संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६८

मत्स्यपुराणम् - अध्यायः १६८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


भगवन्नाभितः कमलोत्पत्तिवर्णनम् ।
मत्स्य उवाच ।
आपवः स विभुर्भूत्वा चारयामास वै तपः ।
च्छादयित्यात्मनो देहं यादसाङ्कुलसम्भवम् ॥१॥

ततो महात्मातिबलो मतिं लोकस्य सर्जने ।
महतां पञ्चभूतानां विश्वो विश्वमचिन्तयत् ॥२॥

तस्य चिन्तयमानस्य निर्वाते संस्थितेऽर्णवे ।
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥३॥

ईषत्सङ्क्षोभयामास सोऽर्णवं सलिलाश्रयः ।
अनन्तरोर्मिभिःसूक्ष्ममथच्छिद्रमभूत् पूरा ॥४॥

शब्दं प्रति तदोद्भूतो मारुतश्छिद्रसम्भवः ।
स लब्ध्वान्तरमक्षोभ्योण्यवर्धत समीरणः ॥५॥

विवर्द्धता बलवता वेगाद्विक्षोभितोऽर्णवः ।
तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते ॥६॥

कृष्णवर्त्मा समभवत् प्रभुर्वैश्वानरो महान् ।
ततः स शोषयामास पावकः सलिलं बहु ॥ ७॥

क्षयाज्जलनिधेश्छिद्रमभवद्विस्तृतं नभः ।
आत्मतेजोद्भवाः पुण्या आपोऽमृत रसोपमाः ॥८॥

आकाशं च्छिद्रसम्भूतं वायुराकाशसम्भवः ।
आभ्यां सङ्घर्षणोद्भूतं पावकं वायुसम्भवम् ॥९॥

दृष्ट्वा प्रीतो महादेवो महाभूत विभावनः ।
दृष्ट्वा भूतानि भगवांल्लोक सृष्ट्यर्थमुत्तमम् ॥१०॥

ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत् ।
चतुर्युगाभि संख्याते सहस्र युगपर्यये ॥११॥

बहुजन्मविशुद्धात्मा ब्राह्मणेह निरुच्यते ।
यत् पृथिव्यां द्विजेन्द्राणां तपसा भवितात्मना ॥१२॥

ज्ञानं दृष्टन्तु विश्वार्थे योगिनां याति मुख्यताम् ।
तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम् ॥१३॥

पदे ब्रह्मणि विश्वेशं न्ययोजयत योगवित् ।
ततस्तस्मिन् महातोये महीशो हरिरच्युतः ॥१४॥

स्वयं क्रीडंश्च विधिवन्मोदते सर्वलोककृत् ।
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा ॥१५॥

सहस्रपर्णं विरजं भास्कराभं हिरण्मयम् ।
हुताशनज्वलितशिखोज्ज्वलत्प्रभमुपस्थितं शरदमलार्कतेजसम् ।
विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP