TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७१

मत्स्यपुराणम् - अध्यायः १७१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १७१
ब्रह्मणस्तपश्चर्य- वर्णनम् ।
मत्स्य उवाच ।
स्थित्वा च तस्मिंस्तुमुले ब्रह्मा ब्रह्मविदाम्वरः ।
ऊर्द्वबाहुर्महातेजास्तपो घोरं समाश्रितः ॥१॥

प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः ।
बभासे सर्वधर्म्मस्थः सहस्रांशुरिवांशुभिः ॥२॥

अथान्यद्रूपमास्थाय शम्भुर्नारायणोऽव्ययः ।
आजगाम महातेजा योगाचार्यो महायशाः ॥३॥

सांख्याचार्यो हि मतिमान् कपिलो ब्राह्मणो वरः ।
उभावपि महात्मानौ स्तुवन्तौ क्षेत्रतत्परौ ॥४॥

तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् ।
परावरविशेषज्ञौ पूजितौ च महर्षिभिः ॥५॥

ब्रह्मात्मदृढबन्धश्च विशालो जगदास्थितः ।
ग्रामणीः सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः ॥६॥

तयोस्तद्वचनं श्रुत्वा विप्रोऽभ्याहृतयोगवित् ।
त्रीनिमान् कृतवान् लोकान्यथेयं ब्रह्मणः श्रुतिः ॥७॥

पुत्रञ्च सम्भवे चैकं समुत्पादितवानृषिः ।
तस्याग्रे वाग्यतस्तस्थौ ब्रह्माणमजमव्ययम् ॥८॥

सोत्पन्नमात्रो ब्रह्माणमुक्तवान् मानसः सुतः ।
किं कुर्मस्तवसाहाय्यं ब्रवीतु भगवानृषिः ॥९॥

ब्रह्मोवाच ।
य एष कपिलो ब्रह्मा नारायणमयस्तथा ।
वदते भवतस्तत्वं तत् कुरुष्व महामते ॥१०॥

ब्रह्मणस्तु तदर्थन्तु तदा भूयः समुत्थितः ।
शुश्रूषुरस्मि युवयोः किं करोमि कृताञ्जलि ॥११॥

श्रीभगवानुवाच ।
यत् सत्यमक्षरं ब्रह्मन्! अष्टादशविधन्तु तत् ।
यत् सत्यं यदृतं तत्तु परं पदमनुस्मर ॥१२॥

एतद्वचो निशम्यैव ययौ स विशमुत्तराम् ।
गत्वा च तत्र ब्रह्मत्वमगमत् ज्ञानतेजसा ॥१३॥

ततो ब्रह्मा भुवन्नाम द्वितीयमसृजत् प्रभुः ।
सङ्कल्पयित्वा मनसा तमेव च महात्मना ॥१७१.१४॥

ततः सोऽथ ब्रवीद्वाक्यं किं करोमि पितामह! ।
पितामहसमाज्ञातो ब्रह्माणं समुपस्थितः ॥१५॥

ब्रह्माभ्यासन्तु कृतवान् भुवश्च पृथिवीं गतः ।
प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ॥१६॥

तस्मिन्नपि गते पुत्रे तृतीयमसृजत् प्रभुः ।
सांख्यप्रवृत्तिकुशलं भूर्भुवं नामतो विभुम् ॥१७॥

गोपतित्वं समासाद्य तयोरेवागमद् गतिम् ।
एवं पुत्रास्त्रयोऽप्येते उक्ताः शम्भोर्महात्मनः ॥१८॥

तान् गृहीत्वा सुतांस्तस्य प्रयातः स्वार्जिताङ्गतिम् ।
नारायणश्च भगवान् कपिलश्च यतीश्वरः ॥१९॥

यङ्कालन्तौ गतौ मुक्तौ ब्रह्मा तं कालमेव हि ।
ततो घोरतमम्भूयः संश्रितः परमं व्रतम् ॥२०॥

न रेमेऽथ ततो ब्रह्मा प्रभुरेकस्तपश्चरन् ।
शरीरात्तां ततो भार्यां समुत्पादितवान् शुभाम् ॥२१॥

तपसा तेजसा चैव वर्चसा नियमेन च ।
सदृशीमात्मनो देवीं समर्थां लोकसर्जने ॥२२॥

ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम् ।
सृजन् प्रजानां पतयः सागरांश्चासृजद्विभिः ॥२३॥

ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम् ।
अपरांश्चैव चतुरो वेदान् गायत्रि सम्भवान् ॥१७१.२४॥

आत्मनः सदृशान् पुत्रानसृजद्वै पितामहः ।
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ॥२५॥

विश्वेशं प्रथमं तावन्महातापसमात्मजम् ।
सर्वमन्त्रहितं पुण्यं नाम्ना धर्मं स सृष्टवान् ॥२६॥

दक्षं मरीचिमत्रिञ्च पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं गौतमञ्चैव भृगु अङ्गिरसम्मनुम् ॥२७॥

अथैवाद्भुतमित्येते ज्ञेयाः पैतामहर्षयः ।
त्रयोदशगुणं धर्ममालभन्त महर्षयः ॥२८॥

अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः ।
ताम्रा क्रोधाथ सुरसा विनता कद्रुरेवच ॥२९॥

दक्षस्यापत्यमेता वै कन्या द्वादश पार्थिव! ।
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल ॥३०॥

तस्मै कन्या द्वादशान्या दक्षस्ताः प्रददौ तदा ।
नक्षत्राणि च सोमाय तदा वै तत्तवानृषिः ॥३१॥

रोहिण्यादीनि सर्वाणि पुण्यानि रविनन्दन! ।
लक्ष्मी मरुत्वती साध्या विश्वेशा च मता शुभा ॥३२॥

देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुराः ।
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव! ॥३३॥

दत्ता भद्राय धर्माय ब्रह्मणा विश्वकर्मणा ।
या रूपार्द्धवती पत्नी ब्रह्मणः कामरूपिणी ॥३४॥

सुरभिः सा हिता भूत्वा ब्रह्माणं समुपस्तिता ।
ततस्तामगमद् ब्रह्मा मैथुनं लोकपूजितः ॥३५॥

लोकसर्जनहेतुज्ञो गवामर्थाय सत्तमः ।
जज्ञिरे च सुतास्तस्यां विपुला धूमसन्निभाः ॥३६॥

नक्तसन्ध्याभ्रसङ्काशाः प्रादहंस्तिग्मतेजसः ।
ते रुदन्तो द्रवन्तश्च गर्हयन्तः पितामहम् ॥३७॥

रोदनाद् द्रवणाच्चैव रुद्रा इति ततः स्मृताः ।
निर्ऋतिश्चैव शम्भुर्वै तृतीयश्चापराजितः ॥३८॥

मृगव्याधः कपर्दी च दहनोऽथ खरश्च वै ।
अहिर्बुध्न्यश्च भगवान् कपाली चापि पिङ्गलः ॥३९॥

सेनानीश्च महातेजा रुद्रास्त्वेकादश स्मृताः ।
तस्यामेव सुरभ्याञ्च गावो यज्ञेश्वराश्च वै ॥४०॥

प्रकृष्टाश्च तथा मायाः सुरभ्याः पशवोऽक्षराः ।
अजाश्चैव तु हंसाश्च तथैवामृतमुत्तमम् ॥४१॥

ओषध्यः प्रवरायाश्च सुरभ्यास्ताः समुत्थिताः ।
धर्माल्लक्ष्मीस्तथा कामं साध्या साध्यान् व्यजायत ॥४२॥

भवञ्च प्रभवञ्चैव हीशञ्चासुरहं तथा ।
अरुण्यं चारुणिञ्चैव विश्वावसु बलध्रुवौ ॥४३॥

हविष्यञ्च वितानञ्च विधानशमितावपि ।
वत्सरञ्चैव भूतिञ्च सर्वासुर निषूदनम् ॥४४॥

सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्कृता ।
तमेवानुगता देवो जनयामास वै सुरान् ॥४५॥

वरं वै प्रथमन्देवं द्वितीयं ध्रुवमव्ययम् ।
विश्वावसुं तृतीयञ्च चतुर्थं सोममीश्वरम् ॥४६॥

ततोऽनुरूपमायञ्च यमस्तस्मादनन्तरम् ।
सप्तमञ्च तथा वायुमष्टमन्निर्ऋतिं वसुम् ॥४७॥

धर्मस्यापत्यमेतद्वै सुदेव्यां समजायत ।
विश्वेदेवाश्च विश्वायां धर्माज्जाता इति श्रुतिः ॥४८॥

दक्षश्चैव महाबाहुः पुष्करस्वन एव च ।
चाक्षुषस्तु मनुश्चैव तथा मधुमहोरगौ ॥४९॥

विश्वन्तश्च वसुर्बाल्ला विस्कम्भश्च महायशाः ।
गरुड़श्चातिसत्वौजा भास्कर प्रतिमद्युतिः ॥५०॥

विश्वान् देवान् देवमाता विश्वेशाजनयत् सुतान् ।
मरुत्वती मरुत्वमो देवानजनयत् सुतान् ॥५१॥

अग्निं चक्षूरविर्ज्योतिः सावित्रं मित्रमेव च ।
अमरं शरवृष्टिञ्च सुकर्षञ्च महाभुजम् ॥१७१.५२॥

विराजञ्चैव वाचञ्च विश्वावसुमतिं तथा ।
अश्वमित्रं चित्ररश्मिन्तथा निषधनं नृप! ॥५३॥

हूयन्तं वाडवञ्चैव चारित्रं मन्दपन्नगम् ।
बृहन्तं वै बृहद्रूपं तथा वै पूतनानुगम् ॥५४॥

मरुत्वती पुरा जज्ञे एतान्वै मरुताङ्गणान् ।
अदितिः कश्यपाज्जज्ञे आदित्यान् द्वादशैव हि ॥५५॥

इन्द्रो विष्णुर्भगस्त्वष्टा वरुणो ह्यर्यमा रविः ।
पूषा मित्रश्च धनदो धाता पर्जन्य एव च ॥५६॥

इत्येते द्वादशादित्या वरिष्ठास्त्रि दिवौकसः ।
आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ ॥५७॥

तपःश्रेष्ठौ गुणिश्रेष्ठौ त्रिदिवस्यापि सम्मतौ ।
दनुस्तु दानवान् जज्ञे दितिर्दैत्यान् व्यजायत ॥५८॥

काला तु वै कालकेयानसुरान् राक्षसांस्तु वै ।
अनायुषायास्तनया व्याधयः सुमहाबलाः ॥५९॥

सिंहिका ग्रहमाता वै गन्धर्व जननी मुनिः ।
ताम्रा त्वप्सरसां माता पुण्यानां भारतोद्भव! ॥६०॥

क्रोधायाः सर्वभूतानि पिशाचाश्चैव पार्थिव! ।
व्जज्ञे यक्षगणांश्चैव राक्षसांश्च विशाम्पते! ॥६१॥

चतुष्पदानि सत्वानि तथा गावस्तु सौरसाः ।
सुपर्णान् पक्षिणश्चैव विनता चाप्यजायत ॥६२॥

महीधरान् सर्वनागान् देवी कद्रूः व्यजायत ।
एवं वृद्धिं समगमन् विश्वे लोकाः परन्तप! ॥६३॥

तदा वै पौष्करो राजन्! प्रादुर्भावो महात्मनः ।
प्रादुर्भावः पौष्करोस्ते मया द्वैपायनेरितः ॥६४॥

पुराणः पुरुषश्चैव मया विष्णुर्हरिः प्रभुः ।
कथितस्तेऽनु पूर्वेण संस्तुतः परमर्षिभिः ॥६५॥

यश्चेदमग्रयं श्रृणुयात् पुराणं सदा नरः पर्वसु गौरवेण ।
अवाप्य लोकान् स हि वीतरागः परत्र च स्वर्गफलानि भुङ्क्ते ॥६६॥

चक्षुषा मनसा वाचा कर्म्मणा च चतुर्विधम् ।
प्रसादयति यः कृष्णं तं कृष्णोऽनु प्रसीदति ॥६७॥

राजा च लभते राज्यमधनश्चोत्तमन्धनम् ।
क्षीणायुर्लभते चायुः पुत्रकामः सुतन्तथा ॥६८॥

यज्ञा वेदास्तथा कामास्तपांसि विविधानि च ।
प्राप्नोति विविधं पुण्यं विष्णुभक्तो धनानि च ॥६९॥

यद्यत् कामयते किञ्चित् तत्तल्लोकेश्वराद् भवेत् ।
सर्वं विहाय य इमं पठेत् पौष्करकं हरेः ॥७०॥

प्रादुर्भावं नृपश्रेष्ठ! न तस्य ह्यशुभं भवेत् ।
एष पौष्करको नाम प्रादुर्भावो महात्मनः॥
कीर्तितस्ते महाभाग! व्यास श्रुति निदर्शनात् ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.8170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

canalise

  • कालवा काढणे 
  • Fig. वळण लावणे 
RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site