संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७०

मत्स्यपुराणम् - अध्यायः ७०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पुण्यस्त्रीणां सदाचारव्रतकथनम् ।

ब्रह्मोवाच ।
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः ।
सदाचारस्य भगवन्! धर्मशास्त्रविनिश्चयः ।
पुण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः ॥१॥

ईश्वर उवाच ।
तस्मिन्नेव युगे ब्रह्मन्! सहस्राणि तु षोडश  ।
वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव ॥२॥

ताभिर्वसन्तसमये कोकिलालिकुलाकुले ।
पुष्पिते पवनोत्फुल्लकल्हारसरसस्तटे ॥३॥

निर्भरापानगोष्ठीषु प्रसक्ताभिरलङ्कृतः ।
कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः ॥४॥

गच्छन् समीपमार्गेण साम्बः परपुरञ्जयः ।
साक्षात्कन्दर्परूपेण सर्वाभरणभूषितः ॥५॥

अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः ।
प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि ॥६॥

तदावेक्ष्य जगन्नाथः सर्वतो ध्यानचक्षुषा ।
शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः ।
मत्परोक्षं यतः कामलौल्यादीद्रृग्विधं कृतम् ॥७॥

ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत् ।
ताभिः शापाभितप्ताभिर्भगवान्‌ भूतभावनः ॥८॥

उत्तारभूतन्दासत्वं समुद्राद्‌ ब्राह्मणः प्रियः ।
उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम् ॥९॥

भवतीनामृषिर्दाल्भ्यो यद्‌व्रतं कथयिष्यति ।
तदेवोत्तारणायालं दासत्वेऽपि भविष्यति ।
इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः ॥१०॥

ततः कालेन महता भारावतरणे कृते ।
निवृते मौसले तद्वत् केशवे दिवमागते ॥११॥

शून्ये यदुकुले सर्वैश्चौरैरपि जितेऽर्जुने ।
हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ ॥१२॥

तिष्ठन्तीषु च दौर्गत्य सन्तप्तासु चतुर्मुख! ।
आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः ॥१३॥

तास्तमर्घ्येण संपूज्य प्रणिपत्य पुनः पुनः ।
लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः ॥१४॥

स्मरन्त्यो विपुलान् भोगान् दिव्यमाल्यानुलेपनम् ।
भर्तारञ्जगतामीशमनन्तमपराजितम् ॥१५॥

दिव्यभावान्ताञ्च पुरीं नानारत्नगृहाणि च ।
द्वारकावासिनः सर्वान्‌ देवरूपान् कुमारकान् ॥
प्रश्नमेवं करिष्यन्ति मुनेरभिमुखं स्थिताः ॥१६॥

स्त्रिय ऊचुः ।
दस्युभिर्भगवन्! सर्वाः परिभुक्ता वयं बलात् ।
स्वधर्माच्च्यवतेऽस्माकमस्मिन्वः शरणं भव ॥१७॥

आदिष्टोऽसि पुरा ब्रह्मन्! केशवेन च धीमता ।
कस्मादीशेन संयोगं प्राप्य वेश्यत्वमागताः ॥१८॥

वेश्यानामपि यो धर्म्मस्तन्नो ब्रूहि तपोधन! ।
कथयिष्यत्यतस्तासां स दाल्भ्यश्चैकितायनः ॥१९॥

दाल्भ्य उवाच ।
जलक्रीड़ाविहारेषु पुरा सरसि मानसे ।
भवतीनाञ्च सर्वासां नारदोऽभ्यासमागतः ॥२०॥

हुताशनसुताः सर्वा भवन्त्योऽप्सरसः पुरा ।
अप्रणम्यावलेपेन परिपृष्टः स योगवित् ।
कथं नारायणोऽस्माकं भर्ता स्यादित्युपादिश ॥२१॥

तस्माद्वरप्रदानं वः शापश्चायमभूत् पुरा ।
शय्याद्वयप्रदानेन मधुमाधवमासयोः ॥२२॥

सुवर्णोपस्करोत्‌ सर्गा द्वादश्यां शुक्लपक्षतः ।
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि ॥२३॥

यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात् ।
परिपृष्टोऽस्मि तेनाशु वियोगो वा भविष्यति ॥
चोरैरपहृताः सर्वा वेश्या त्वं समवाप्स्यथ ॥२४॥

एवं नारदशापेन केशवस्य च धीमतः ।
वेश्यात्वमागताः सर्वा भवन्त्यः काममोहिताः ।
इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः! ॥२५॥

पुरा देवासुरे युद्धे हतेषु शतशः सुरैः ।
दानवासुरदैत्येषु राक्षसेषु ततस्ततः ॥२६॥

तेषां व्रातसहस्राणि शतान्यपि च योषिताम् ।
परिणीतानि यानि स्युर्बलाद् भुक्तानि यानि वै ॥
तानि सर्वाणि देवेशः प्रोवाच वदताम्वरः ॥२७॥

वेश्याधर्मेण वर्तध्वमधुना नृपमन्दिरे ।
भक्तिमत्यो वरारोहास्तथा देवकलेषु च ॥२८॥

राजानः स्वामिनस्तुल्या सुतावापि च तत् समाः ।
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः ॥२९॥

यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा ।
निधनेनोपचार्यो वः स तदान्यत्र दाम्भिकात् ॥३०॥

देवतानां पितॄणांच पुण्याहे समुपस्थिते ।
गोभूहिरण्यधान्यानि प्रदेयानि स्वशक्तितः ।
ब्राह्मणानां वरारोहाः कार्याणि वचनानि च ॥३१॥

यच्चाप्यन्यद् व्रतं सम्यगुपदेक्ष्याम्यहं ततः ।
अविचारेण सर्वाभिरनुष्ठेयं च तत् पुनः ॥३२॥

संसारोत्तारणायालमेतद्वेदविदो विदुः ।
यदा सूर्यदिने हस्तः पुष्यो वाथ पुनर्वसुः ॥३३॥

भवेत्‌ सर्वौषधी स्नानं सम्यङ्‌नारी समाचरेत् ।
तदा पञ्चशरस्यापि सन्निधातृत्वमेष्यति
अर्चयेत् पुण्डरीकाक्षमनङ्गस्यानुकीर्तनैः ॥३४॥

कामाय पादौ संपूज्य जङ्घे वै मोहकारिणे ।
मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः ॥३५॥

नाभिं सौख्यसमुद्राय रामाय च तथोदरम् ।
हृदयं हृदयेशाय स्तनावाह्लादकारिणे ॥३६॥

उत्कण्ठायेति वैकण्ठमास्यमानन्दकारिणे ।
वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम् ॥३७॥

मानसायेति वै मौलिं विलोलायेति मूर्द्धजम् ।
सर्वात्मने च सर्वाङ्गं देवदेवस्य पूजयेत् ॥३८॥

नमः शिवाय शान्ताय पाशाङ्कुशधराय च ।
गदिने पीतवस्त्राय शङ्खचक्रधराय च ॥३९॥

नमो नारायणायेति कामदेवात्मने नमः ।
सर्वशान्त्यै नमः प्रीत्यै नमो रत्यै नमः श्रियै ॥४०॥

नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे ।
एवं सम्पूज्य देवेशमनङ्गात्मकमीश्वरम् ॥
गंधैर्माल्यैस्तथा धूपैर्नैवेद्येन च कामिनी ॥४१॥

तत आहूय धर्म्मज्ञं ब्राह्मणं वेदपारगम् ।
अव्यङ्गावयवं पूज्य गन्दपुष्पार्चनादिभिः ॥४२॥

शालेयतण्डुलप्रस्तं घृतपात्रेण संयुतम् ।
तस्मै विप्राय सा दद्यात् माधवः प्रीयतामिति ॥४३॥

यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम् ।
रत्यर्थं कामदेवोऽयमिति चित्तेऽवधार्य तम् ॥४४॥

यद्यदिच्छति विप्रेन्द्रस्तत्तत् कुर्याद्विलासिनी ।
सर्वभावेन चात्मानमर्पयेत् स्मितभाषिणी ॥४५॥

एवमादित्यवारेण सर्वमेतत् समाचरेत् ।
तण्डुलप्रस्थदानञ्च यावन्मासास्त्रयोदश ॥४६॥

ततस्त्रयोदशे मासि संप्राप्ते तस्य भामिनी ।
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥४७॥

सोपधानकविश्रामां सास्तरावरणां शुभाम् ।
प्रदीपोपानहच्छत्र पादुकासनसंयुताम् ॥४८॥

सपत्नीकमलङ्कृत्य हेमसूत्राङ्गलीयकैः ।
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलैपनैः ॥४९॥

कामदेवं सपत्नीकं गुड़कुम्भोपरि स्थितम् ।
ताम्रपात्रासनगतं हैमनेत्रपटावृतम् ॥५०॥

स कांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् ।
दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम् ॥५१॥

यथान्तरं न पश्यामि कामकेशवयोः सदा ।
तथैव सर्वकामाप्तिरस्तु विष्णो! सदा मम ॥५२॥

यथा न कमला देहात् प्रयाति तव केशव!
तथा ममापि देवेश! शरीरे स्वे कुरु प्रभो! ॥५३॥

तथा च काञ्चनं देवं प्रतिगृह्णन् द्विजोत्तमः ।
क इदं कस्मादादिति वैदिकं मन्त्रमीरयेत् ॥५४॥

ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजपुङ्गवम् ।
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत् ॥५५॥

ततः प्रभृति यो विप्रो रत्यर्थं गृहमागतः ।
स मान्यः सूर्यवारे च स मन्तव्यो भवेत् तदा ॥५६॥

एवं त्रयोदशं यावन्मासमेवं द्विजोत्तमान् ।
तर्पयेत यथाकामं प्रोषितेऽन्यं समाचरेत् ॥५७॥

तदनुज्ञया रूपवान्यो यावदभ्यागतो भवेत् ।
आत्मनोऽपि यथाविघ्नं गर्भभूतिकरम्प्रियम् ॥५८॥

दैवं वा मानुषं वा स्यादनुरागेण वा ततः ।
साचारानष्टपञ्चाशद्यथाशक्त्या समाचरेत् ॥५९॥

एतद्धि कथितं सम्यक् भवतीनां विशेषतः ।
अधर्मोऽयं ततो न स्याद्वेश्यानामिह सर्वदा ॥६०॥

पुरुहूतेन यत् प्रोक्तं दानवीषु पुरा मया ।
तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते ॥६१॥

सर्वपापप्रशमनमनन्तफलदायकम् ।
कल्याणीनां प्रकथितं तत् कुरुध्वं वराननाः ॥६२॥

करोति या शेषमखण्डमेतत् कल्याणिनीमाधवलोकसंस्था ।
सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः ॥६३॥

श्रीभगवानुवाच ।
तपोधनः सोऽप्यभिधाय चैवं तदा च तासां व्रतमङ्गनानाम् ।
स्वस्थानमेष्यन्ति समस्तमित्थं व्रतं करिष्यन्ति च देवयोने! ॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP