TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २४

मत्स्यपुराणम् - अध्यायः २४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः २४
बुधोत्पत्तिवर्णनम् ।

सूत उवाच ।
ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः ।
दिव्यपीताम्बरधरो दिव्याभरणभूषितः ॥१॥

तारोदराद्विनिष्क्रान्तः कुमारश्चन्द्रसन्निभः ।
सर्वार्थशास्त्रविद् धीमान् हस्तिशास्त्रप्रवर्तकः ॥२॥

नामयद्राजपुत्रीयं विश्रुतं गजवैद्यकम् ।
राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः ॥३॥

जातमात्रः स तेजांसि सर्वाण्येवाजयद् बली ।
ब्रह्माद्यास्तत्र चाजग्मु र्देवा देवर्षिभिः सह ॥४॥

बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा ।
अपृच्छंस्ते सुरास्तारां केन जातः कुमारकः ॥५॥

ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा ।
पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना ॥६॥

सोमस्येति चिरादाह ततोऽगृह्णाद्विधुः सुतम् ।
बुध इत्यकरोन्नाम्ना प्रादाद्राज्यञ्च भूतले ॥७॥

अभिषेकं ततः कृत्वा युवानमकरोद् विभुः ।
ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षि संयुतः ॥८॥

पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत् ॥९॥

अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा ।
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः ॥१०॥

हिमवच्छिखरे रम्ये समाराध्य जनार्दनम् ।
लोकैश्वर्यमगाद्राजा सप्तद्वीप पतिस्तदा ॥११॥

केशिप्रभृतयो दैत्याः कोटिशो येन दारिताः ।
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता ॥१२॥

सप्तद्वीपा वसुमती सशैलवनकानना ।
धर्मेण पालिता तेन सर्वलौक हितैषिणा ॥१३॥

चामर ग्राहिणीकीर्तिः सदाचैवाङ्गवाहिका ।
विष्णोः प्रसादाद्देवेन्द्रो ददावर्धासनन्तदा ॥१४॥

धर्मार्थकामान्‌ धर्मेण सममेवाभ्यपालयत् ।
धर्मार्थकामाः सन्द्रष्टुमाजग्मुः कौतुकात्पुरा ॥१५॥

जिज्ञासवस्तच्चरितं कथं पश्यति नः समम् ।
भक्त्या चक्रे ततस्तेषामर्घ्यं पाद्यादिकं नृपः ॥१६॥

आसनत्रयमानीय दिव्यं कनकभूषितम् ।
निवेश्याथाकरोत् पूजामीषद्धर्मेऽदिकां पुनः ॥१७॥

जग्मतुस्तेन कामार्थवतिकोपं नृपं प्रति ।
अर्थ शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि ॥१८॥

कामोऽप्याह तवोन्मादो भविता गन्दमादने ।
कुमारवनमाश्रित्य वियोगादुर्वशीभवात् ॥१९॥

धर्मोऽप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि ।
सन्ततिस्तव राजेन्द्र यावच्चन्द्रार्क तारकम् ॥२०॥

शतशो वृद्धिमायातु न नाशम्भुवि यास्यति ।
इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत् ॥२१॥

अहन्यहनि देवेन्द्रं द्रष्टुं याति सराजराट् ।
कदाचिदारुह्य रथं दक्षिणाम्बरचारिणम् ॥२२॥

सार्द्धमर्केण सोऽपश्यन्नीयमानामथाम्बरे ।
केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम् ॥२३॥

तं विनिर्जित्य समरे विविधायुधपाणिना ।
बुधपुत्रेण वायव्यमस्त्रं मुक्त्वा यशोऽर्थिना ॥२४॥

तथा शक्रोऽपि समरे येन चैवं विनिर्जितः ।
मित्रत्वमगमद्देवैर्ददाविन्द्राय चोर्वशीम् ॥२५॥

ततः प्रभृति मित्रत्वमगमत् पाकशासनः ।
सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम् ॥२६॥

प्रादाद्वज्रीतु सन्तुष्टो गेयतां भरतेन च ।
सा पुरूरवसः प्रीत्या गायन्तीं चरितं महत् ॥२७॥

लक्ष्मी स्वयं वरं नाम भरतेन प्रवर्त्तितम् ।
मेनकामुर्वशीं रम्भां नृत्यतेति तदा दिशत् ॥२८॥

ननर्त्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी ।
सा पुरूरवसं द्रृष्ट्वा नृत्यन्ती कामपीडिता ॥२९॥

विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम् ।
शशाप भरतः क्रोधाद्वियोगादस्य भूतले ॥३०॥

पञ्चपञ्चाशदब्दानि लता सूक्ष्मा भविष्यसि ।
पुरूरवाः पिशाचत्वं तत्रैवानु भविष्यसि ॥३१॥

ततस्तमुर्वीशी गत्वा भर्तारमकरोच्चिरम् ।
शापान्ते भरतस्याथ उर्वशी बुधसूनुतः ॥३२॥

अजीजनत् सुतानष्टौ नामतस्तान्निबोधत ।
आयुर्द्रृढायुरश्वायु धनायुर्धृतिमान्वसुः ॥३३॥

शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः ।
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च ॥३४॥

रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः ।
रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम् ॥३५॥

रजिराराधयामास नारायणमकल्मषम् ।
तपसा तोषितो विष्णुर्वरान् प्रादान्महीपतेः ॥३६॥

देवासुरमनुष्याणामभूत् स विजयी तदा ।
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम् ॥३७॥

प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः ।
ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः ॥३८॥

अनयोर्विजयी कः स्यात्‌ रजिर्यत्रेति सोऽब्रवीत् ।
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः ॥३९॥

दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम् ।
नासुरैः प्रतिपन्नं तत्‌ प्रतिपन्नं सुरैस्तथा ॥४०॥

स्वामी भव त्वमस्माकं संग्रामे नाशयद्विषः ।
ततो विनाशिताः सर्वे येऽवध्या वज्रपाणिना ॥४१॥

पुत्रत्वमगमत् तुष्टस्तस्येन्द्रः कर्मणा विभुः ।
दत्वेन्द्राय तदा राज्यं जगाम तपसेरजिः ॥४२॥

रजिपुत्रैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम् ।
यज्ञभागञ्च राज्यञ्च तपो बल गुणान्वितैः ॥४३॥

राज्याद्‌भ्रष्टस्तदाशक्रो रजिपुत्रैर्निपीडितः ।
प्राहवाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः ॥४४॥

न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते ।
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ॥४५॥

ततो बृहस्पतिः शक्रमकरोद् बलदर्पितम् ।
ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा ॥४६॥

गत्वाऽथ मोहयामास रजिपुत्रान्‌ बृहस्पतिः ।
जिनधर्मं समास्थाय वेदबाह्यं सवेदवित् ॥४७॥

वेदत्रयी परिभ्रष्टां श्चकार धिषणाधिपः ।
वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान् ॥४८॥

जधान शक्रो वज्रेण सर्वान्‌ धर्मबहिष्कृतान् ।
नहुषस्य प्रवक्ष्यामि पुत्रान्‌ सप्तैव धार्मिकान् ॥४९॥

ततः प्रभृति मित्रत्वमगमत्पाकशासनः ।
सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम् ॥५०॥

यतिः कुमारभावेऽपि योगी वैखानसोऽभवत् ।
ययातिश्चाकरोद्राज्यं धर्मैक शरणः सदा ॥५१॥

शर्मिष्ठा तस्य भार्याभूद्‌ दुहिता वृषपर्वणः ।
भार्गवस्यात्मजा तद्वत् देवयानी च सुव्रता ॥५२॥

ययातेः पञ्च दायादास्तान् प्रवक्ष्यामि नामतः ।
देवयानी यदुं पुत्रं तुर्वसुञ्चाप्यजीजनत् ॥५३॥

तथाद्रुह्य मनुं पूरुं शर्मिष्ठाजनयत्‌ सुतान् ।
यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ ॥५४॥

ययातिर्नाहुषश्चासीत् राजा सत्यपराक्रमः ।
पालयामास स महीमीजे च विधिवन्मखैः ॥५५॥

अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा ।
अथाजयत्‌ प्रजाः सर्वा ययातिरपराजितः ॥५६॥

स शाश्वतीः समा राजा प्रजाधर्मेण पालयत् ।
जरामार्च्छन्महाघोरं नाहुषो रूपनाशिनीम् ॥५७॥

जराभिभूतः पुत्रान् स राजा वचनमब्रवीत् ।
यदुं पूरुं तुर्वसुञ्च द्रुह्यं चानुञ्च पार्थिवः ॥५८॥

यौवनेन चलान्‌ कामान् युवायुवतिभिः सह ।
विहर्तुमहमिच्छामि साहाय्यं कुरुतात्मजाः ॥५९॥

तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् ।
साहाय्यं भवतः कार्यमस्माभि र्यौवनेन किम् ॥६०॥

ययातिरब्रवीत् पुत्रान् जरा मे प्रतिगृह्यताम् ।
यौवनेनाथ भवतां चरेयं विषयानहम् ॥६१॥

यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।
कामार्थः परिहीनो मेऽतृप्तोऽहं तेन पुत्रकाः ॥६२॥

स्वकीयेन शरीरेण जरामेनां प्रशास्तु वः ।
अहं तन्वाभिनवया युवाकामानवाप्नुयाम् ॥६३॥

न तेऽस्य प्रत्यगृह्णन्त यदु प्रभृतयो जराम् ।
चतुरस्तान् स राजर्षिरशपच्चेति नः श्रुतम् ॥६४॥

तमब्रवीत्ततः पूरुः कनीयान् सत्यविक्रमः ।
जरां मा देहि नवया तन्वा मे यौवनात्‌ सुखी ॥६५॥

अहं जरावन्तमादाय राज्ये स्थास्यामि चाज्ञया ।
एवमुक्तः स राजर्षिस्तपोवीर्य्य समाश्रयात् ॥६६॥

संस्थापयामास जरां तदा पुत्रे महात्मनि ।
पौरवेणाथ वयसा राजा यौवनमास्थितः ॥६७॥

ययातेश्चाथ वयसा राज्यं पूरुरकारयत् ।
ततो वर्षसहस्रान्ते ययातिरपराजितः ॥६८॥

अतृप्त इव कामानां पूरुं पुत्रमुवाच ह ।
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ॥६९॥

पौस्वो वंश इत्येष ख्यातिं लोके गमिष्यति ।
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च ॥
कालेन महता पश्चात्काल धर्म्ममुपेयिवान् ॥७०॥

पूरुवंशं प्रवक्ष्यामि श्रृणुध्वमृषिसत्तमाः ॥
यत्र ते भारता जाता भरतान्वय वर्द्धनाः ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:45.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

diatreme

  • ज्वायुनलिका (स्त्री.) (ज्वालामुखी वायुनलिका) 
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.