TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४२

मत्स्यपुराणम् - अध्यायः १४२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १४२
चतुर्युगमानवर्णनम् ।

ऋषय ऊचुः ।
चतुर्युगानि यानि स्युः पूर्वे स्वायम्भुवेऽन्तरे ।
एषां निसर्गं संख्याञ्च श्रोतुमिच्छाम विस्तरात् ॥१॥

सूत उवाच ।
एतच्चतुर्युगं त्वेवं तद्वक्ष्यामि निबोधत ।
तत्प्रमाणं प्रसंख्याय विस्तराच्चैव कृत्स्नशः ॥२॥

लौकिकेन प्रमाणेन निष्पाद्याब्दन्तु मानुषम् ।
तेनापीह प्रसंख्याय वक्ष्यामि तु चतुर्यगम् ॥३॥

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठाङ्गणयेत् कलान्तु ।
त्रिंशत्कलाश्चैव भवेन् मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥४॥

अहोरात्रे विभजते सूर्यो मानुषलौकिके ।
रात्रिः स्वप्नाय भूतानाञ्चेष्टायै कर्म्मणामहः ॥५॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥६॥

त्रिंशद्ये मानुषा मासाः पैत्रो मासः स उच्यते ।
शतानि त्रीणि मासानां षष्ठ्या चाभ्यधिकानि तु  ।
पैत्रः संवत्सरो ह्येष मानुषेण विभाव्यते ॥७॥

मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् ।
पितॄणां तानि वर्षाणि संख्यातानि तु त्रीणि वै ।
दश च ह्यधिका मासाः पितृसंख्येह कीर्तिताः ॥८॥

लौकिकेन प्रमाणेन अब्दो यो मानुषः स्मृतः ।
एतद्दिव्यमहोरात्रमित्येषा वैदिकी श्रुतिः ॥९॥

दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तु यदुदक् चैव रात्रिर्या दक्षिणायनम् ॥
एते रात्र्यहनी दिव्ये प्रसंख्याते तयोः पुनः ॥१०॥

त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः ।
मानुषाणां शतं यच्च दिव्या मासास्त्रयस्तु वै ।
तथैव सह संख्यातो दिव्य एष विधिः स्मृतः ॥११॥

त्रीणि वर्षशतान्येवं षष्टिवर्षस्तथैव च ।
दिव्यः सम्वत्सरोह्येष मानुषेण प्रकीर्तितः ॥१२॥

त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः ।
त्रिंशदन्यानि वर्षाणि स्मृतः सप्तर्षिवत्सरः ॥१३॥

नव यानि सहस्राणि वर्षाणां मानुषाणि च ।
वर्षाणि नवतिश्चैव ध्रुवसम्वत्सरः स्मृतः ॥
षट्‌त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि च ॥१४॥

षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया ।
दिव्यं वर्षसहस्रन्तु प्राहुः संख्याविदो जनाः ॥१५॥

इत्येतद्रृषिभिर्गीतं दिव्यया संख्यया द्विजाः ।
दिव्येनैव प्रमाणेन युगसंख्या प्रकल्पिता ॥१६॥

चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ।
कृतत्रेता द्वापरञ्च कलिश्चैवं चतुर्युगम् ॥१७॥

पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते ।
द्वापरञ्च कलिश्चैव युगानि परिकल्पयेत् ॥१८॥

चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१९॥

इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकपादे निवर्तन्ते सहस्रणि शतानि च ॥२०॥

त्रेता त्रीणि सहस्राणि युगसंख्याविदो विदुः ।
तस्यापि त्रिशती सन्ध्या सन्ध्यांशः सन्ध्यया समः ॥२१॥

द्वे सहस्रे द्वापरन्तु सन्ध्यांशौ तु चतुः शतम् ।
सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः ।

द्वेशते च तथान्ये च सन्ध्या सन्ध्यांशयोः स्मृते ॥२२॥
एषा द्वादशसाहस्री युगसंख्या तु संज्ञिका ।

कृतत्रेता द्वापरञ्च कलिश्चेति चतुष्टयम् ॥२३॥
तत्र सम्वत्सराः सृष्टा मानुषास्तान्निबोधत ।

नियुतानि दश द्वे च पञ्च चैवात्र संख्यया ॥
अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते ॥२४॥

प्रयुतन्तु तथा पूर्णं द्वे चान्ये नियुते पुनः ।
षण्णवतिसहस्राणि संख्या तानि च संख्यया ॥२५॥

त्रेतायुगस्य संख्यैषा मानुषेण तु संज्ञिता ।
अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु ॥
चतुः षष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥२६॥

चत्वारि नियुतानि स्युर्वर्षाणि तु कलिर्युगम् ।
द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया ।
एतत्कलियुगं प्रोक्तं मानुषेण प्रमाणतः ॥२७॥

एषा चतुर्युगावस्था मानुषेण प्रकीर्तिता ।
चतुर्युगस्य संख्याता सन्ध्या सन्ध्यांशकैः सह ॥२८॥

एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः ।
कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥२९॥

मन्वन्तरस्य संख्या तु मानुषेण निबोधत ।
एकत्रिंशत्तथाकोट्य संख्याताः संख्यया द्विजैः ॥३०॥

तथा शतसहस्राणि दशचान्यानि भागशः ।
सहस्राणि ते द्वात्रिंशच्छतान्यष्टाधिकानि च ॥३१॥

अशीतिश्चैव वर्षाणि मासाश्चैवाधिकास्तु षट् ।
मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता ॥३२॥

दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः ।
सहस्राणां शतान्याहुः स च वै परिसंख्यया ॥३३॥

चत्वारिंशत् सहस्राणि मनोरन्तरमुच्यते ।
मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः ॥३४॥

एषा चतुर्युगाख्या तु साधिका ह्येकसप्ततिः ।
क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते ॥३५॥

एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विदः ।
ततस्तु प्रलयः कृत्स्नः स तु संप्रलयो महान् ॥३६॥

कल्पप्रमाणो द्विगुणो यथा भवति संख्यया ।
चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगञ्च वै ॥३७॥

त्रेतासृष्टिं प्रवक्ष्यामि द्वापरं कलिमेव च ।
युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते ॥३८॥

क्रमागतं मयाप्येतत्तुभ्यं नोक्तं युगद्वयम् ।
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात् ॥३९॥

नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत ।
अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये ॥
श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः ॥४०॥

दाराग्निहोत्रसम्बन्धं ऋग्यजुः सामसंहिताः ।
इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ॥४१॥

परम्परागतं धर्मं स्मार्तत्वाचारलक्षणम् ।
वर्णाश्रमाचारयुक्तं मनुः स्वायम्भुवोऽब्रवीत् ॥४२॥

सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा ।
तेषां सुतप्ततपसा मार्गेणानुक्रमेण ह ॥४३॥

सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः ।
अबुद्धिपूर्वकं तेन सकृत् पूर्वकमेव च ॥४४॥

अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः ।
आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥४५॥

प्रमाणेष्वथ सिद्धानामन्येषाञ्च प्रवर्तते ।
मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः ।
ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः ॥४६॥

ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणास्तु ये ।
सप्तर्षिभिश्च ये प्रोक्ताः स्मार्त्तन्तु मनुरबवीत् ॥४७॥

त्रेतादौ संहिता वेदाः केवलं धर्म्मसेतवः ।
संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते ॥
ऋषयस्तपसा वेदानहोरात्रमधीयत ॥४८॥

अनादिनिधना दिव्याः पूर्वं प्रोक्ताः स्वयम्भुवा ।
स्वधर्म्मसंवृताः साङ्गा यथा धर्मं युगे युगे ।
विक्रियन्ते स्वधर्म्मन्तु वेदवादाद्यथायुगम् ॥४९॥

आरम्भयज्ञः क्षत्रहविर्यज्ञा विशः स्मृताः ।
परिचारयज्ञाः शूद्राश्च जपयज्ञाश्च ब्राह्मणाः ॥५०॥

ततः समुदिता वर्णास्त्रेतायां धर्म्मशालिनः ।
क्रियावन्तः प्रजावन्तः समृद्धिसुखिनश्च वै ॥५१॥

ब्राह्मणैश्च विधीयन्ते क्षत्रियाः क्षत्रियैर्विशः ।
वैश्यान् शूद्रानुवर्तन्ते शूद्रान् परमनुग्रहात् ॥५२॥

शुभाः प्रकृतयस्तेषां दर्मा वर्णाश्रमाश्रयाः ।
सङ्कल्पितेन मनसा वाचा वा हस्तकर्म्मणा ॥
त्रेतायुगे ह्यविकले कर्मारम्भः प्रसिध्यति ॥५३॥

आयुरूपं बलं मेधा आरोग्यं धर्म्मशीलता ।
सर्वसाधारणं ह्येतदासीत्त्रेतायुगे तु वै ॥५४॥

वर्णाश्रमव्यवस्थानमेषां ब्रह्म तथा करोत् ।
संहिताश्च तथा मन्त्रा आरोग्यं धर्मशीलता ॥५५॥

संहिताश्च तथा मन्त्रा ऋषिभिर्ब्रह्मणः सुतैः ।
यज्ञः प्रवर्तितश्चैव तदा ह्येव तु दैवतैः ॥५६॥

यामै शुक्लैर्जयैश्चैव सर्वसाधनसंभृतैः ।
विश्वसृड्भिस्तथा सार्द्धं देवेन्द्रेण महौजसाः ॥
स्वायम्भुवेन्तरे देवैस्ते यज्ञाः प्राक्‌प्रवर्तिताः ॥५७॥

सत्यं जपस्तपोदानां पूर्वं धर्मोऽयमुच्यते ।
यदा धर्म्मस्य ह्रसते शाखा धर्म्मस्य वर्द्धते ॥५८॥

जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः ।
न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः ॥५९॥

पद्मपत्रायताक्षाश्च पृथुवक्त्रः सुसंहताः ।
सिंहोरस्का महासत्वा मत्तमातङ्गगामिनः ॥६०॥

महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः ।
सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः ॥६१॥

न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते ।
व्यामेन तूच्छ्रयो यस्य अत ऊर्द्ध्वन्तु देहिनः ॥
समुच्छ्रयो परीणाहो न्यग्रोधपरिमण्डलः ॥६२॥

चक्रं रथो मणिर्मार्या निधिरश्वो गजस्तथा ।
प्रोक्तानि सप्तरत्नानि पूर्वं स्वायम्भुवेऽन्तरे ॥६३॥

विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः ।
मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै ॥६४॥

भूतभव्यानि यानीह वर्तमानानि यानि च ।
त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः ॥६५॥

भद्राणीमानि तेषाञ्च विभाव्यन्ते महीक्षिताम् ।
अत्यद्भुतानि चत्वारि बलं धर्मसुखं धनम् ॥६६॥

अन्योन्यस्याविरोधेन प्राप्यन्ते नृपतेः समम् ।
अर्थोधर्म्मश्च कामश्च यशो विजय एव च ॥६७॥

ऐश्वर्येणाणिमाद्येन प्रभुशक्तिबलान्विताः ।
श्रुतेन तपसा चैव ऋषींस्तेऽभिभवन्ति हि ॥६८॥

बलेनाभिभवन्त्येते तेन दानवमानवान् ।
लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषाः ॥६९॥

केशास्थिता ललाटेन जिह्वा च परिमार्जनी ।
श्यामप्रभाश्चतुर्दंष्ट्राः श्रवसाश्चोद्‌र्ध्वरेतसः ॥७०॥

आजानुबाहवश्चैव तालहस्तौ वृषाकृती ।
परिणाहप्रमाणाभ्यां सिंहस्कन्धाश्च मेधिनः ॥७१॥

पादयोश्चक्रमत्स्यौ तु शङ्खपद्मे च हस्तयोः ।
पञ्चाशीति सहस्राणि जीवन्ति ह्यजरामयाः ॥७२॥

असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम् ।
अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च ॥७३॥

इज्यादानन्तपः सत्यन्त्रेताधर्मास्तु वै स्मृताः ।
तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः ॥७४॥

मर्यादास्थापनार्थञ्च दण्डनीतिः प्रवर्तते ।
हृष्टपुष्टा जनाः सर्वे आरोगाः पूर्णमानसाः ॥७५॥

एको वेदश्चतुष्पादस्त्रेतायान्तु विधिः स्मृतः ।
त्रीणि वर्षसहस्राणि जीवन्तो तत्रताः प्रजाः ॥७६॥

पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण ताः ।
एते त्रेतायुगे भावास्त्रेता संख्यां निबोधत ॥७७॥

त्रेतायुगस्वभावेन सन्ध्या पादेन वर्तते ।
सन्ध्या पादः स्वभावाच्च योंऽशः पादेन तिष्ठति ॥७८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

anisogeny

  • न. Gen. असमजनन 
RANDOM WORD

Did you know?

घरातील देव्हारा कोणत्या वस्तुपासून बनविलेला असावा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site