TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०१

मत्स्यपुराणम् - अध्यायः १०१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १०१
नन्दिकेश्वर उवाच ।
अथातः सम्प्रवक्ष्यामि व्रतषष्टिमनुत्तमाम् ।
रुद्रेणाभिहितां दिव्यां महापातकनाशिनीम् ॥१॥

नक्तमब्दं चरित्वा तु गवा सार्द्धं कुटुम्बिने ।
हैमं चक्रं त्रिशूलञ्च दद्यात् विप्राय वाससी ॥२॥

शिवरूपस्ततोऽस्माभिः शिवलोके स मोदते ।
एतेद्देवव्रतं नाम महापातकनाशनम् ॥३॥

यस्त्वेकभक्तेन समां शिवं हैमवृषान्वितम् ।
धेनुं तिलमयीं दद्यात् सपदं यातिशाङ्करम्
एतद्रुद्रव्रतं नाम पापशोकविनाशनम् ॥४॥

यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् ।
एकान्तरितनक्ताशी समान्ते वृषसंयुतम् ॥
स वैष्णवं पदं याति लीलाव्रतमिदंस्मृतम् ॥५॥

आषाढ़ादिचतुर्मासमभ्यङ्गं वर्जयेन्नरः ।
भोजनोपस्करं दद्यात् स याति भवनं हरेः ॥
जने प्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ॥६॥

वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् ।
दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रैश्च संयुतम् ॥७॥

सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति ।
एतद्गौरीव्रतं नाम भवानी लोकदायकम् ॥८॥

पुष्पादौ यस्त्रयोदश्यां कृत्वा नक्तं मधौ पुनः ।
अशोकं काञ्चनं दत्त्वा इक्षुयुक्तं दशाङ्गुलम् ॥९॥

विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति ।
कल्पं विष्णुपदे स्थित्वा विशोकः स्यात् पुनर्नरः ॥
एतत् कामव्रतं नाम सदा शोकविनाशनम् ॥१०॥

आषाढ़ादिव्रतं यस्तु वर्जयेन्नखकर्तनम् ।
वार्ताकं च चतुर्मासं मधुसर्पिर्घटान्वितम् ॥११॥

कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् ।
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम् ॥१२॥

वर्जयेद्यस्तु पुष्पाणि हेमन्त शिशिरावृतू ।
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम् ॥१३॥

दद्याद्विकालवेलायां प्रीयेतां शिवकेशवौ ।
दत्त्वा परम्पदं याति सौम्यव्रतमिदं स्मृतम् ॥१४॥

फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ।
समाप्ते शयनं दद्यात् गृहञ्चोपस्करान्वितम् ॥१५॥

संपूज्य विप्रमिथुनं भवानी प्रीयतामिति ।
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते ॥१६॥

सन्ध्या मौनं ततः कृत्वा समान्ते घृतकुम्भकम् ।
वस्त्रयुग्मं तिलान् घण्टां ब्राह्मणाय निवेदयेत् ॥१७॥

सारस्वतं पदं याति पुनरावृत्तिदुर्लभम् ।
एतत्सारस्वतं नाम रूपविद्या प्रदायकम् ॥१८॥

लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी भवेन्नरः ।
समान्ते हेमकमलं दद्याद्धेनुसमन्वितम् ॥१९॥

सवैष्णवं पदं याति लक्ष्मीवान् जन्मजन्मनि ।
एतत् सम्पद्व्रतं नाम सदा पापविनाशनम् ॥२०॥

कृत्वोपलेपनं शम्भोरग्रतः केशवस्य च ।
यावदब्दं पुनर्दद्याद्धेनुञ्जलघटान्विताम् ॥२१॥

जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत् ।
एतदायुर्व्रतं नाम सर्वकामप्रदायकम् ॥२२॥

अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वाग्यतः ।
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः ॥२३॥

व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् ।
वृक्षं हिरण्मयं दद्यात् सोऽश्वमेधफलं लभेत् ॥
एतत् कीर्त्तिव्रतं नाम भूतिकीर्त्तिफलप्रदम् ॥२४॥

घृतेन स्नपनं कुर्याच्छम्भोर्वा केशवस्य च ।
अक्षताभिः सपुष्पाभिः कृत्वा गोमयमण्डलम् ॥२५॥

तिलधेनुसमोपेतं समाप्ते हेमपङ्कजम् ।
शुद्धमष्टाङ्गुलं दद्याच्छिवलोके महीयते ॥
सामगाय ततश्चैतत् सामव्रतमिहोच्यते ॥२६॥

नवम्यामेकभक्तन्तु कृत्वा कन्याश्च शक्तितः ।
भोजयित्वा समां दद्याद्धैमकञ्चुकवाससी ॥२७॥

हैमं सिंहञ्च विप्राय दत्त्वा शिवपदं व्रजेत् ।
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः ॥
एतद्वीरव्रतं नाम नारीणां च सुखप्रदम् ॥२८॥

यावत् समाभवेद्यस्तु पञ्चदश्यां पयोव्रतः ।
समान्ते श्राद्धकृद्दद्यात् पञ्च गास्तु पयस्विनीः ॥२९॥

वासांसि च पिशङ्गानि जलकुम्भयुतानि च ।
स याति वैष्णवं लोकं पितॄणान्तारयेच्छतम् ।
कल्पान्ते राजराजः स्यात् पितृव्रतमिदं स्मृतम् ॥३०॥

चैत्रादिचतुरो मासाञ्जलं दद्यादयाचितम् ।
व्रतान्ते मणिकं दद्यादन्नवस्त्रसमन्वितम् ॥३१॥

तिलपात्रं हिरण्यञ्च ब्रह्मलोके महीयते ।
कल्पान्ते भूपतिर्नूनमानन्दव्रतमुच्यते ॥३२॥

पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः ।
वत्सरान्ते पुनर्दद्याद्धेनुं पञ्चामृतेन हि ॥३३॥

विप्राय दद्याच्छंङ्खञ्च स पदं याति शाङ्करम् ।
राजा भवति कल्पान्ते घृतिव्रतमिदं स्मृतम् ॥३४॥

वर्जयित्वा पुनर्मासमब्दान्ते गोपदो भवेत् ।
तद्वद्धेममृगं दद्यात् सोऽश्वमेधफलं लभेत् ॥
अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत् ॥३५॥

माघमास्युषसि स्नानं कृत्वा दाम्पत्यमर्चयेत् ।
भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणैः ॥
सूर्य्यलोके वसेत् कल्पं सूर्य्यव्रतमिदं स्मृतम् ॥३६॥

आषाढादिचतुर्मासं प्रातः स्नायी भवेन्नरः ।
विप्रेषु भोजनं दद्यात् कार्तिक्या गोप्रदोभवेत् ॥
स वैष्णवं पदं याति विष्णुव्रतमिदं शुभम् ॥३७॥

अयनादयनं यावद्वर्जयेत् पुष्पसर्पिषी ।
तदन्ते पुष्पदामानि घृतधेन्वा सहैव तु ॥३८॥

दत्त्वा शिवपदं गच्छेद् विप्राय घृतपायसम् ।
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम् ॥३९॥

सन्ध्या दीपप्रदो यस्तु समां तैलं विवर्जयेत् ।
समान्ते दीपिकां दद्यात् चक्रशूके च काञ्चने ॥४०॥

वस्त्रयुग्मञ्च विप्राय तेजस्वी स भवेदिह ।
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम् ॥४१॥

कार्त्तिकादि तृतीयायां प्राश्य गोमूत्रयावकम् ।
नक्तञ्चरेदब्दमेकमब्दान्ते गोप्रदो भवेत् ॥४२॥

गौरीलोके वसेत्कल्पं ततो राजा भवेदिह ।
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम् ॥४३॥

वर्जयेच्चैत्रमासे च यश्च गन्धानुलेपनम् ।
शुक्तिं गन्धभृतां दत्त्वा विप्राय सितवाससी ॥
वारुणं पदमाप्नोति द्रृढ़व्रतमिदं स्मृतम् ॥४४॥

वैशाखे पुष्पलवणं वर्जयित्वाऽथगोप्रदः ।
भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह
एतत्कान्तिव्रतं नाम कान्तिकीर्त्तिफलप्रदम् ॥४५॥

ब्रह्माण्डं काञ्चनं कृत्वा तिलराशिसमन्वितम् ।
त्र्यहं तिलप्रदो भूत्वा वह्निसंतर्प्य सद्विजम् ॥४६॥

संपूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः ।
शक्तितस्त्रिपलादूद्र्ध्वं विश्वात्मा प्रीयतामिति ॥४७॥

पुण्येऽह्नि दद्यात् सपरं ब्रह्मयात्यपुनर्भवम् ।
एतद्ब्रह्मव्रतं नाम निर्वाणपददायकम् ॥४८॥

यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् ।
दिनं पयोव्रतस्तिष्ठेत् स याति परमम्पदम् ।
एतद्धेनुव्रतं नाम पुनरावृत्तिदुर्लभम् ॥४९॥

त्र्यहं पयोव्रते स्थित्वा काञ्चनं कल्पपादपम् ।
पलादूद्र्ध्वं यथाशक्त्या तण्डुलैस्तूपसंयुतम् ॥
दत्त्वा ब्रह्मपदं याति कल्पव्रतमिदं स्मृतम् ॥५०॥

मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम् ।
सवैष्णवं पदं याति भीमव्रतमिदंस्मृतम् ॥५१॥

दद्याद्विंशत्पलादूद्र्ध्वं महीं कृत्वा तु काञ्चनीम् ।
दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते ॥
धराव्रतमिदं प्रोक्तं सप्तकल्पशतानुगम् ॥५२॥

माघे मासेऽथवा चैत्रे गुड़धेनुप्रदो भवेत् ।
गुड़व्रतस्तृतीयायां गौरीलोके महीयते ॥
महाव्रतमिदं नाम परमानन्दकारकम् ॥५३॥

पक्षोपवासी यो दद्याद् विप्राय कपिलाद्वयम् ।
ब्रह्मलोकमवाप्नोति देवासुरसुपूजितम् ॥
कल्पान्ते राजराजः स्यात्प्रभाव्रतमिदं स्मृतम् ॥५४॥

वत्सरन्त्वेकभक्ताशी सभक्ष्यजलकुम्भदः ।
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ॥५५॥

नक्ताशी चाष्टमीषु स्याद्वत्सरान्ते च धेनुदः ।
पौरन्दरं पुरं याति सुगतिव्रतमुच्यते ॥५६॥

विप्रायेन्धनदो यस्तु वर्षादिचतुरो ऋतून् ।
घृतधेनुप्रदोऽन्ते च स परं ब्रह्म गच्छति ॥
वैश्वानरव्रतं नाम सर्वपापविनाशनम् ॥५७॥

एकादश्याञ्च नक्ताशी यश्चक्रं विनिवेदयेत् ।
समान्ते वैष्णवं हैमं स विष्णोः पदमाप्नुयात् ॥
एतत्कृष्णव्रतं नाम कल्पान्ते राज्यभाग्भवेत् ॥५८॥

पायसाशी समान्ते तु दद्याद्विप्राय गोयुगम् ।
लक्ष्मीलोकमवाप्नोति ह्येतद्देवीव्रतं स्मृतम् ॥५९॥

सप्तम्यान्नक्तभुग्दद्यात्समान्ते गाम्पयस्विनीम् ।
सूर्य्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम् ॥६०॥

चतुर्थ्यां नक्तभुग्दद्यादब्दान्ते हेमवारणम् ।
व्रतं वैनायकं नाम शिवलोकफलप्रदम् ॥६१॥

महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये ।
हैमानि कार्त्तिके दद्याद्गोयुगेनसमन्वितम् ।
एतत्फलव्रतं नाम विष्णुलोकफलप्रदम् ॥६२॥

यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम् ।
गावश्च शक्तितो दद्यात् हेमान्नघटसंयुताः ॥
एतत्सौरव्रतं नाम स्वर्गलोकफलप्रदम् ॥६३॥

द्वादश द्वादशीर्यस्तु समाप्यो पोषणेन च ।
गोवस्त्रकाञ्चनैर्विप्रान् पूजयेच्छक्तितो नरः ॥
परमम्पदमवाप्नोति विष्णुव्रतमिदं स्मृतम् ॥६४॥

कार्तिक्याञ्च वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।
शैवम्पदमवाप्नोति वार्षव्रतमिदं स्मृतम् ॥६५॥

कृच्छ्रान्ते गोप्रदः कुर्याद्भोजनं शक्तितः पदम् ।
विप्राणां शाङ्करं याति प्राजापत्यमिदं व्रतम् ॥६६॥

चतुर्दश्यान्तु नक्ताशी समान्ते गोधनप्रदः ।
शैवम्पदमवाप्नोति त्रैयम्बकमिदं व्रतम् ॥६७॥

सप्तरात्रोषितो दद्याद्घृतकुम्भं द्विजातये ।
घृतव्रतमिदम्प्राहुर्ब्रह्मलोकफलप्रदम् ॥६८॥

आकाशशायी वर्षासु धेनुमन्ते पयस्विनीम् ।
शक्रलोके वसेन्नित्यमिन्द्रव्रतमिदं स्मृतम् ॥६९॥

अनग्निपक्वमश्नाति तृतीयायान्तु यो नरः ।
गान्दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम् ॥
इह चानन्दकृत् पुंसां श्रेयोव्रतमिदं स्मृतम् ॥७०॥

हैमं पलद्वयादूद्र्ध्वं रथमश्वयुगान्वितम् ।
ददन् कृतोपवासः स्याद्दिवि कल्पशतं वसेत् ।
कल्पान्ते राजराजः स्यादश्वव्रतमिदं स्मृतम् ॥७१॥

वत्सरन्त्वेकभक्ताशी सभक्ष्यजलकुम्भकः ।
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ॥७२॥

नक्ताशी चाष्टमीषु स्याद्वत्सरान्ते च धेनुदः ।
पौरन्दरं पुरं याति सुगतिव्रतमुच्यते ॥७३॥

निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् ।
वारुणं लोकमाप्नोति वरुणव्रतमुच्यते ॥७४॥

चान्द्रायणञ्च यः कुर्य्यात् हेमचन्द्रं निवेदयेत् ।
चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम् ॥७५॥

ज्यैष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् ।
यात्यष्टमी चतुर्दश्यो रुद्रव्रतमिदं स्मृतम् ॥७६॥

सकृद्वितानकं कुर्य्यात्तृतीयायां शिवालये ।
समान्ते धेनुदो याति भवानी व्रतमुच्यते ॥७७॥

माघे निश्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् ।
दिवि कल्पमुषित्वेह राजा स्यात् पवनं व्रतम् ॥७८॥

त्रिरात्रो पोषितो दद्यात् फाल्गुन्यां भवनं शुभम् ।
आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम् ॥७९॥

त्रिसन्ध्यं पूज्य दाम्पत्यमुपवासी विभूषणैः ।
अन्नं गावः समाप्नोति मोक्षमिन्द्रव्रतादिह ॥८०॥

दत्त्वा सितद्वितीयायामिन्दोर्लवणभाजनम् ।
समान्ते गोप्रदो याति विप्राय शिवमन्दिरम् ।
कल्पान्ते राजराजः स्यात् सोमव्रतमिदं स्मृतम् ॥८१॥

प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः ।
वैश्वानरपदं याति शिवव्रतमिदं स्मृतम् ॥८२॥

दशम्यामेकभक्ताशी समान्ते दशधेनुदः ।
दिशश्च काञ्चनैर्दद्यात् ब्रह्माण्डाधिपतिर्भवेत् ।
एतद्विश्वव्रतं नाम महापातकनाशनम् ॥८३॥

यः पठेच्छृणुयाद्वापि व्रतषष्टिमनुत्तमाम् ।
मन्वन्तरशतं सोऽपि गन्धर्वाधिपतिर्भवेत् ॥८४॥

षष्टिव्रतं नारद! पुण्यमेतत्तवोदितं विश्वजनीनमन्यत् ।
श्रोतुं तवेच्छा तदुदीरयामि प्रियेषु किं वा कथनीयमस्ति ॥८५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:49.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

unless and until

  • ...खेरीज आणि ... पर्यंत 
RANDOM WORD

Did you know?

गणपतीला २१ दुर्वा वाहतांना काय मंत्र म्हणावा ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.