TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १३३

मत्स्यपुराणम् - अध्यायः १३३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १३३
देवेभ्यो महादेवस्य वरदानम् ।
सूत उवाच ।
ब्रह्माद्यैस्तूयमानस्तु देर्वैर्देवो महेश्वरः ।
प्रजापतिमुवाचेदं देवानां क्व भयं महत् ॥१ ॥

भो! देवः! स्वागतं वोऽस्तु ब्रूत यद्वो मनोगतम् ।
तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः ॥२॥

युष्माकं नितरां शं वै कर्ताऽहं विबुधर्षभाः ।
चरामि महदत्युग्रं यच्चापि परमं तपः ॥३॥

विद्विष्टा वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः ।
तेषामभावः सम्पाद्यो युस्माकं भव एव च ॥४॥

एवमुक्तास्तु देवेन प्रेम्णा सब्रह्मकाः सुराः ।
रुद्रमाहुर्महाभागं भागार्हाः सर्व एव ते ॥५॥

भगवंस्तैस्तपस्तप्तं रौद्रं रौद्रपराक्रमैः ।
असुरैर्वध्यमानाः स्म वयं त्वां शरणं गताः ॥६॥

मयो नाम दितेः पुत्रस्त्रिनेत्रकलहप्रियः ।
त्रिपुरं येन तद्दुर्गं कृतं पाण्डुरगोपुरम् ॥७॥

तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः ।
बाधन्तेऽस्मान् महादेव प्रेष्यमस्वामिनं यथा ॥८॥

उद्यानानि च भग्नानि नन्दनादीनि यानि च ।
वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः ॥९॥

इन्द्रस्य बाह्याश्च गजाः कुमुदाञ्जनवामनाः ।
ऐरावताद्यापहृता देवतानां महेश्वर! ॥१०॥

ये चेन्द्ररथमुख्याश्च हरयोऽपहृतासुरैः ।
जाताश्च दानवानान्ते रथयोग्यास्तुरङ्गमाः ॥११॥

ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च न ।
तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः ॥१२॥

त्रिनेत्र एव मुक्तस्तु देवैः शक्रपुरोगमैः ।
उवाच देवान् देवेशो वरदो वृषवाहनः ॥१३॥

व्यपगच्छतु वो देवा महद्दानवजम्भयम् ।
तदहं त्रिपुरन्धक्ष्ये क्रियतां यद्ब्रवीमि तत् ॥१४॥

यदीच्छथ मया दग्धुं तत्पुरं सह दानवम् ।
रथमौपयिकं मह्यं सज्जयध्वं किलास्यते ॥१५॥

दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः ।
तथेत्युक्त्वा महादेवञ्चक्रुस्ते रथमुत्तमम् ॥१६॥

धरां कूवरकौ तु द्वौ रुद्रपार्श्वचरावुभौ ।
अधिष्ठानं शिरो मेरो रक्षो मन्दर एव च ॥१७॥

चक्रुश्चन्द्रञ्च सूर्य्यञ्च चक्रे काञ्चनराजते ।
कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः ॥१८॥

रथनेमिद्वयं चक्रुर्देवा ब्रह्मपुरः सराः ।
आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः ॥१९॥

कम्बलाश्वतराभ्याञ्च नागाभ्यां समवेष्टितम् ।
भार्गवश्चाङ्गिराश्चैव बुधोऽङ्गारक एव च ॥२०॥

शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः ।
वरूथं गगनं चक्रुश्चारुरूपं रथस्य ते ॥२१॥

कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् ।
मणिमुक्तेन्द्रनीलैश्च वृतं हृष्टमुखैः सुरैः ॥२२॥

गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा सरस्वती ।
वितस्ता च विपाशा च यमुना गण्डकी तथा ॥२३॥

सरस्वती देविका च तथा च सरयूरपि ।
एताः सरिद्वराः सर्वा वेणुसंज्ञाः कृता रथे ॥२४॥

धृतराष्ट्रश्च ये नागास्ते च वेश्यात्मकाः कृताः ।
वासुके कुलजा ये च ये च रैवतवंशजाः ॥२५॥

ते सर्पा दर्पसम्पूर्णाश्चापतूणेष्वनूनगाः ।
अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः ॥२६॥

सुरसा सरमा कद्रुर्विनता शुचिरेव च ।
तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा ॥२७॥

ब्रह्मवध्या च गोवध्या बालवध्याः प्रजाभयाः ।
गदा भूत्वा शक्तयश्च तदा देवरथेऽभ्ययुः ॥२८॥

युगं कृतयुगञ्चात्र चातुर्होत्रप्रयोजकाः ।
चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः ॥२९॥

तद्युगं युगसङ्काशं रथशीर्षे प्रतिष्ठितम् ।
धृतराष्ट्रेण नागेन बद्धं बलवता महत् ॥३०॥

ऋग्वेदः सामवेदश्च यजुर्वेदस्तथापरः ।
वेदाश्चत्वार एवैते चत्वारस्तुरगा भवन् ॥३१॥

अन्नदानपुरोगाणि यानि दानानि कानिचित् ।
तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः ॥३२॥

पद्मद्वयं तक्षकश्च कर्कोटकधनञ्जयौ ।
नागा बभूवुरेवैते हयानां बालबन्धनाः ॥३३॥

ओङ्कारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः ।
उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा ॥३४॥

यज्ञोपवाहान्येतानि तस्मिन् लोकरथे शुभे ।
मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः ॥३५॥

प्रतोदोङ्कार एवासीत्तदग्रञ्च वषट्कृतम् ।
सिनीवाली कुहूराका तथा चानुमती शुभा ॥३६॥

योक्त्राण्यासंस्तुरङ्गाणामपसर्पणविग्रहाः ॥३७॥

कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च ।
अवदाताः पताकास्तु बभूवुः पवनेरिताः ॥३८॥

ऋतुभिश्च कृतः षड्भिर्धनुः सम्वत्सरोऽभवत् ।
अजराज्याभवच्चापि साम्बका धनुषो द्रृढ़ा ॥३९॥

कालो हि भगवान् रुद्रः तं च सम्वतसरं विदुः ।
तस्मादुमाकालरात्रिर्दनुषोज्या जराभवत् ॥४०॥

सगर्भं त्रिपुरं येन दग्धवान् स त्रिलोचनः ।
स इषुर्विष्णुसोमाग्नित्रिदैवतमयोऽभवत् ॥४१॥

आननं ह्यग्निरभवच्छल्यं सोमस्तमोनुदः ।
तेजसः समवायोऽथ चेषोस्तेजो रथाङ्गधृत् ॥४२॥

तस्मिंश्च वीर्य्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः ।
तेजः सम्वसनार्थं वै मुमोचातिविषो विषम् ॥४३॥

कृत्वा देवा रथञ्चापि दिव्यं दिव्यप्रभावतः ।
लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन् ॥४४॥

संस्कृतोऽयं रथोऽस्माभिस्तव दानवशत्रुजित् ।
इदमापत्परित्राणं देवान् सेन्द्रपुरोगमान् ॥४५॥

तं मेरुशिखराकारं त्रेलोक्यरथमुत्तमम् ।
प्रशस्य देवान् साध्विति रथं पश्यति शङ्करः ॥४६॥

मुहुर्द्रृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्मुहुः ।
उवाच सेन्द्रानमरानमराधिपतिः स्वयम् ॥४७॥

याद्रृशोऽयं रथः क्लृप्तो युष्माभिर्ममसत्तमाः ।
ईद्रृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम् ॥४८॥

इत्युक्त्वा देवदेवेन देवाविद्धा इवेषुभिः ।
अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन् ॥४९॥

महादेवस्य देवोऽन्यः को नाम सद्रशौ भवेत् ।
मुक्त्वा चक्रायुधं देवं सोपास्य इषुमाश्रितः ॥५०॥

धुरि युक्ता इवोक्षाणो घटन्त इव पर्वतैः ।
निःश्वसन्तः सुराः सर्वे कथमेतदिति ब्रुवन् ॥५१॥

देवोऽद्रृश्यत देवांस्तु लोकनाथस्य धूर्गतान् ।
अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततोऽग्रजः ॥५२॥

ततो देवैः सगन्धर्वैः सिंहनादो महान् कृतः ।
प्रतोदहस्तं संप्रेक्ष्य ब्रह्माणं सूततां गतम् ॥५३॥

भगवानपि विश्वेशो रथस्थे वै पितामहे ।
सद्रृशः सूत इत्युक्त्वा चारुरोह रथं हरः ॥५४॥

आरोहति रथं देवे ह्यश्वा हरभरातुराः ।
जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः ॥५५॥

देवो द्रृष्ट्वाथ वेदांस्तानभीरुग्रहयान् भयात् ।
उज्जहार पितॄनार्तान् सुपुत्र इव दुःखितान् ॥५६॥

ततः सिंहरवो भूयो बभूव रथभैरवः ।
जयशब्दश्च देवानां संबभूवार्णवोपमः ॥५७॥

तदोङ्कारमयं गृह्य प्रतोदं वरदः प्रभुः ।
स्वयम्भूः प्रययौ वाहाननुमन्त्र्य यथाजवम् ॥५८॥

ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम् ।
मुखेभ्यः ससृजुः श्वासानुच्छ्वसन्त इवोरगाः ॥५९॥

स्वयम्भुवा चोद्यमानाश्चोदितेन कपर्दिना ।
व्रजन्ति तेऽश्वा जवनाः क्षयकाल इवानिलाः ॥६०॥

ध्वजोच्छ्रयविनिर्माणे ध्वजयष्टिमनुत्तमाम् ।
आक्रम्य नन्दीवृषभं तस्थौ तस्मिञ्शिवेच्छया ॥६१॥

भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ ।
रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङिक्षणौ ॥६२॥

शेषश्च भगवान्नागः अनन्तोऽन्तकरोऽपिणाम् ।
शरहस्तो रथम्पाति शयनं ब्रह्मणस्तदा ॥६३॥

यमस्तूर्णसमास्थाय महिषञ्चातिदारुणम् ।
द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम् ॥६४॥

अरक्षत मयूरं निकूजन्तं किन्नरं यथा ।
गुह आस्थाय वरदो युगोपमरथं पितुः ॥६५॥

नन्दीश्वरश्च भगवान् शूलमादाय दीप्तिमान् ।
पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा ॥६६॥

प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः ।
अनुजग्मू रथं शार्वं नक्रा इव महार्णवम् ॥६७॥

भृगुर्भरद्वाजवसिष्ठगौतमाः क्रतुः पुलस्त्यः पुलहस्तपोधनाः ।
मरीचिरत्रिर्भगवानथाङ्गिराः पराशरागस्त्यमुखा महर्षयः ॥६८॥

हरमजितमजं प्रतुष्टुवुर्वचनविषैर्विचित्रभूषणैः ।
रथस्त्रिपुरे सकाञ्चनाचलो व्रजतिसपक्ष इवाद्रिरम्बरे ॥६९॥

करिगिरिरविमेघसन्निभाः सजलपयोदनिनादनादिनः ।
प्रमथगणाः परिवार्य्य देवगुप्तं रथममरापि ययुः स्म दर्पयुक्ताः ॥७०॥

मकरतिमितिमिङ्गिलावृतः प्रलय इवातिसमुद्धतोऽर्णवः ।
व्रजति रथवरोऽति भास्वरो ह्यशनिनिपातपयोद-निःस्वनः ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

स्थिर-स्थिरबुद्धि

  • मन चलबिचल न होणें. मनाची अचंचलता. 
  • ( ल.) मंदबुद्धि 
  • जाडय. 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.