संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८०

मत्स्यपुराणम् - अध्यायः ८०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


शुभसप्तमीव्रतकथनम् ।

श्रीभगवानुवाच ।
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीम् ।
यामुपोष्य नरो रोगशोकदुःखैः प्रमुच्यते ॥१॥

पुण्ये चाश्वयुजेमासिकृतस्नानजपः शुचिः ।
वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीम् ॥२॥

कपिलां पूजयेद्‌भक्त्या गन्धमाल्यानुलेपनैः ।
नमामि सूर्य्यसम्भूतामशेषभुवनालयाम् ॥
त्वामहं शुभकल्याणशरीरां सर्वसिद्धये ॥३॥

अथ कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम् ।
काञ्चनं वृषभं तद्वद्गन्धमाल्यगुड़ान्वितैः ॥४॥

फलैर्नानाविधैर्भक्ष्यै र्घृतपायससंयुतैः ।
दद्याद्विकालवेलायामर्यमा प्रीयतामिति ॥५॥

पञ्चगव्यञ्च संप्राश्य स्वपेद्‌भूमौ विमत्सरः ।
ततः प्रभाते सञ्जाते भक्त्या संपूजयेद्‌द्विजान् ॥६॥

अनेन विधिना दद्यान्मासि मासि यदा नरः ।
वाससी वृषभं हैमं तद्वद्गां काञ्चनोद्भवाम् ॥७॥

सम्वत्सरान्ते शयनमिक्षुदण्डगुड़ान्वितम् ।
सोपधानकविश्रामं भाजनासनसंयुतम् ॥८॥

ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा ।
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ॥९॥

अनेन विधिना विद्वान् कुर्य्याद्यः शुभसप्तमीम् ।
तस्य श्रीर्विपुला कीर्तिर्भवेज्जन्मनि जन्मनि ॥१०॥

अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये ।
वसेद् गणाधिपो भूत्वा यावदाभूतसंप्लवम् ॥
कल्पादाववतीर्णस्तु सप्तद्वीपाधिपो भवेत् ॥११॥

ब्रह्महत्या सहस्रस्य भ्रूणहत्या शतस्य च ।
नाशायालमियं पुण्या पठ्यते शुभसप्तमी ॥१२॥

इमां पठेद्यः श्रृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम् ।
सोऽप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम् ॥१३॥

यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम् ।
स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारे ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP