TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८३

मत्स्यपुराणम् - अध्यायः १८३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १८३
वाराणसीमाहात्म्यम् ।
देव्युवाच ।
हिमवन्तं गिरिं त्यक्त्वा मन्दरं गन्धमादनम् ।
कैलासं निषधञ्चैव मेरुपृष्टं महाद्युतिम् ॥१॥

रम्यं त्रिशिखरञ्चैव मानसं सुमहागिरिम् ।
देवोद्यानानि रम्याणि नन्दनं वनमेव च ॥२॥

सुरस्थानानि मुख्यानि तीर्थान्यायतनानि च ।
तानि सर्वाणि सन्त्यज्य अविमुक्ते रतिः कथम् ॥३॥

किमत्र सुमहत् पुण्यं परं गुह्यं वदस्व मे ।
येन त्वं रमसे नित्यं भूतसम्पद् गुणैर्युतः ॥४॥

क्षेत्रस्य प्रवरत्वञ्च ये च यत्र निवासिनः ।
तेषामनुग्रहः कश्चित्तत् सर्वं ब्रूहि शङ्कर!॥५॥

शङ्कर उवाच ।
अत्यद्भुतमिमं प्रश्नं यत्त्वं पृच्छसि भामिनि ।
तत् सर्वं सम्प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥६॥

वाराणस्यां नदीपुण्या सिद्धगन्धर्वसेविता ।
प्रविष्टा त्रिपथा गङ्गा तस्मिन्क्षेत्रे मम प्रिये! ॥७॥

मामेव प्रीतिसन्तुष्टा कृत्तिवासाश्च सुन्दरि!  ।
सर्वेषां चैवस्थानानां स्थानन्तत्तु यथाधिकम् ॥८॥

तेन कार्येण सुश्रोणि! तस्मिन् स्थाने रतिर्मम ।
तस्मिन् लिङ्गे च सान्निध्यं मम देवि! सुरेश्वरि! ॥९॥

क्षेत्रस्य च प्रवक्ष्यामि गुणान् गुणवताम्वरे ।
यान् श्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः ॥१०॥

यदि पापो यदि शठो यदि वा धार्मिको नरः ।
मुच्यते सर्वपापेभ्यो ह्यविमुक्तं व्रजेद्यदि ॥११॥

प्रलये सर्वभूतानां लोके स्थावरजङ्गमे ।
न हि त्यक्ष्यामि तत् स्थानं महागणशतैर्वृतः ॥१२॥

यत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
वक्त्रं मम महाभागे! प्रविशन्ति युगक्षये॥१३॥

तेषां साक्षादहं पूजां प्रतिगृह्णामि पार्वति!
सर्वगुह्योत्तमं स्थानं मम प्रियतमं शुभम् ॥१४॥

धन्याः प्रविष्टाः सुश्रोणि! मम भक्ता द्विजातयः ।
मद्भक्तिपरमा नित्यं ये मद्भक्तास्तु ते नराः ॥१५॥

तस्मिन् प्राणान् परित्यज्य गच्छन्ति परमाङ्गतिम् ।
सदा जयति रुद्रेण सदा दानं प्रयच्छति ॥१६॥

सदा तपस्वी भवति अविमुक्त स्थितो नरः ।
यो मां पूजयते नित्यं तस्य तुष्याम्यहं प्रिये!॥१७॥

सर्वदानानि यो दद्यात् सर्वयज्ञेषु दीक्षितः ।
सर्वतीर्थाभिषिक्तस्य सप्रपद्येत मामिह ॥१८॥

अविमुक्तं सदा देवि! ये व्रजन्ति सुनिश्चिताः ।
ते तिष्ठन्तीह सुश्रोणि! त्वद्भक्ताश्च त्रिविष्टपे ॥१९॥

मत्प्रसादात्तु ते देवि! दीव्यन्ति शुभलोचने!
दुर्द्धराश्चैव दुर्द्धर्षा भवन्ति विगतज्वराः ॥२०॥

अविमुक्तं शुभं प्राप्य मद्भक्ताः कृतनिश्चयाः ।
निर्धूतपापा विमला भवन्ति विगतज्वराः ॥२१॥

पार्वत्युवाच ।
दक्षयज्ञस्त्वया देव! मत् प्रियार्थे निषूदितः ।
अविमुक्त गुणानान्तु न तृप्तिरिह जायते ॥२२॥

ईश्वर उवाच ।
क्रोधेन दक्षयज्ञस्तु त्वत् प्रियार्थे विनाशितः ।
महाप्रिये! महाभागे! नाशितोऽयं वरानने ॥२३॥

अविमुक्ते यजन्ते तु मद्भक्ताः कृतनिश्चयाः ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥२४॥

देव्युवाच ।
दुर्लभास्तु गुणा देव! अविमुक्ते तु कीर्त्तिताः ।
सर्वांस्तन्मम तत्वेन कथयस्व महेश्वर ॥२५॥

कौतूहलं महादेव! हृदिस्थं मम वर्तते ।
तत् सर्वं मम तत्वेन आश्याहि परमेश्वर! ॥२६॥

ईश्वर उवाच ।
अक्षया ह्यमराश्चैव ह्यदाहाश्च भवन्ति ते ।
मत् प्रसादाद्वरारोहे! मामेव प्रविशन्ति वै ॥२७॥

ब्रूहि ब्रूहि विशालाक्षि! किमन्यच्छ्रोतुमिच्छसि ।
देव्युवाच ।
अविमुक्ते महाक्षेत्रे अहो पुण्यमहो गुणाः ॥२८॥

न तृप्तिमधिगच्छामि ब्रूहि देव! पुनर्गुणान् ।
ईश्वर उवाच ।
माहेश्वरि! वरारोहे! श्रृणु तांस्तु मम प्रिये! ॥२९॥

अविमुक्ते गुणाये तु तथान्यानपि तच्छृणु ।
शाकपर्णाशिनो दान्ताः संप्रक्षाल्या मरीचिपाः ॥३०॥

दन्तोलूखलिनश्चान्ये अश्मकुट्टास्तथापरे ।
मासि मासि कुशाग्रेण जलमास्वादयन्ति वै ॥३१॥

वृक्षमूलनिकेताश्च शिलाशय्यास्तथापरै ।
आदित्यवपुषः सर्वे जितक्रोधा जितेन्द्रियाः ॥३२॥

एवं बहुविधैर्धर्मैरन्यत्र चरितव्रताः ।
त्रिकालमपि भुञ्जाना येऽविमुक्तनिवासिनः ॥३३॥

तपश्चरन्ति वान्यत्र कलां नार्हन्ति षोडशीम् ।
अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ॥३४॥

मत्समः पुरुषो नास्ति त्वत्समा नास्ति योषिताम् ।
अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ॥३५॥

अविमुक्तं परो योगो ह्यविमुक्ते परा गतिः ।
अविमुक्ते परो मोक्षः क्षेत्रं नैवास्ति तादृशम् ॥३६॥

परं गुह्यं प्रवक्ष्यामि तत्वेन वरवर्णिनि! ।
अविमुक्ते महाक्षेत्रे यदुक्तं हि मया पुरा ॥३७॥

जन्मान्तरशतैर्देवि! योगोऽयं यदि लभ्यते ।
मोक्षः शतसहस्रेण जन्मना लभ्यते न वा ॥३८॥

अविमुक्तेन सन्देहो मद्भक्तः कृतनिश्चयः ।
एकेन जन्मना सोऽपि योगं मोक्षं च विन्दति ॥३९॥

अविमुक्ते नरा देवि! ये व्रजन्ति सुनिश्चिताः ।
ते विशन्ति परं स्थानं मोक्षं परमदुर्लभम् ॥४०॥

पृथिव्यामीदृशं क्षेत्रं न भूतं न भविष्यति ।
चतुर्मूर्तिः सदा धर्मो तस्मिन् सन्निहितः प्रिये! ॥४१॥

चतुर्णामपि वर्णानां गतिस्तु परमा स्मृता ।
देव्युवाच ।
श्रुता गुणास्ते क्षेत्रस्य इह चान्यत्र ये प्रभो! ॥४२॥

वदस्व भुवि विप्रेन्द्राः कं वा यज्ञैर्यजन्ति ते ।
ईश्वर उवाच ।
दृष्ट्या चैव तु मन्त्रेण मामेव हि यजन्ति ते ॥४३॥

न तेषां भयमस्तीति भवं रुद्रं यजन्ति यत् ।
अमन्त्रो मन्त्रको देवि! द्विविधो विधिरुच्यते ॥४४॥

साङ्ख्यं चैवाथ योगश्च द्विविधो योग उच्यते ।
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ॥४५॥

सर्वथा वर्तमानोऽपि स योगी मयि वर्त्तते ।
आत्मौपम्येन सर्वत्र सर्वं च मयि पश्यति ॥४६॥

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।
निर्गुणः सगुणो वापि योगश्च कथितो भुवि ॥४७॥

सगुणश्चैव विज्ञेयो निर्गुणो मनसः परः ।
एतत्ते कथितं देवि! यन्मान्त्वं परिपृच्छसि ॥४८॥

देव्युवाच
या भक्ति स्त्रिविधा प्रोक्ता भक्तानां बहुधा त्वया ।
तामहं श्रोतुमिच्छामि तत्वतः कथयस्व मे ॥४९॥

ईश्वर उवाच ।
श्रृणु पार्वति! देवेशि! भक्तानां भक्तिवत्सले ।
प्राप्य सांख्यञ्च योगञ्च दुःखान्तञ्च नियच्छति ॥५०॥

सदा यः सेवते भिक्षां ततो भवति रञ्जितः ।
रञ्जनात् तन्मयो भूत्वा लीयते स तु भक्तिमान् ॥५१॥

शास्त्राणान्तु वरारोहे! बहुकारणदर्शिनः ।
न मां पश्यन्ति ते देवि! ज्ञानवाक्यविवादिनः ॥५२॥

परमार्थज्ञानतृप्ता युक्ता जानन्ति योगिनः ।
विद्यया विदितात्मानो योगस्य च द्विजातयः ॥५३॥

प्रत्याहारेण शुद्रात्मा नान्यथा चिन्तयेच्च तत् ।
तुष्टिञ्च परमां प्राप्य योगं मोक्षं परं तथा ॥५४॥

त्रिभिर्गुणैः समायुक्तो ज्ञानवान् पश्यतीह माम् ।
एतत्ते कथितं देवि! किमन्यच्छ्रोतुमर्हसि ॥५५॥

भूय एव वरारोहे! कथयिष्यामि सुव्रते! ।
गुह्यं पवित्रमथवा यच्चापि हृदि वर्तते ॥५६॥

तत्सर्वं कथयिष्यामि श्रृणुष्वेकमनाः प्रिये ।
देव्युवाच ।
त्वद्रूपं कीदृशं देव! युक्ताः पश्यन्ति योगिनः ॥५७॥

पश्यन् मे संशयं ब्रूहि नमस्ते सुरसत्तम! ।
श्रीभगवानुवाच ।
अमूर्तं चैव मूर्त्तञ्च ज्योतिरूपं हि तत् स्मृतम् ॥५८॥

तस्योपलब्धिमन्विच्छन् यत्नः कार्यो विजानता ।
गुणैर्वियुक्तो भूतात्मा एवं वक्तुं न शक्यते ॥५९॥

शक्यते यदि वक्तुं वै दिव्यैर्वर्षशतैर्न वा ।
देव्युवाच ।
किं प्रमाणन्तु तत् क्षेत्रं समन्तात् सर्वतो दिशम् ॥६०॥

यत्र नित्यं स्तितो देवो महादेवो गणैर्युतः ।
ईश्वर उवाच ।
द्वियोजनन्तु तत्क्षेत्रं पूर्वपश्चिमतः स्मृतम् ॥६१॥

अर्द्धयोजन विस्तीर्णं तत्क्षेत्रं दक्षिणोत्तरम् ।
वाराणसी तदीया च यावच्छुक्लनदी तु वै ॥६२॥

भीष्मचण्डिकमारभ्य पर्वतेश्वरमन्तिके ।
गणा यत्रावतिष्ठन्ति सन्नियुक्ता विनायकाः ॥६३॥

कूष्माण्डराजः शम्भोश्च जयन्तश्च मदोत्कटाः ।
सिंहव्याघ्रमुखाः केचिद्विकटाः कुब्जवामनाः ॥६४॥

यत्र नन्दी महाकालश्चण्डघण्टो महेश्वरः ।
दण्डचण्डेश्वरश्चैव घण्टाकर्णो महाबलः ॥६५॥

एते चान्ये च बहवो गणाश्चैव गणेश्वराः ।
महोदरा महाकाया वज्रशक्तिधरास्तथा ॥६६॥

रक्षन्ति सततं देवि! ह्यविमुक्तं तपोवनम् ।
द्वारे द्वारे च तिष्ठन्ति शूलमुद्गरपाणयः ॥६७॥

सुवर्णश्रृङ्गीं रौप्यखुराञ्चैलाजिन पयस्विनीम् ।
वाराणस्यान्तु यो दद्यात् त्रिवर्णां कञ्जलोचने! ॥६८॥

गां दत्त्वा तु वरारोहे! ब्राह्मणे वेदपारगे ।
आसप्तमं कुलं तेन तारितं नात्र संशयः ॥६९॥

यो दद्याद् ब्राह्मणे किञ्चित् तस्मिन् क्षेत्रे वरानने! ।
कनकं रजतं वस्त्रमन्नाद्यं बहु विस्तरम् ॥७०॥

अक्षयं चाव्ययं चैव स्यातां तस्य सुलोचने! ।
श्रृणु तत्वेन तीर्थस्य विभूतिं व्युष्टिमेव च ॥७१॥

तत्र स्नात्वा महाभागे! भवन्ति निरुजा नराः ।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥७२॥

तदवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने! ।
बहुस्वल्पे च यो दद्याद् ब्राह्मणे वेदपारगे ॥७३॥

शुभाङ्गतिमवाप्नोति अग्निवच्चैव दीप्यते ।
वाराणसी जाह्नवीभ्यां सङ्गमे लोकविश्रुते ॥७४॥

दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ।
एतत्ते कथितं देवि! तीर्थस्य फलमुत्तमम् ॥७५॥

उपवासन्तु यः कृत्वा विप्रान् सन्तर्पयन्नरः ।
सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ॥७६॥

एकाहारस्तु यस्तिष्ठेन् मासं तत्र वरानने!
यावज्जीवकृतं पापं सहसा तस्य नश्यति ॥७७॥

अग्निप्रवेशं ये कुर्युरविमुक्ते विधानतः ।
प्रविशन्ति मुखन्ते मे निःसन्दिग्धं वरानने! ॥७८॥

दशसौवर्णिकं पुष्पं योऽविमुक्ते प्रयच्छति ।
अग्निहोत्रफलं धूपे गन्धदाने तथा श्रुणु ॥७९॥

भूमिदानेन तत्तुल्यं गन्धदानफलं स्मृतम् ।
संमार्जने पञ्चशतं सहस्रमनुलेपने ॥८०॥

मालया शतसाहस्रमनन्तं गीतवाद्यतः ।
देव्युवाच ।
अत्यद्भुतमिदं देव स्थानमेतत् प्रकीर्तितम् ॥८१॥

रहस्यं श्रोतुमिच्छामि यदर्थन्त्वं न मुञ्चसि ।
ईश्वर उवाच
आसीत् पूर्वं वरारोहे! ब्रह्मणस्तु शिरो वरम् ॥८२॥

पञ्चमं श्रृणु सुश्रोणि! जातं काञ्चन स प्रभम् ।
ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः ॥८३॥

तदेवमब्रवीद्देवि! जन्म जानामि ते ह्यहम् ।
ततः क्रोधपरीतेन संरक्त नयनेन च ॥८४॥

वामांगुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ।
ब्रह्मोवाच ।
तदा निरपराधस्य शिरश्छिन्नं त्वया मम ॥८५॥

तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि ।
ब्रह्महत्याकुलो भूत्वा चरतीर्थानि भूतले ॥८६॥

ततोऽहं गतवान् देवि! हिमवन्तं शिलोच्चयम् ।
तत्र नारायणः श्रीमान् मया भिक्षां प्रयाचितः ॥८७॥

ततस्तेन स्वकं पार्श्वं नखाग्रेण विदारितम् ।
स्रवतो महती धारा तस्य रक्तस्य निःसृता ॥८८॥

प्रयाता सातिविस्तीर्णा योजनार्द्धशतन्तदा ।
न संपूर्णं कपालन्तु घोरमद्भुत दर्शनम् ॥८९॥

दिव्यं वर्षसहस्रन्तु सा च धारा प्रवाहिनी ।
प्रोवाच भगवान्विष्णुः कपालं कुत ईदृशम् ॥९०॥

आश्चर्यभूतं देवेश! संशयो हृदि वर्तते ।
कुतश्च सम्भवो देव! सर्वं मे ब्रूहि पृच्छतः ॥९१॥

देवदेव उवाच ।
श्रूयतामस्य हे देव! कपालस्य तु सम्भवः ।
शतं वर्षसहस्राणां तपस्तप्त्वा सुदारुणम्॥९२॥

ब्रह्माऽसृजद्वपुर्दिव्यमद्भुतं लोमहर्षणम् ।
तपसश्च प्रभावेण दिव्यं काञ्चन सन्निभम् ॥९३॥

ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः ।
निकृत्तन्तं मया देव! तदिदं पश्य दुर्जयम् ॥९४॥

यत्र यत्र च गच्छामि कपालं तत्र गच्छति ।
एवमुक्तस्ततो देवः प्रोवाच पुरुषोत्तमः ॥९५॥

श्रीभगवानुवाच ।
गच्छ गच्छ स्वकं स्थानं ब्रह्मणस्त्वं प्रियङ्कुरु ।
तस्मिन् स्थास्यति भद्रन्ते कपालं तस्य तेजसा ॥९६॥

ततः सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
गतोऽस्मि पृथुल श्रोणि! न क्वचित् प्रत्यतिष्ठत ॥९७॥

ततोऽहं समनुप्राप्तो ह्यविमुक्ते महाशये ।
अवस्थितः स्वके स्थाने शापश्च विगतो मम ॥९८॥

विष्णुप्रसादात् सुश्रोणि! कपालं तत् सहस्रधा ।
स्फुटितं बहुधा जातं स्वप्नलब्धं धनं यथा ॥९९॥

ब्रह्महत्यापहं तीर्थं क्षेत्रमेतन्मया कृतम् ।
श्मशानमेतद् भद्रं मे देवानां वरवर्णिनि ॥१००॥

कालो भूत्वा जगत् सर्वं संहरामि सृजामि च ।
देवेशि! सर्वगुह्यानां स्थानं प्रियतरं मम ॥१०१॥

मद्भक्तास्तत्र गच्छन्ति विष्णुभक्तास्तथैव च ।
ये भक्ता भास्करे देवि! लोकनाथे दिवाकरे ॥१०२॥

तत्रस्थो यस्त्यजेद्देहं मामेव प्रविशेत्तु सः ।
देव्युवाच ।
अत्यद्भुतमिदं देव! यदुक्तं पद्मयोनिना ॥१०३॥

त्रिपुरान्तकरस्थानं गुह्यमेतत् महाद्युते ।
सन्निधानात्तु ते सर्वे कलां नार्हन्ति षोडशीम् ॥१०४॥

यत्र तिष्ठति देवेशो यत्र तिष्ठति शङ्करः ।
गङ्गा तीर्थसहस्राणां तुल्या भवति वा न वा ॥१०५॥

त्वमेव भक्तिर्देवेश । त्वमेव गतिरुत्तमा ।
ब्रह्मादीनान्तु ते देव! गतिरुक्ता सनातनी ।
श्राव्ये यद् द्विजातीनां भक्तानामनुकम्पया ॥१०६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:54.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

mixed ARMA process

  • मिश्र स्वसम प्रक्रम ( मिश्र स्वयमाश्रयी सरकता मध्य प्रक्रम ) 
  • (abbr. of mixed autoregressive-moving average process) 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site