TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १००

मत्स्यपुराणम् - अध्यायः १००

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १००
विभूतिद्वादशीव्रतमाहात्म्यवर्णनम् ।

नन्दिकेश्वर उवाच ।
पुरा रथन्तरे कल्पे राजासीत् पुष्पवाहनः ।
नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः ॥१॥

तपसा तस्य तुष्टेन चतुर्वक्त्रेण नारद! ।
कमलं काञ्चनं दत्तं यथा कामगमं मुने ॥२॥

लोकैः समस्तैर्नगरवासिभिः सहितो नृपः ।
द्वीपानि सुरलोकञ्च यथेष्टं व्यचरत् तदा ॥३॥

कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः ।
लोके च पूजितं यस्मात् पुष्करद्वीपमुच्यते ॥४॥

देवेन ब्रह्मणा दत्तं यानमस्य यतोऽम्बुजम् ।
पुष्पवाहनमित्याहुस्तस्मात्तं देवदानवाः ॥५॥

नागम्यमस्यास्ति जगत्त्रयेऽपि ब्रह्माम्बुजस्थस्य तपोऽनुभावात् ।
पत्नी च तस्याप्रतिमा मुनीन्द्र! नानीसहस्रैरभितोऽभिनन्द्या ।
नाम्ना च लावण्यवती बभूव सा पार्वतीवेष्टतमा भवस्य ॥६॥

तस्यात्मजा नामयुतम्बभूव धर्मात्मनामग्र्‌यधनुर्धराणाम् ।
तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुर्हुर्विस्मय आससाद ।
सोऽभ्यागतं वीक्ष्य मुनिप्रवीरं प्राचेतसं वाक्यमिदं बभाषे ॥७॥

राजोवाच ।
कस्माद्विभूतिरमलामरमर्त्यपूज्या जाता च सा विजितामरसुन्दरीणाम् ।
भार्या ममाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहञ्च मुनीन्द्र! धात्रा ॥८॥

यस्मिन् प्रविष्ठमपि कोटिशतं नृपाणाम् सामात्यकुञ्जररथौघजनावृतानाम् ।
नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस्तारागणैरिव गतः परितः स्फुरद्भिः ॥९॥

तस्मात् किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषफलाप्तिहेतुः ।
भगवन् मयाऽथ तनयैरथवाऽनयापि भद्रं यदेतदखिलं कथय प्रचेतः ॥१०॥

मुनिरभ्यधादथ भवान्तरितं समीक्ष्य पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम् ।
जन्मा भवत्तव तु लुब्धकुलेति घोरे जातस्त्वमप्यनुदिनं किल पापकारी ॥११॥

वपुरप्यभूत्तव पुनः परुषाङ्गसन्धिदुर्गन्धिसत्वभुजगावरणं समन्तात् ।
न च ते सुहृन्नसुतबन्धुजनो न तातस्त्वाद्रृक् स्वसा न जननी च तदाभिशस्ता ॥
अभिसङ्गतापरमभीष्टतमा विमुखी महीश! तव योषिदियम् ॥१२॥

अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तमस्मिन् ।
क्षुत्पीडितेनाथ तथा न किञ्चिदासादितं धान्यफलामिषञ्च ॥१३॥

अथामिदृष्टं महदम्बुजाढ्यं सरोवरं पङ्कपरीतरोधः ।
पद्मान्यथादाय ततो बहूनि गतः पुरं वै दिशनामधेयम् ॥१४॥

तन्मौल्यलाभाय पुरं समस्तं भ्रान्तं त्वया शेषमहस्तदासीत् ।
नैता न कश्चित् कमलेषु जातः श्रान्तो भृशं क्षुत्परिपीडितश्च ॥१५॥

उपविष्टस्त्वमेकस्मिन् सभार्यो भवनाङ्गणे ।
अथ मङ्गंलशब्दश्च त्वया रात्रौ महाञ्छ्रृतः ॥१६॥

सभार्यस्तत्र गतवान् यत्रासौमङ्गलध्वनिः ।
तत्र मण्डपमध्यस्था विष्णोरर्चावलोकिता ॥१७॥

वेश्यानंगवती नाम विभूतिद्वादशीव्रतम् ।
समाप्तौ माघमासस्य लवणाचलमुत्तमम् ॥१८॥

निवेदयन्ति गुरवे शय्यां चोपस्करान्विताम् ।
अलङ्कृत्यहृषीकेशं सौवर्णामरपादपम् ॥१९॥

तान्तु द्रृष्ट्वा ततस्ताभ्यामिदं च परिकीर्ततम् ।
किमेभिः कमलैः कार्यं वरं विष्णुरलङ्‌कृतः ॥२०॥

इति भक्तिस्तदा जाता दम्पत्योस्तु नराधिप! ।
तत्प्रसंगात् समभ्यर्च्य केशवं लवणाचलम् ।
शय्या च पुष्पप्रकरैः पूजिता भूश्च सर्वतः ॥२१॥

अथानंगवती तुष्टा तयोर्धनशतत्रयम् ।
दातुं त्वामाददे साथ कलधौतशतत्रयम् ॥२२॥

न गृहीतं ततस्ताभ्यां बहुसत्वावलम्बनात् ।
अनंगवत्या च पुनस्तयोरन्नं चतुर्विधम् ॥
आनीय व्याहृतञ्चात्र बुज्यतामिति भूपते! ॥२३॥

ताभ्यान्तु तदपि त्यक्तं भोक्ष्या वो वै वरानने!
प्रसंगादुपवासेन तवाद्य सुखमावयोः ॥२४॥

जन्म प्रभृति पापिष्ठौ कुकर्माणौ द्रृढ़व्रते!
तत्प्रसंगात् तयोर्मध्ये धर्मलेशस्तु तेऽनघ! ॥२५॥

इति जागरणं ताभ्यां तत्प्रसंगाधनुष्ठितम् ।
प्रभाते च तया दत्ता शय्या सलवणाचला ॥२६॥

ग्रामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु ।
वस्त्रालङ्कारसंयुक्ता गावश्च करकान्विताः ॥२७॥

भोजनञ्च सुहृन्मित्रदीनान्धकुपणैः समम् ।
तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम् ॥२८॥

स भवान् लुब्धको जातः सपत्नीको नृपेश्वरः ।
पुष्करप्रकरात् तस्मात् केशवस्य च पूजनात् ॥२९॥

विनष्टाशेषपापस्य तव पुष्करमन्दिरम् ।
तस्य सत्वस्य माहात्म्यादल्पेन तपसा नृप! ॥३०॥

यथाकामगमं जातं लोकनाथश्चतुर्मुखः ।
सन्तुष्टस्तव राजेन्द्र!ब्रह्मरूपी जनार्दनः ॥३१॥

साप्यनङ्गवती वेश्या कामदेवस्य साम्प्रतम् ।
पत्नीसपत्नीसञ्जाता रत्याः प्रीतिरितिश्रुताः ॥
लोकेष्वानन्दजननी सकलामरपूजिता ॥३२॥

तस्मादुत्सृज्य राजेन्द्र! पुष्करं तन्महीतले ।
गङ्गातटं समाश्रित्य विभूतिद्वादशीव्रतम् ॥
कुरु राजेन्द्र! निर्वाणमवश्यं समवाप्स्यसि ॥३३॥

नन्दिकेश्वर उवाच ।
इत्युक्त्वा स मुनिर्ब्रह्मन्! तत्रैवान्तरधीयत ।
राजा यतोक्तञ्च पुनरकरोत् पुष्पवाहनः ॥३४॥

इदमाचरतो ब्रह्मन्नखण्डव्रतमाचरेत् ।
यथा कथञ्चित्कमलैर्द्वादशद्वादशीर्मुने ॥३५॥

कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणाऽनघ! ।
न वित्तशाठ्यं कर्वीत भक्त्या तुष्यति केशव ॥३६॥

इति कलुषविदारणं जनानामपि पठति श्रृणोति चाथ भक्त्या ।
मतिमपि च ददाति देवलोके वसति स कोटिशतानि वत्सराणाम् ॥३७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:49.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Leave reserve

  • रजा राखीव 
RANDOM WORD

Did you know?

gharat javalchi vyakti vaarlya nanter, lok ek varsha san saajre ka karat nahit?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.