥१

विश्वामित्रस्तु तपसा ब्राह्मण्यं समवाप्तवान् ।
तस्य वंशमहं वक्ष्ये तन्मे निगदतः श्रृणु ॥२

विश्वामित्रो देवरातस्तथा वैकृतिगालवः ।
वतण्डश्च सलङ्कश्च ह्यभयश्चायतायनः ॥३

श्यामायना याज्ञवल्क्या जाबालाः सैन्धवायनाः ।
वाभ्रव्याश्च करीषाश्च संश्रुत्या अथ संश्रुताः ॥४

उलूपा औपगहया पयोदजनपादपाः ।
खरवाचो हलयमाः साधिता वास्तु कौशिकाः ॥५

त्र्यार्षेयाः प्रवरास्तेषां सर्वेषां परिकीर्त्तिताः ।
विश्वामित्रो देवरात उद्दालश्च महायशाः ॥६

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
देवश्रवाः सुजातेयाः सौसुकाः कारुकायनाः ॥७

तथा वै देहराता ये कुशिकाश्च नराधिप! ।
त्र्यार्षेयोऽभिमतस्तेषां सर्वेषां प्रवरः शुभः ॥८

देवश्रवा देवरातो विश्वामित्रस्तथैव च ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥९

धनञ्जयः कपर्देयः परिकूटश्च पार्थिव! ।
पाणिनिश्चैव त्र्यार्षेयाः सर्व एते प्रकीर्तिताः ॥१०

विश्वामित्रस्तथाद्यश्च माधुच्छन्दस एव च ।
त्र्यार्षेयाः प्रवरा ह्येते ऋषयः परिकीर्त्तिताः ॥११

विश्वामित्रो मधुच्छन्दास्तथा चैवाघमर्षणः ।
परस्परमवैवाह्या ऋषयः परिकीर्त्तिताः ॥१२

कमलायजिनश्चैव अश्मरथ्यस्तथैव च ।
चञ्चुलिश्चापि त्र्यार्षेयः सर्वेषां प्रवरो मतः॥१३

विश्वामित्रश्चाश्वरथो वञ्जुलिश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥१४

विश्वामित्रो लोहितश्च अष्टकः पूरणस्तथा ।
विश्वामित्रः पूरणश्च तयोर्द्वौ प्रवरौ स्मृतौ ॥१५

परस्परमवैवाह्याः पूरणाश्च परस्परम् ।
लोहिता अष्टकाश्चैषां त्र्यार्षेयाः परिकीर्तिताः ॥१६

विश्वामित्रो लोहितश्च अष्टकश्च महातपाः ।
अष्टका लोहितैर्नित्यमवैवाह्याः परस्परम् ॥१७

उदरेणुः क्रथकश्च ऋषिश्चोदावहिस्तथा ।
शाट्यायनिः करीराशी शालङ्कायनिलावकी ॥१८

मौञ्जायनिश्च भगवान् त्र्यार्षेयाः परिकीर्तिताः ।
खिलिखिलीस्तथा विद्यो विश्वामित्रस्तथैव च ॥१९

एते तवोक्ताः कुशिका नरेन्द्र! महानुभावाः सततं द्विजेन्द्राः ।
येषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥२०

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP