TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८६

मत्स्यपुराणम् - अध्यायः १८६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १८६
नर्मदामाहात्म्यप्रारम्भः ।
ऋषय ऊचुः ।
माहात्म्यमविमुक्तस्य यथावत् कथितन्त्वया ।
इदानीं नर्मदायास्तु माहात्म्यं वद सत्तम ! ॥१॥

यत्रोङ्कारस्य माहात्म्यं कपिला सङ्गमस्य च ।
अमरेशस्य चैवाहुर्माहात्म्यं पापनाशनम् ॥२॥

कथं प्रलयकाले तु न नष्टा नर्मदा पुरा ।
मार्कण्डेयश्च भगवान्न विनष्टस्तदा किल॥
त्वयोक्तं तदिदं सर्वं पुनर्विस्तरतो वद ॥३॥

सूत उवाच ।
एतदेव पुरा पृष्टः पाण्डवेन महात्मना ।
नर्मदायास्तु माहात्म्यं मार्कण्डेयो महामुनिः॥४॥

उग्रेण तपसा युक्तो वनस्थो वनवासिना ।
पृष्टः पूर्वां महागाथां धर्मपुत्रेण धीमता॥ ११८६.५॥

युधिष्ठर उवाच ।
श्रुता मे विविधा धर्मास्त्वत्प्रसादाद्द्विजोत्तम! ।
भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत! ॥६॥

कथमेषा महापुण्या नदी सर्वत्र विश्रुता ।
नर्मदा नाम विख्याता तन्मे ब्रूहि महामुने! ॥७॥

मार्कण्डेय उवाच ।
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥८॥

नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् ।
तदेतद्धि महाराज! तत्सर्वं कथयामि ते ॥९॥

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥१०॥

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥११॥

कलिङ्गदेशे पश्चार्दे पर्वतेऽमरकण्टके ।
पुण्ये च त्रिषु लोकेषु रमणीया मनोरमा ॥१२॥

सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा महाराज! सिद्धिञ्च परमाङ्गताः ॥१३॥

तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥१४॥

जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि ।
पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥१५॥

पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता ।
स्नात्वा यः कुरुते तत्र गन्धमाल्यानुलेपनैः ॥१६॥

प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न संशयः ।
पश्चिमे पर्वतस्यान्ते स्वयं देवो महेश्वरः ॥१७॥

तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।
पितृकार्यञ्च कुर्वीत विधिवन्नियतेन्द्रियः ॥१८॥

तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः ।
आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव! ॥१९॥

षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ।
अप्सरोगणसंकीर्णे सिद्धचारणसेविते ॥२०॥

दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः ।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥२१॥

धनवान् दानशीलश्च धार्मिकश्चैव जायते ।
पुनः स्मरति तत्तीर्थं गमनं तत्र रोचते ॥२२॥

कुलानि तारयेत् सप्त रुद्रलोकं स गच्छति ।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥२३॥

विस्तारेण तु राजेन्द्र! योजनद्वयमायता ।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥२४॥

सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके ।
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥२५॥

सर्वहिंसा निवृत्तस्तु सर्वभूतहिते रतः ।
परं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥२६॥

तस्य पुण्यफलं राजन्! श्रृणुष्वावहितो मम ।
शतवर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥२७॥

अप्सरोगणसंकीर्णे सिद्धचारण सेविते ।
दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ॥२८॥

क्रीड़ते देवलोकस्थो दैवतैः सह मोदते ।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥२९॥

गृहन्तु लभते स वै नानारत्नविभूषितम् ।
स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितैः ॥३०॥

आलेख्यसहितं दिव्यं दासीदाससमन्वितम् ।
मत्तमातड्गशब्दैश्च हयानां हेषितेन च ॥३१॥

क्षुभ्यते तस्य तद्द्वारं इन्द्रस्य भवनं यथा ।
राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ॥३२॥

तस्मिन् गृहे वसित्वा तु क्रीड़ाभोग-समन्विते ।
जीवेद्वर्षशतं साग्रं सर्वरोगविवर्जितः ॥३३॥

एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके ।
अग्नौ विषजले वापि तथा चैव ह्यनाशके ॥३४॥

अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा ।
पतनं कुरुते यस्तु अमरेशे नराधिप! ॥३५॥

कन्यानां त्रिसहस्राणि एकैकस्यापि चापरे ।
तिष्ठन्ति भुवने तस्य प्रेषणं प्रार्थयन्ति च ॥३६॥

दिव्यभोगैः सुसम्पन्नः क्रीड़ते कालमक्षयम् ।
पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिताः ॥३७॥

स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनैः ।
प्रीतः सोऽस्य भवेत् सर्वो रुद्रकोटिर्नसंशयः ॥३८॥

पश्चिमे पर्वतस्यान्ते ह्ययं देवो महेश्वरः ।
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ॥३९॥

पितृकार्यश्च कुर्वीत विधिवन्नियतेन्द्रियः ।
तिलोदकेन विधिवत्तर्पयेत् पितृदेवताः ॥४०॥

आसप्तमं कुलन्तस्य स्वर्गे मोदेत पाण्डव! ।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥४१॥

दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः  ।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥४२॥

धनवान् दानशीलश्च धार्मिकश्चैव जायते ।
पुनः स्मरति तीर्थार्थं गमनं तत्र रोचते ॥४३॥

तारयेत्तु कुलान् सप्त रुद्रलोकं स गच्छति ।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥४४॥

विस्तारेण तु राजेन्द्र! योजनद्वयमायता ।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥४५॥

पर्वतस्य समन्तान्तु तिष्ठत्यमरकण्टके ।
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥४६॥

सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ।
एवं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥४७॥

तस्य पुण्यफलं राजन्! श्रृणुष्वावाहितो मम ।
शतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥४८॥

पृथिव्यामासमुद्राणामीदृशो नैव जायते ।
यादृशोऽयं नृपश्रेष्ठ! पर्वतेऽमरकण्टके ॥४९॥

तावत्तीर्थं तु विज्ञेयं पर्वतस्य तु पश्चिमे ।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥५०॥

तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा ।
पितरो दशवर्षापि तर्पितास्तु भवन्ति वै ॥५१॥

दक्षिणे नर्मदाकूले कपिलेति महानदी ।
सकलार्जुन-संच्छन्ना नातिदूरे व्यवस्थिता ॥५२॥

सापि पुण्या महाभागा त्रिषु लोकेषु विश्रुता ।
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥५३॥

पुराणे श्रूयते राजन्! सर्वं कोटिगुणं भवेत् ।
तस्यास्तीरेतु ये वृक्षाः पतिताः कालपर्ययात् ॥५४॥

नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति परङ्गतिम् ।
द्वितीया तु महाभागा विशल्यकरणी शुभा ॥५५॥

तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ।
तत्र देवगणा सर्वेऽते किन्नरमहोरगाः ॥५६॥

यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः ।
सर्वे समागतास्तत्र पर्वतेऽमरकण्टके ॥५७॥

तैश्च सर्वैः समागम्य मुनिभिश्च तपोधनैः ।
नर्मदामाश्रिता पुण्या विशल्या नाम नामतः ॥५८॥

उत्पादिता महाभागा सर्वपापप्रणाशिनी ।
तत्र स्नात्वा नरो राजन्! ब्रह्मचारी जितेन्द्रियः ॥५९॥

उपोष्य रजनीमेकां कुलानान्तारयेच्छतम् ।
कपिला च विशल्या तु श्रूयते राजसत्तम! ॥६०॥

ईश्वरेण पुरा प्रोक्ते लोकानां हितकाम्यया ।
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ॥६१॥

अनाशकन्तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप! ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥६२॥

नर्मदायास्तु राजेन्द्र! पुराणे यन्मया श्रुतम् ।
यत्र तत्र नरः स्नात्वा चाश्वमेधफलं लभेत् ॥६३॥

ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ।
सरस्वत्याञ्च गङ्गायां नर्मदायां युधिष्ठिर!॥६४॥

समं स्नानं च दानञ्च यथा मे शङ्करोऽब्रवीत् ।
परित्यजति यः प्राणान् पर्वतेऽमरकण्टके ॥६५॥

वर्षकोटिशतं साग्रं रुद्रलोके महीयते ।
नर्मदाया जलं पुण्यं केनोर्मिभिरलङ्कृतम् ॥६६॥

पवित्रं शिरसा वन्द्यं सर्वपापैः प्रमुच्यते ।
नर्मदा पर्वतः पुण्या नर्मदा पाण्डुनन्दन! ॥६७॥

त्रयाणामपि लोकानां पुण्या ह्येषा महानदी ।
वटेश्वरे महापुण्ये गङ्गाद्वारे तपोवने ॥६८॥

एतेषु सर्वस्थानेषु द्विजाः स्युः संशितव्रताः ।
श्रुतं दशगुणं पुण्यं नर्मदो दधिसङ्गमे ॥६९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.6170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

evapotranspiration

  • पु. बाष्पी निरास 
  • न. बाष्पस्वेदन 
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site