TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२८

मत्स्यपुराणम् - अध्यायः १२८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १२८
ग्रहाणांगतिवर्णनम् ।
ऋषय ऊचुः ।
वदतद्भवता प्रोक्तं श्रुतं सर्वमशेषतः ।
कथं देवगृहाणि स्युः पुनर्ज्योतींषि वर्णय ॥१॥

सूत उवाच ।
एतत्सर्वं प्रवक्ष्यामि सूर्य्याचन्द्रमसोर्गतिम् ।
यथा देवगृहाणिस्युः सूर्याचन्द्रमसोस्तथा ॥२॥

अग्नेर्व्युष्टौ रजन्यां वै ब्रह्मणा व्यक्तयोनिना ।
अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम् ॥३॥

चतुर्भूतावशिष्टेऽस्मिन् ब्रह्मणा समधिष्ठिते ।
स्वयंभूर्भगवांस्तत्र लोकतत्त्वार्थसाधकः ॥४॥

खद्योतरूपी विचरन्नाविर्भावं व्यचिन्तयत् ।
ज्ञात्वाग्निं कल्पकालादावपः पृथ्वीञ्च संश्रिताः ॥५॥

स सम्भृत्य प्रकाशार्थन्त्रिधा तुल्योऽभवत् पुनः ।
पाचको यस्तु लोकेऽस्मिन् पार्थिवः सोऽग्निरुच्यते ॥६॥

यत्रासौ तपवे सूर्ये शुचिरग्निश्च स स्मृतः ।
वैद्युतो जठरः सौम्यो वैद्युतश्चाप्यनिन्धनः ॥७॥

तेजोभिश्चाध्यते कश्चित् कश्चिदेवाप्यनिन्धनः ।
काष्ठेन्धनस्तुनिर्मथ्यः सोऽद्भिः शाम्यति पावकः ॥८॥

अर्चिष्मान् पचनोऽग्निस्तु निष्प्रभः सौम्यलक्षणः ।
यश्चासौ मण्डले शुक्ले निरूष्मा न प्रकाशते ॥९॥

प्रभा सौरी तु पादेन अस्तं याति दिवाकरे ।
अग्निमाविशते रात्रौ तस्मादग्निः प्रकाशते ॥१०॥

उदिते तु पुनः सूर्य्ये ऊष्माग्नेस्तु समाविशत् ।
पादेन तेजसश्चाग्नेस्तस्मात् सन्तपते दिवा ॥११॥

प्राकाश्यञ्च तथोष्णञ्च सौर्याग्नेये तु तेजसी ।
परस्परानुप्रवेशादाप्याये ते दिवा निशम् ॥१२॥

उत्तरे चैव भूम्यर्द्धे तथा ह्यस्मिंस्तु दक्षिणे ।
उत्तिष्ठति पुनः सूर्य्ये रात्रिमाविशते ह्यपः ॥१३॥

तस्मात्ताम्रा भवन्त्यापो दिवा रात्रि प्रवेशनात् ।
अस्तङ्गते पुनः सूर्य्ये अहो वै प्रविशत्यपः ॥१४॥

तस्मान्नक्तुं पुनः शुक्ला ह्यापो द्रृश्यन्ति भासुराः ।
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ॥१५॥

उदयास्तमये ह्यत्र अहोरात्रं विशत्यपः ।
यश्चासौ तपते सूर्य्यः सोऽपः पिबति रश्मिभिः ॥१६॥

सहस्रपाद स्त्वेषोऽग्नी रक्तकुम्भनिभस्तु सः  ।
आदत्ते स तु नाडीनां सहस्रेणसमन्ततः ॥१७॥

आपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च ।
तस्य रश्मिसहस्रेण शीतवर्षोष्ण निः स्रवः ॥१८॥

तासाञ्चतुः शतं नाड्यो वर्षन्ते चित्रमूर्तयः ।
चन्दनाश्चैव मेध्याश्च केतनाश्चेतनास्तथा ॥१९॥

अमृता जीवनाः सर्वा रश्मयो वृष्टिसर्जनाः ।
हिमोद्भवाश्चतान्योन्यं रश्मयस्त्रिंशतः स्मृताः ॥२०॥

चन्द्रताराग्रहैः सर्वैः पीता भानोर्गभस्तयः ॥२१॥

एता मध्यास्तथान्याश्च ह्रादिन्यो हिमसर्जनाः ।
शुक्लाश्च ककुभश्चैव गावो विश्वसृतश्च याः ॥२२॥

शुक्लास्ता नामतः सर्वास्त्रिंशत्या धर्म्मसर्जनाः ।
सम्बिभ्रति हि ताः सर्वाः मनुष्यान्देवताः पितॄन् ॥२३॥

मनुष्यानौषधीभिश्च स्वधया च पितॄनपि ।
अमृतेन सुरान् सर्वान् सन्ततम्परि तर्पयन् ॥२४॥

वसन्ते चैव ग्रीष्मे वा शनैः सन्तपते त्रिभिः ।
वर्षासु च शरद्येवं चतुर्भिः संप्रवर्षति ॥२५॥

हेमन्ते शिशिरे चैव हिमोत्सर्गस्त्रिभिः पुनः ।
औषधीषु बलन्धत्ते सुधाञ्च स्वधया पुनः ॥२६॥

सूर्योऽमरत्वममृते त्रयस्त्रिषु नियच्छति ।
एवं रश्मिसहस्रन्तु सौरं लोकार्द्धसाधनम् ॥२७॥

भिद्यते ऋतुमासाद्य सहस्रं बहुधा पुनः ।
इत्येवं मण्डलं शुक्लं भास्वरं लोकसंज्ञितम् ॥२८॥

नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च ।
चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः ॥२९॥

सुषुग्ना सूर्यरश्मिर्या क्षीणां शशिनमेधते ।
हरिकेशः पुरस्तात्तु यो वै नक्षत्रयोनिकृत् ॥३०॥

दक्षिणे विश्वकर्मा तु रश्मिराप्याययद् बुधम् ।
विश्वावसुश्च यः पश्चच्छुक्रयोनिश्च स स्मृतः ॥३१॥

सम्वर्द्धनस्तु यो रश्मिः सयोनिर्लोहितस्य च ।
षष्ठस्तु ह्यश्वभूरश्मिर्योनिः स हि बृहस्पतेः ॥३२॥

शनैश्चरं पुनश्चापि रश्मिराप्यायते सुराट् ।
न क्षीयते यतस्तानि तस्मान्नक्षत्रतास्मृता ॥३३॥

क्षेत्राण्येतानि वै सूर्यमापतन्ति गभस्तिभिः ।
क्षेत्राणि तेषामादत्ते सूर्योनक्षत्रता ततः ॥३४॥

अस्माल्लोकादमुं लोकं तीर्णानां सुकृतात्मनाम् ।
तारणात्तारका ह्येताः शुक्लत्वाच्चैव शुक्लिकाः ॥३५॥

दिव्यानां पार्थिवानाञ्च वंशानाञ्चैव सर्वशः ।
तपसस्तेजसो योगादादित्य इति गद्यते ॥३६॥

स्रवतिः स्यन्दनार्थे धातुरेष निगद्यते ।
स्रवणात्तेजसश्चैव तेनासौ सविता स्मृतः ॥३७॥

बह्वर्थश्चन्द इत्येष प्रधानो धातुरुच्यते ।
शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्लादनेऽपि च ॥३८॥

सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे ।
जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥३९॥

वसन्ति कर्म्मदेवास्तु स्थानान्येतानि सर्वशः ।
मन्वन्तरेषु सर्वेषु ऋषिसूर्यग्रहादयः ॥४०॥

तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि ।
सौरं सूर्योऽविशत् स्थानं सौम्यं सोमस्तथैव च ॥४१॥

शौक्रं शुक्रोऽविशत् स्थानं षोडशारं प्रभास्वरम् ।
बृहस्पतिर्बृहत्वञ्च लोहितञ्चापि लोहितः ॥४२॥

शनैश्चरोऽविशत् स्थानमेवं शानैश्चरं तथा ।
बुधोऽपि वै बुधस्थानं भानुस्वर्भानुरेव च ॥४३॥

नक्षत्राणि च सर्वाणि नाक्षत्राण्यविशन्ति च ।
ज्योतींषि सुकृतामेते ज्ञेया देवगृहास्तु वै ॥४४॥

स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् ।
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ॥४५॥

अभिमानेन तिष्ठन्ति तानि देवाः पुनः पुनः ।
अतीतास्तु सहातीतैर्भाव्याभाव्यैः सुरैः सह ॥४६॥

वर्तन्ते वर्तमानैश्च सुरैः सार्द्धन्तु स्थानिनः ।
सूर्यो देवो विवस्वांश्च अष्टमस्त्वदितेः सुतः ॥४७॥

द्युतिमान् धर्म्मयुक्तश्च सोमो देवो वसुः स्मृतः ।
शुक्रो दैत्यस्तु विज्ञेयो भार्गवो सुरयाजकः ॥४८॥

बृहस्पतिर्बृहत्तेजा देवाचार्योऽङ्गिरः सुतः ।
बुधोमनोहरश्चैव शशिपुत्रस्तु स स्मृतः ॥४९॥

शनैश्चरो विरूपश्च संज्ञापुत्रो विवस्वतः ।
अग्निर्विकेश्यां जज्ञे तु युवाऽसौ लोहिताधिपः ॥५०॥

नक्षत्रनाम्न्यः क्षेत्रेषु दाक्षायण्यः सुताः स्मृताः ।
स्वर्भानुः सिंहिकापुत्रो भूतसंसाधनो सुरः ॥५१॥

चन्द्रार्कग्रहनक्षत्रेष्वभिमानी प्रकीर्त्तितः ।
स्थानान्येतानि चोक्तानि स्थानिन्यश्चैव देवताः ॥५२॥

शुक्लमग्निसमं दिव्यं सहस्रांशोर्विवस्वतः ।
सहस्रांशुत्विषः स्थानमन्मयन्तेजसं तथा ॥५३॥

आशास्थानं मनोज्ञस्य रविरश्मिगृहे स्थितम् ।
शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः ॥५४॥

लोहितो नवरश्मिस्तु स्थानमापन्तु तस्य वै ।
बृहद्द्वादशरश्मीकं हरिद्राभन्तु वेधसः ॥५५॥

अष्टरश्मिशनेस्तत्तु कृष्णं वृद्धमयस्मयम् ।
स्वर्भानोस्त्वायसं स्थानं भूतसन्तापनालयम् ॥५६॥

सुकृतामाश्रयास्तारा रश्मयस्तु हिरण्मयाः  ।
तारणात्तारकाह्येताः शुक्लत्वाच्चैव तारकाः ॥५७॥

नवयोजनसाहस्रोविष्कम्भः सवितुः स्मृतः ।
मण्डलं द्विगुणं चास्य विस्तारो भास्करस्य तु ॥५८॥

द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ।
त्रिगुणं मण्डलं चास्य वैपुल्याच्छशिनः स्मृतम् ॥५९॥

सर्वोपरिनिविष्टानि मण्डलानि तु तारकाः ।
योजनार्द्धप्रमाणानि ताभ्योऽन्यानि गणानि तु ॥६०॥

तल्पो भूत्वा तु स्वर्भानुस्तदधस्तात् प्रसर्पति ।
उद्धृत्य पार्थिवीं च्छायां निर्मितां मण्डलाकृतिम् ॥६१॥

ब्रह्मणा निर्मितं स्थानं तृतीयन्तु तमोमयम् ।
आदित्यात् स तु निष्कम्य सोमं गच्छति पर्वसु ॥६२॥

आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ।
स्वभासा तुदते यस्मात् स्वर्भानुरितिसस्मृतः ॥६३॥

चन्द्रतः षोडशो भागो भार्गवस्य विधीयते ।
विष्कम्भान् मण्डलाच्चैव योजनानान्तु सस्मृतः ॥६४॥

भार्गवात्पादहीनश्च विज्ञेयो वै बृहस्पतिः ।
बृहस्पतेः पादहीनौ केतुवक्रावुभौ स्मृतौ ॥६५॥

विस्तारमण्डलाभ्यान्तु पादहीनस्तयोर्बुधः ।
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ॥६६॥

बुधेन समरूपाणि विस्तारान् मण्डलात्तु वै ।
तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥६७॥

शतानि पञ्चचत्वारि त्रीणि द्वे चैकमेव च ।
सर्वोपरिनिसृष्टानि मण्डलानि तु तारकाः ॥६८॥

योजनार्द्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते ।
उपरिष्टात्तु ये तेषां गृहा ये क्रूरसात्विकाः ॥६९॥

सौरश्चाङ्गिरसो वक्रो विज्ञेयामन्दचारिणः ॥
तेभ्योऽधस्तात्तु चत्वारः पुनश्चान्ये महाग्रहाः ॥७०॥

सोमः सूर्य्यो बुधश्चैव भार्गवश्चेति शीघ्रगाः ।
यावन्ति चैव ऋक्षाणि कोट्यस्तावन्ति तारकाः ॥७१॥

सर्वेषान्तु ग्रहाणां वै सूर्य्योऽधस्तात् प्रसर्पति ।
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ॥७२॥

नक्षत्रमण्डलञ्चापि सोमाद् ऊर्ध्वं प्रसर्पति ।
नक्षत्रेभ्यो बुधश्चोद्र्ध्वं बुधाच्चोद्र्ध्वन्तु भार्गवः ॥७३॥

वक्रस्तु भार्गवादूद्र्ध्वं वक्रादूर्ध्वं बृहस्पतिः ।
तस्माच्छनैश्चरश्चोर्ध्वं देवाचार्योपरिस्थितः ॥७४॥

शनैश्चरात्तथा चोर्ध्वं ज्ञेयं सप्तर्षिमण्डलम् ।
सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं समस्तं त्रिदिवं ध्रुवे ॥७५॥

द्विगुणेषु सहस्रेषु योजनानां शतेषु च ।
गृहान्तरमथैकैकमूर्ध्वं नक्षत्रमण्डलात् ॥७६॥

ताराग्रहान्तराणिस्युरुपर्युपर्य्यधिष्ठितम् ।
ग्रहाश्चन्द्रसूर्य्यौ च दिवि दिव्येन तेजसा ॥७७॥

नक्षत्रेषु च युज्यन्ते गच्छन्तो नियतक्रमात् ।
चन्द्रार्कग्रहनक्षत्रा नीचोच्चगृहमाश्रिताः ॥७८॥

समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ।
परस्परं स्थिता ह्योवं युज्यन्तेच परस्परम् ॥७९॥

असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः ।
इत्येवं सन्निवेशो वै पृथिव्या ज्योतिषाञ्चयः ॥८०॥

द्वीपानामुदधीनाञ्च पर्वतानां तथैव च ।
वर्षाणाञ्च नदीनाञ्च ये च तेषु वसन्ति वै ॥८१॥

इत्येषोऽर्कवशेनैव सन्निवेशस्तु ज्योतिषाम् ।
आवर्तः सान्तरोमद्ये संक्षिप्तश्च ध्रुवात्तु सः ॥८२॥

सर्वतस्तेषु विस्तीर्णो वृत्ताकार इवोच्छ्रितः ।
लोकसम्व्यवहारार्थमीश्वरेण विनिर्मितः ॥८३॥

कल्पादौ बुद्धिपूर्वन्तु स्थापितोऽसौ स्वयम्भुवा ।
इत्येष सन्निवेशो वै सर्वस्य ज्योतिरात्मकः ॥८४॥

वैश्वरूपं प्रधानस्य परिणाहोऽस्य यः स्मृतः ।
तेषां शक्यं न संख्यातुं याथातथ्येन केनचित् ॥
गतागतं मनुष्येण ज्योतिषां मांस चक्षुषा ॥८५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:51.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वज्रचूडेमंडित

  • An epithet used in letters before the names of women whose husbands are living. 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site