संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५०

मत्स्यपुराणम् - अध्यायः १५०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


तारकोपाख्याने देवासुरयुद्धवर्णनम् ।

सूत उवाच ।
अथ ग्रसनमालोक्य यमः क्रोधविमूर्च्छितः ।
ववर्ष शरवर्षेण विशेषेणाग्निवर्चसाम् ॥१॥

स विद्धो बहुभिर्बाणैर्ग्रसनोऽतिपराक्रमः ।
कृतप्रतिकृताकाङ्क्षी धनुरानम्य भैरवम् ॥२॥

शतैः पञ्चभिरत्युग्रैः शराणां यममर्दयन् ।
स विचिन्त्य यमो बाणान् ग्रसनस्यातिपौरुषम् ॥३॥

बाणवृष्टिभिरुग्राभिर्यमोग्रसनमर्दयन् ।
कृतान्तशरवृष्टिन्तां वियति प्रतिसर्पिणीम् ॥४॥

चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः ।
विफलां तां समालोक्य यमस्तां शरसन्ततिम् ॥५॥

स विचिन्त्य सरव्रातं ग्रसनस्य रथं प्रति ।
चिक्षेप मुद्गरं धोरन्तरसा तस्य चान्तकः ॥६॥

स तं मुद्गरमायान्तमुत्प्लुत्य गगनस्थितिम् ।
जग्राह वामहस्तेन याम्यं दानवनन्दनः ॥७॥

तमेव मुद्गरं गृह्य यमस्य महिषं रुषा ।
पातयामास वेगेन स पपात महीतले ॥८॥

उत्प्लुत्याथ यमस्तस्मान् महिषान् निष्पतिष्यतः ।
प्रासेन ताड़यामास ग्रसनं वदने दृढ़म् ॥९॥

स तु प्रासप्रहारेण मूर्च्छितोन्यपतद्भुवि ।
ग्रसनं पतितं दृष्ट्वा जम्भो भीमपराक्रमः ॥१०॥

यमस्य भिन्दि पालेन प्रहारमकरोद् हृदि ।
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् ॥११॥

कृतान्तमर्दितं दृष्ट्वा गदापाणिर्धनाधिपः ।
वृतो यक्षायुतशतैः जम्भं प्रत्युद्ययौ रुषा ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP