TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८८

मत्स्यपुराणम् - अध्यायः १८८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १८८
त्रिपुरविनाशार्थं रुद्रस्य बाणपुरे गमनम् ।
मार्कण्डेय उवाच ।
यन्मां पृच्छसि कौन्तेय! तन्मे कथयतः श्रुणु ।
एतस्मिन्नन्तरे रुद्रो नर्मदा तटमाश्रितः ॥१॥

नाम्ना महेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम् ।
तस्मिन्स्थाने महादेवो चिन्तयत्त्रिपुरे वधम् ॥२॥

गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा च वासुकिम् ।
स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ॥३॥

शल्येचाग्निं प्रतिष्ठाप्य मुखे वायुं समर्पयन् ।
हयांश्च चतुरो वेदान् सर्वदेवमयं रथम् ॥४॥

अभीषवोऽश्विनौ देवावक्षोवज्रधरः स्वयम् ।
स तस्याज्ञां समादाय तोरणे धनदः स्थितः ॥५॥

यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः ।
चक्रे त्वमरकोट्यस्तु गन्धर्वा लोक विश्रुताः ॥६॥

प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः ।
एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ॥७॥

सोऽतिष्ठत् स्थाणुभूतस्तु सहस्र परिवत्सरान् ।
यदा त्रीणि समेतानि अन्तरिक्षे स्थितानि वै ॥८॥

त्रिपर्वाणि त्रिशल्येन तदा तानि व्यभेदयत् ।
शरः प्रवोदितस्तेन रुद्रेण त्रिपुरं प्रति ॥९॥

भ्रष्टतेजा स्त्रियो जाता बलन्तासां व्यशीर्यत ।
उत्पाताश्च पुरे तस्मिन् प्रादुर्भूताः सहस्रशः ॥१०॥

त्रिपुरस्य विनाशाय कालरूपा भवंस्तदा ।
अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तदा ॥११॥

निमेषोन्मेषणञ्चैव कुर्वन्ते चित्ररूपिणः ।
स्वप्ने पश्यन्ति चात्मानं रक्ताम्बर विभूषितम् ॥१२॥

स्वप्ने तु सर्वे पश्यन्ति विपरीतानि यानि तु ।
एतान् पश्यन्ति उत्पातास्तत्र स्थाने तु ये जनाः ॥१३॥

तेषां बलञ्च बुद्धिश्च हर कोपेन नाशिते ।
ततः सांवर्तको वायुर्युगान्त प्रतिमो महान् ॥१४॥

समीरितोऽनलस्तेन उत्तमाङ्गेन धावति ।
ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च॥१५॥

सर्वतो व्याकुलीभूतं हाहाकारमचेतनम् ।
भग्नोद्यानानि सर्वाणि क्षिप्रं तत् प्रत्यभज्यत ॥१६॥

तेनैव पीडितं सर्वं ज्वलितं त्रिखिखैः खरैः ।
द्रुमाश्चाराम खण्डानि गृहाणि विविधानि च ॥१७॥

दश दिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः ।
मनः शिलानां पुञ्जानि दिशो दश विभागशः ॥१८॥

शिखाशतैरनेकैस्तु प्रजज्वाल हुताशनः ।
सर्वं किंशुकवर्णाभं ज्वलितं दृश्यते पुरम् ॥१९॥

गृहाद् गृहान्तरं नैव गन्तुं धूमेन शक्यते ।
हरकोपानलैर्दग्धं क्रन्दमानं सुदुःखितम् ॥२०॥

प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम् ।
प्रासाद शिखराग्राणि व्यशोर्यन्त सहस्रशः ॥२१॥

नानामणिविचित्राणि विमानान्यप्यनेकधा ।
गृहाणि चैव रम्याणि दह्यन्ते दीप्तवह्निना ॥.२२॥

धावन्ति द्रुमखण्डेषु वलभीषु तता जनाः ।
देवागारेषु सर्वेषु प्रज्वलन्तः प्रधाविताः ॥२३॥

क्रन्दन्ति चानलस्पृष्टा रुदन्ति विविधैः स्वरैः ।
दह्यन्ते दानवास्तत्र शतशोऽथ सहस्रशः ॥२४॥

हंसकारण्डवाकीर्णा नलिन्यः सह पङ्कजाः ।
दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ॥२५॥

अम्लान-पङ्कजच्छन्ना विस्तीर्णां योजनायताः ।
गिरिकूटनिभास्तत्र प्रासादा रत्नभूषिताः ॥.२६॥

पतन्त्यनलनिर्दग्धा निस्तोया जलदा इव ।
वरस्त्री बालवृद्धेषु गोषु पक्षिषु वाजिषु ॥२७॥

निर्दयो व्यदहद्वह्निर्हरक्रोधेन प्रेरितः ।
सहस्रशः प्रबुद्धाश्च सुप्ताश्च बहवो जनाः ॥२८॥

पुत्रमालिङ्ग्य ते गाढं दह्यन्ते त्रिपुराग्निना ।
अथ तस्मिन् पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः ॥२९॥

अग्निज्वालाहतास्तत्र ह्यपतन् धरणीतले ।
काचिच्छ्यामा विशालाक्षी मुक्तावलिविभूषिता ॥३०॥

धूमेनाकुलिता सा तु पतिता धरणीतले ।
काचित् कनकवर्णाभा इन्द्रनीलविभूषिता ॥३१॥

भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि ।
काचिदादित्यसङ्काशा प्रमुक्ता च गृहे स्थिता ॥.३२॥

अग्निज्वालाहता सा तु पतिता गतचेतना ।
उत्थितो दानवस्तत्र खड्गहस्तो महाबलः ॥३३॥

वैश्वानरहतः सोऽपि पतितो धरणीतले ।
मेघवर्णापरा नारी हारकेयूर भूषिता ॥३४॥

श्वेतरूपधरा नारी बालं स्तन्यं न्यधापयत् ।
दह्यन्तं बालकं दृष्ट्वा रुदते मेघशब्दवत् ॥३५॥

एवं स तु दहन्तग्निर्हरक्रोधेन प्रेरितः ।
काचिच्चन्द्रप्रभा सौम्या वज्रवैढूर्यभूषिता ॥३६॥

सुतमालिङ्ग्य वेपन्ती दग्धा पतति भूतले ।
काचित् कुन्देन्दुवर्णाभा या शयाना गृहे स्थिता ॥३७॥

गृहे प्रज्वलिते सा तु प्रतिबुद्धा सुदुःखिता ।
पश्यन्ती ज्वलितं सर्वं स्वसुतो मे दिवङ्गतः ॥३८॥

सुतं सन्दग्धमालिंग्य पतिता धरणीतले ।
काचित् सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ॥३९॥

धूमेनाकुलिता सा तु प्रसुप्ता धरणीतले ।
अन्या गृहीतहस्ता तु सखि! दह्यति बालिकाम् ॥४०॥

अनेकदिव्यरत्नाढ्या दृष्ट्वा दहनमोहिता ।
शिरसि ह्यञ्जलिं कृत्वा विज्ञापयति पावकम् ॥४१॥

भगवन् । यदि वैरन्ते पुरुषेष्वपकारिषु ।
स्त्रियः किमपराधन्ते गृहपञ्जरकोकिलाः ॥४२॥

पापनिर्दयनिर्लज्ज! कस्ते कोपः स्त्रियः प्रति ।
न दाक्षिण्यं न ते लज्जा न सत्यं शौर्य्यवर्जितम् ॥४३॥

अनेन ह्यपसर्गेण तूपालम्भं शिखिन्यदात् ।
किं त्वया न श्रुतं लोके ह्यबध्याः शत्रुयोषितः ॥४४॥

किन्तु तुभ्यं गुणा ह्येते दहनोत्सादनं प्रति ।
न कारुण्यं दया वापि दाक्षिण्यं न स्त्रियः प्रति ॥४५॥

दयां कुर्वन्ति म्लेच्छापि दहन्तीं वीक्ष्य योषितम् ।
म्लेच्छानामपि कष्टोऽसि दुर्निवारो ह्यचेतनः ॥४६॥

एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति ।
असावपि दुराचारः स्त्रीणां किं ते निपातने ॥४७॥

दुष्टनिर्घृण निर्लज्ज! हुताशिन्! मन्दभाग्यक! ।
निराशत्वं दुरावास बलाद्दहसि निर्दय! ॥४८॥

एवं विलप्यमानास्ता जल्पन्त्यश्च बहून्यपि ।
अन्याः क्रोशन्ति संक्रुद्धा बालशोकेन मोहिताः ॥४९॥

दहते निर्दयो वह्निः संक्रुद्धः पूर्वशत्रुवत् ।
पुष्करिण्यां जलं दग्धं कूपेष्वपि तथैव च ॥५०॥

अस्मान् सन्दह्य म्लेच्छ! त्वं कां गतिं प्रापयिष्यसि ।
एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ॥५१॥

अग्निरुवाच ।
स्ववशेनैव युष्माकं विनाशन्तु करोम्यहम् ।
अहमादेशकर्ता वै नाहं कर्तास्म्यनुग्रहम् ॥५२॥

रुद्रक्रोदसमाविष्टो विविशामि यथेच्छया ।
ततो बाणो महातेजा स्त्रिपुरं वीक्ष्य दीपितम् ॥५३॥

सिंहासनस्थः प्रोवाच ह्यहं देवैर्विनाशितः ।
अल्पसत्वैर्दुराचारैरीश्वरस्य निवेदितम् ॥५४॥

अपरीक्ष्य त्वहं दग्धः शङ्करेण महात्मना ।
नान्यः शक्तस्तु मा हन्तुं वर्जयित्वा त्रिलोचनम् ॥५५॥

उत्थितः शिरसा कृत्वा लिङ्गं त्रिभुवनेश्वरम् ।
निर्गतः सपुरद्वारात् परित्यज्य सुहृत् सुतान् ॥५६॥

रत्नानि यान्यनर्घाणि स्त्रियो नानाविधास्तथा ।
गृहीत्वा शिरसा लिङ्गं गच्छन् गगनमण्डलम् ॥५७॥

स्तुवंश्च देवदेवेशं त्रिलोकाधिपतिं शिवम् ।
त्यक्त्वा पुरी मया देव! यदि बध्योऽस्मि शङ्कर ॥५८॥

त्वत्प्रसादान् महादेव! मा मे लिङ्गं विनश्यतु ।
अर्चितं हि मया देव!भक्त्या परमया सदा ॥५९॥

त्वत्कोपाद्यदि बध्योऽहं तदिदं मा विनश्यतु ।
श्लाध्यमेतन्महादेव! त्वत्कोपाद्दहनं मम ॥६०॥

प्रतिजन्म महादेव! त्वत्पादनिरतो ह्यहम् ।
त्रो(तो)टकच्छन्दसा देवं स्तौमि त्वां परमेश्वर ॥६१॥

शिवशङ्करशर्वहराय नमो भव भीम महेश्वर शर्व नमः ।
कुसुमायुधदेहविनाशकर त्रिपुरान्तक अन्धक शूलधर ॥६२॥

प्रमदाप्रिय कान्त विभक्त नमः ससुरासुरसिद्धगणैर्नमित ।
हयवानरसिद्धगजेन्द्रमुखादतिभास्वरदीर्घविशालमुख ॥६३॥

उपलब्धुमशक्यतरैरमरैरसुरैः प्रथितोऽस्मि च बाहुशतैः ।
प्रणतोऽस्मि भवं भवभक्तिरतो चलचन्द्रकलाकुलदेव नमः ॥६४॥

न च पुत्रकलत्रहयादि धनं मम तु त्वदनुस्मरणं शरणम् ।
व्यथितोऽस्मि तु बाहुशतैर्बहुभिर्गमिता च महानरकस्य गतिः ॥६५॥

न निवर्तति जन्म न पापमतिः शुचिकर्मनिबद्धमपि त्यजति ।
अनुकम्पति विभ्रमति सति मम चैव कुकर्म निवारयति ॥६६॥

यः पठेत्त्रोटकन्दिव्यं प्रायः शुचिमानसः ।
बाणस्येव यथा रुद्रस्तस्यापि वरदो भवेत्॥६७॥

इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः ।
प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ॥६८॥

महेश्वर उवाच ।
न भेतव्यं त्वया वत्स! सौवर्णे तिष्ठ दानव! ।
पुत्रपौत्रसुहृद्बन्धु भार्याबन्धुजनैः सह ॥६९॥

अद्य प्रभृति बाण! त्वमबध्यस्त्रिदशैरपि ।
भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव!॥७०॥

अक्षयश्चाव्ययो लोके विचरस्वाकुतोभयः ।
ततो निवारयामास रुद्रः सप्तशिखं तदा ॥७१॥

तृतीयं रक्षितं तस्य पुरं तेन महात्मना ।
भ्रमत्तु गगने दिव्यं रुद्रतेजः प्रभावतः ॥७२॥

एवं तु त्रिपुरं दग्धं शङ्करेण महात्मना ।
ज्वालमालाप्रदीप्तं तत्पतितं धरणीतले ॥७३॥

एकं निपतितं तत्र श्रीशैले त्रिपुरान्तके ।
द्वितीयं पतितं तस्मिन् पर्वतेऽमरकण्टके ॥७४॥

दग्धेषु तेषु राजेन्द्र! रुद्रकोटिः प्रतिष्ठिता ।
ज्वलत्तदपत्तत्र तेन ज्वालेश्वरः स्मृतः ॥७५॥

ऊर्ध्वेन प्रस्थितास्तस्य दिव्यज्वाला दिवङ्गताः ।
हाहाकारस्तदा जातो देवासुरकृतो महान् ॥७६॥

शरमस्तं भवद्रुद्रो माहेश्वरपुरोत्तमे ।
एवं वृत्तं तदा तस्मिन् पर्वतेऽमरकण्टके ॥७७॥

चतुर्दशाख्यं भुवनं भुक्त्वा पाण्डुनन्दन! ।
वर्षकोटिसहस्रन्तु त्रिंशत्कोट्यस्तथापराः ॥७८॥

ततो महीतलं प्राप्य राजा भवति धार्मिकः ।
पृथिवीमेकच्छत्रेण भुङ्क्ते स तु न संशयः ॥७९॥

एवं पुण्यो महाराज! पर्वतोऽमरकण्टके ।
चन्द्रसूर्योपरागे तु गच्छेद् योऽमरकण्टकम् ॥८०॥

अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ।
स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ॥८१॥

ब्रह्महत्या गमिष्यन्ति राहुग्रस्ते दिवाकरे ।
तदेवं निखिलं पुण्यं पर्वतेऽमरकण्टके ॥८२॥

मनसापि स्मरेद्यस्तां गिरि त्वमरकण्टकम् ।
चान्द्रायणशतं साग्रां लभते नात्र संशयः ॥८३॥

त्रयाणामपिलोकानां विख्यातोऽमरकण्टकः ।
एष पुण्यो गिरिश्रेष्ठः सिद्धगन्धर्वसेवितः ॥८४॥

नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ।
मृगव्याघ्रसहस्रैस्तु सेव्यमानो महागिरिः ॥८५॥

यत्र सन्निहितो देवो देव्या सह महेश्वरः ।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥८६॥

ऋषिभिः किन्नरैर्यक्षैर्नित्यमेव निषेवितः ।
वासुक्तिः सहितस्तत्र क्रीडते यन्नगोत्तमे ॥८७॥

प्रदक्षिणन्तु यः कुर्यात् पर्वतेऽमरकण्टके  ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥८८॥

तत्र ज्वालेश्वरं नाम तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ॥८९॥

ज्वालेश्वरे महाराज! यस्तु प्राणान् परित्यजेत् ।
चन्द्रसूर्य्योपरागेषु तस्यापि श्रृणु यत् फलम् ॥९०॥

सर्वकर्म्मविनिर्मुक्ते ज्ञानविज्ञानसंयुतः ।
रुद्रलोकमवाप्नोति यावदाभूतसंप्लवम् ॥९१॥

अमरेश्वरदेवस्य पर्वतस्य उभे तटे ।
तत्र ता ऋषिकोट्यस्तु तपस्तप्यन्ति सुव्रत! ॥९२॥

समन्ताद्योजनक्षेत्रो गिरिश्चामरकण्टकः ।
अकामो वा सकामो वा नर्मदायां शुभे जले
स्नात्वा मुच्यति तैः पापै रुद्रलोकं स गच्छति॥९३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

s-factor

  • पु. एs-घटक 
  • पु. एस घटक 
  • पु. s-घटक 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site