TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६३

मत्स्यपुराणम् - अध्यायः १६३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १६३
अन्यदानवैः सह नरसिंहयुद्धम् ।

सूत उवाच ।
खराः खरमुखाश्चैव मकराशी विषाननाः ।
ईहामृगमुखाश्चान्ये वराह मुखसंस्थिताः ॥१

बालसूर्यमुखाश्चान्ये धूमकेतु मुखास्तथा ।
अर्द्धचन्द्रार्धवक्त्राश्च अग्नि दीप्त मुखास्तथा ॥२

हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः ।
सिंहास्या लेलिहानाश्च काकगृध्र मुखास्तथा ॥३

द्विजिह्वका वक्त्रशीर्षास्तथोल्का मुखसंस्थिताः ।
महाग्राहमुकाश्चान्ये दानवा बलदर्पिताः ॥४

शैलसंवर्ष्मणस्तस्य शरीरे शरवृष्टिभिः ।
अबध्यस्य मृगेन्द्रस्य न व्यथाञ्चक्रुराहवे ॥५

एवं भूयोऽपरान् घोरानसृजन् दानवेश्वराः ।
मृगेन्द्रस्योपरि क्रुद्धा निश्वसन्त इवोरगाः ॥६

ते दानवशरा घोरा दानवेन्द्रसमीरिताः ।
विलयं जग्मुराकाशे खद्योता इव पर्वते ॥७

ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः ।
मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः ॥८

तैरासीद्गगनं चक्रैः सम्पतद्भिरितस्ततः ।
युगान्ते सम्प्रकाशद्भिश्चन्द्रादित्य ग्रहैरिव ॥९

तानि सर्वाणि चक्राणि मृगेन्द्रेण शमात्मना ।
ग्रस्तान्युदीर्णानि तदा पावकार्चिः समानि वै ॥१०

तानि चक्राणि वदनं विशमानानि भान्ति वै ।
मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव ॥११

हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जितम् ।
शक्तिं प्रज्वलितां घोरां धौतशस्त्रतड़ित्प्रभाम् ॥१२

तामापतन्ती संप्रेक्ष्य मृगेन्द्रः शक्तिमुज्वलाम् ।
हुङ्कारेणैव रौद्रेण बभञ्ज भगवांस्तदा॥१३

रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले ।
स विस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता॥१४

नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजे विदूरतः ।
नीलोत्पलपलाशानां मालेवोज्ज्वल दर्शना ॥१५

स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम् ।
तत्सैन्यमपसारितवान् तृणाग्राणीव मारुतः ॥१६

ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः ।
नगमात्रैः शिलाखण्डै र्गिरिशृङ्गैर्महाप्रभैः ॥१७

तदश्मवर्षं सिंहस्य महन्मूर्द्धनि पातितम् ।
दिशो दश विकीर्णा वै खद्योतप्रकरा इव ॥१८

तदाश्मौघैर्दैत्यगणाः पुनः सिंहमरिन्दमम् ।
छायायां चक्रिरे मेघा धाराभिरिव पर्वतम् ॥१९

न च तं चालयामासुः दैत्यौघा देवसत्तमम् ।
भीमवेगोऽचलश्रेष्टं समुद्र इव मन्दरम् ॥२०

ततोऽश्मवर्षे विहिते जलवर्षमनन्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीत् समन्ततः ॥२१

नभसः प्रच्युताधाराः तिग्मवेगाः समन्ततः ।
आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा ॥२२

धारा दिवि च सर्वत्र वसुधायाञ्च सर्वशः ।
न स्पृशन्ति च ता देवं निपतन्तोऽनिशं भुवि ॥२३

बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः ।
मृगेन्द्र प्रतिरूपस्य स्थितस्य युधि मायया ॥२४

हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते ।
सोऽसृजद्दानवो मायामग्निवायुसमीरिताम् ॥२५

महेन्द्रस्तोयदैः सार्द्धं सहस्राक्षो महाद्युतिः ।
महता तोयवर्षेण शमयामास पावकम् ॥०२६

तस्यां प्रतिहतायां तु मायायां युधि दानवः ।
असृजत् घोरसंकाशं तमस्तीव्रं समन्ततः ॥२७

तमसा संवृते लोके दैत्येष्वात्तायुधेषु च ।
स्वतेजसा परिवृतो दिवाकर इवा बभौ ॥२८

त्रिशाखां भ्रुकुटीञ्चास्य ददृशुर्दानवा रणे ।
ललाटस्थां त्रिशूलाङ्कां गङ्गां त्रिपथगामिव ॥२९

ततः सर्वासु मायासु हतासु दितिनन्दनाः ।
हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः ॥३०

ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा ।
तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमो भूतमभूज्जगत् ॥३१

आवहः प्रवहश्चैव विवहोऽथ ह्युदावहः ।
परावहः संवहश्च महाबलपराक्रमाः ॥३२

तथा परिवहः श्रीमानुत्पातभयशंसनाः ।
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः ॥३३

ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै ।
ते सर्वे गगने दृष्टा व्यचरन्त यथासुखम् ॥३४

अन्यङ्गते चाप्यचरन् मार्गं निशि निशाचरः ।
संग्रहः सहनक्षत्रैराकापतिररिन्दमः ॥३५

विवर्णताञ्च भगवान् गतो दिवि दिवाकरः ।
कृष्णं कबन्धं च तथा लक्ष्यते सुमहद्दिवि ॥३६

अमुञ्चच्चार्चिषां वृन्दं भूमिवृत्ति र्विभावसुः ।
गगनस्थश्च भगवानभीक्ष्णं परिदृश्यते ॥३७

सप्त धूम्रनिभा घोराः सूर्य्या दिवि समुत्थिताः ।
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥३८

वामेन दक्षिणे चैव स्थितौ शुक्रबृहस्पती ।
शनैश्चरो लोहिताङ्गो ज्वलनाङ्ग-समुद्यती ॥३९

समं समधिरोहन्तः सर्वे ते गगनेचराः ।
शृङ्गाणि शनकैर्घोरा युगान्तावर्तिनो ग्रहाः ॥४०

चन्द्रमाश्च सनक्षत्रैर्ग्रहैः सह तमोनुदः ।
चराचरविनाशाय रोहिणीं नाभ्यनन्दत ॥४१

गृह्यते राहुणा चन्द्र उल्काभिरभिहन्यते ।
उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ॥४२

देवानामपि यो देवः सोऽप्यवर्षत शोणितम् ।
अपतन् गगनादुल्का विद्युद्रूपा महास्वनाः ॥४३

अकाले च द्रुमाः सर्वे पुष्पन्ति च फलन्ति च ।
लताश्च सफलाः सर्वा ये चाहुर्दैत्यनाशनम् ॥४४

फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च ।
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥४५

विक्रोशन्ति च गम्भीरा धूमयन्ति ज्वलन्ति च ।
प्रतिमाः सर्वदेवानां वेदयन्ति महद्भयम् ॥४६

आरण्यैः सह संसृष्ट ग्राम्याश्च मृगपक्षिणः ।
चक्रुः सुभैरवं तत्र महायुद्धमुपस्थितम् ॥४७

तद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः ।
न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ॥४८

वानस्पत्यो न पूज्यन्ते पूजनार्हाः कथञ्चन ।
वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च ॥४९

यदा च सर्वभूतानां छाया न परिवर्तते ।
अपराह्णगते सूर्ये लोकानां युगसंक्षये ॥५०

तदा हिरण्यकशिपो र्दैत्यस्योपरि वेश्मनः ।
भाण्डागारे युधागारे निविष्टमभवन्मधु ॥५१

असुराणां विनाशाय सुराणां विजयाय च ।
दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥५२

एते चान्ये च बहवो गोरोत्पाताः समुत्थिताः ।
दैत्येन्द्रस्य विनाशाय दृश्यन्ते कालनिर्मिताः ॥५३

मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना ।
महीधरा नागगणा निपेतुरमितौजसः ॥५४

विषज्वालाकुलैर्वक्त्रैर्विमुञ्चन्तो हुताशनम् ।
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥५५

वासुकिस्तक्षकश्चैव कर्कोटक धनञ्जयौ ।
एलामुखः कालिकश्च महापद्मश्च वीर्यवान् ॥०५६

सहस्रशीर्षा नागोवै हेमतालध्वजः प्रभुः ।
शेषोऽनन्तोमहाभागो दुष्प्रकम्प्यः प्रकम्पितः ॥५७

दीप्तान्यन्तर्जलस्थानि पृथिवी धरणानि च ।
तदा क्रुद्धेन महता कम्पितानि समन्ततः ॥५८

नागास्तेजोधराश्चापि पातालतलचारिणः ।
हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान् महीम् ॥५९

सन्दष्टौष्टपुटः क्रोधाद्वाराह इव पूर्वजः ।
नदी भागीरथी चैव सरयूः कौशिकी तथा ॥६०

यमुना त्वथ कावेरी कृष्णवेणी च निम्नगा ।
सुवेणा च महाभागा नदी गोदावरी तथा ॥६१

चर्मण्वती च सिन्दुश्च तथा नदनदीपतिः ।
कमलप्रभवश्चैव शोणोमणि निभोदकः ॥६२

नर्मदा शुभतोया च तथा वेत्रवती नदी ।
गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती ॥६३

मही कालमही चैव तमसा पुष्पवाहिनी ।
जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम् ॥६४

सुवर्ण प्रकटञ्चैव सुवर्णाकरमण्डितम् ।
महानदञ्च लौहित्यं शैलकाननशोभितम् ॥६५

पत्तनं कोशकरणं ऋषिवीर जनाकरम् ।
मागधाश्च महाग्रामा मुडाः शुङ्गास्तथैव च ॥६६

सुह्मा मल्ला विदेहाश्च मालवाः काशिकोसलाः ।
भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम् ॥६७

कैलासशिखराकारं यत् कृतं विश्वकर्मणा ।
रक्ततोयो महाभीमो लौहित्यो नाम सागरः ॥६८

उदयश्च महाशैल उच्छ्रितः शतयोजनम् ।
सुवर्णवेदिकः श्रीमान् मेघपङ्क्ति-निषेवितः ॥६९

भ्राजमानोऽर्कसदृशै जातरूपमयैर्द्रुमैः ।
शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥७०

अयोमुखश्च विख्यातः सर्वतो धातुमण्डितः ।
तमालवनगन्धश्च पर्वतो मलयः शुभः ॥७१

सुराष्ट्राश्च सवाल्हीकाः शूराभीरास्तथैवच ।
भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गस्ताम्रलिप्तकाः ॥७२

तथैवोड्राश्च पौण्ड्राश्च वामचूडाः सकेरलाः ।
क्षोभितास्तेन दैत्येन सदेवाश्चाप्सरोगणाः ॥७३

अगस्त्यभवनञ्चैव यदगम्यङ्कृतं पुरा ।
सिद्धचारणसङ्घैश्च विप्रकीर्णं मनोहरम् ॥७४

विचित्रनानाविहगं सुपुष्पितमहाद्रुमम् ।
जातरूपमयैः श्रृङ्गैर्गगनं विलिखन्निव ॥७५

चन्द्रसूर्यांशुसङ्काशैः सागराम्बु समावृतैः
विद्युत्त्वान् सर्वः श्रीमानायतः शतयोजनम् ॥७६

विद्युतां यत्र सङ्घाता निपात्यन्ते नगोत्तमे ।
ऋषभः पर्वतश्चैव श्रीमान् वृषभसंज्ञितः ॥७७

कुञ्चरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम् ।
विशालाक्षश्च दुर्धर्षः सर्पाणामालयः पुरी ॥७८

तथा भोगवतीचापि दैत्येन्द्रेणाभिकम्पिताः ।
महासेनो गिरिश्चैव पारियात्रश्च पर्वतः ॥७९

चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः ।
प्राग्ज्योतिष परञ्चापि जातरूपमयं शुभम् ॥८०

यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ।
विशालाक्षश्च दुर्द्धर्षो मेघगम्भीरनिस्वनः ॥८१

षष्टिस्तत्र सहस्राणि पर्वतानां द्विजोत्तमाः ।
तरुणादित्यसङ्काशो मेरुस्तत्र महागिरिः ॥८२

यक्षराक्षसगन्धर्वैः नित्यं सेवितकन्दरः ।
हेमगर्भो महाशैलस्तथा हेमसखो-गिरिः ॥८३

कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पिताः ।
हेमपुष्परसक्षेत्रं तेन वैखानसं सरः ॥८४

कम्पितं मानसञ्चैव हंसकारण्डवाकुलम् ।
त्रिशृङ्गपर्वतश्चैव कुमारी च सरिद्वरा ॥८५

तुषारचय-सञ्छन्ना मन्दरश्चापि पर्वतः ।
उशीरबिन्दुश्च गिरिश्चन्द्रप्रस्थः तथाद्रिराट् ॥८६

प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः ।
देवाभ्रपर्वतश्चैव यथावै रेणुको गिरिः ॥८७

क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः ।
एते चान्ये च गिरयो देशा जनपदास्तथा ॥८८

नद्यः ससागराः सर्वाः सोऽकम्पयत दानवः ।
कपिलश्च महीपुत्रो व्याघ्रवांश्चैव कम्पितः ॥८९

खेचराश्च सतीपुत्राः पातालतलवासिनः ।
गणस्तथा परो रौद्रो मेघनामाङ्कुशायुधः ॥९०

ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः ।
गदी शूली करालश्च हिरण्यकशिपुस्तदा ॥९१

जीमूतघनसङ्काशो जीमूतघननिस्वनः ।
जीमूतघननिर्घोषो जीमूत इव वेगवान् ॥९२

देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् ।
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः ॥९३

तदोङ्कारसहायेन विदार्य निहतो युधि ।
मही च कालश्च वशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः ।
नद्यश्च च शैलाश्च महार्णवाश्च गताः प्रसादन्दितिपुत्रनाशात् ॥९४

ततः प्रमुदिता देवा ऋषयश्च तपोधनाः ।
तुष्टुवुर्नामभिर्दिव्यै रादिदेवं सनातनम् ॥९५

यत्त्वया विहितं देव! नारसिंहमिदं वपुः ।
एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥९६

ब्रह्मोवाच ।
भवान् ब्रह्मा च रुद्रश्च महोन्द्रो देवसत्तमाः! ।
भवान् कर्ता विकर्ता च लोकानां प्रभवाप्ययः ॥९७

पराञ्च सिद्धाञ्च परञ्च देवं परञ्च मन्त्रं परमं हविश्च ।
परञ्च धर्मं परमञ्च विश्वं त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥९८

परं शरीरं परमञ्च ब्रह्म परञ्च योगं परमाञ्च वाणीम् ।
परं रहस्यं परमाङ्गतिञ्च त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥९९

एवं परस्यापि परं पदं यत् परं परस्यापि परञ्च देवम् ।
परं परस्यापि परञ्च भूतन्त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥१००

परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् ।
परं परस्यापि परं च दान्तन्त्वामाहुरग्र्य्रं पुरुषं पुराणम् ॥१०१

एवमुक्त्वा तु भगवान् सर्वलोकपितामहः ।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥१०२

तप्तो नदत्सु तूर्येषु नृत्यन्तीष्वत्सरः सु च ।
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥१०३
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् ।
पौराणां रूपमास्थाय प्रययौ गरुडध्वजः ॥१०४

अष्टचक्रेण यानेन भूतयुक्तेन भास्वता ।
अव्यक्त-प्रकृतिर्देवः स्वस्थानं गतवान् प्रभुः ॥१०५

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ध्युषिताश्व

  • n. (सू.इ.) वायु मत में शंखण राजा का पुत्र । भागवत में इसे विधृति, एवं विष्णु में इसे व्युत्थिताश्व कहा गया है । 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.