TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४०

मत्स्यपुराणम् - अध्यायः १४०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १४०
देवदानवयुद्धवर्णनम् ।

सूत उवाच ।
उदिते तु सहस्रांशौ मेरौ भासाकरे रवौ ।
नदद्देव कुलं कृत्स्नं युगान्त इव सागराः ॥१॥

सहस्रनयनो देवस्ततः शक्रः पुरन्दरः ।
सवित्तदः सवरुण स्त्रिपुरं प्रययौ हरः ॥२॥

ते नानाविधरूपाश्च प्रमथातिप्रमाथिनः ।
ययुः सिंहरवैर्घोरैर्वादित्रनिनदैरपि ॥३॥

ततो वादितवादित्रैश्चातपत्रैर्महाद्रुमैः ।
बभूव तद्बलं दिव्यं वनं प्रचलितं यता ॥४॥

तदा पतन्तं संप्रेक्ष्य रौद्रं रुद्रबलं महत् ।
सङ्‌क्षोभो दानवेन्द्राणां समुद्रप्रतिमो बभौ ॥५॥

ते चासीन् पट्टिशानच्छक्तीः शूलदण्डपरश्वधान् ।
शरासनानि वज्राणि गुरूणि मुसलानि च ॥६॥

प्रगृह्य कोपरक्ताक्षाः सपक्षा इव पर्वताः ।
निजघ्नुः पर्वतघ्नाय घना इव तपात्यये ॥७॥

स विद्युन्मालिनस्ते वै समयादिति नन्दनाः ।
मोदमाना समासेदुर्देवदेवैः सुरारयः ॥८॥

मर्तव्यकृतबुद्धीनां जये चानिश्चितात्मनाम् ।
अबलानाञ्चमू ह्यासीदबलावयवा इव ॥९॥

विगर्जन्त इवाम्भोदा अम्भोदसद्रृशत्विषः ।
प्रयुद्धा युद्धकुशलाः परस्परकृतागसः ॥०॥

धमायन्तो ज्वलद्भिश्च आयुधैश्चन्द्रवर्चसैः ।
कोपाद्वा युद्धलुब्धाश्च कुट्टयन्ते परस्परम् ॥११॥

वज्राहताः पतन्त्यन्ये बाणैरन्ये विदारिताः ।
अन्ये विदारिताश्चक्रैः पतन्ति ह्युदधे जले ॥१२॥

छिन्नस्रग्दामहाराश्च प्रमृष्टाम्बरभूषणाः ।
तिमिनक्रगणे चैव पतन्ति प्रमथाः सुराः ॥१३॥

गदानां मुसलानाञ्च तोमराणां परश्वधाम् ।
वज्रशूलर्ष्टिपातानां पट्टिशानाञ्च सर्वतः ॥४॥

गिरिश्रृङ्गोपलानाञ्च प्रेरितानां प्रमन्युभिः ।
सजवानां दानवानां सधूमानां रवित्विषाम् ॥
आयुधानो महानोघः सागरौघे पतत्यपि ॥१५॥

प्रवृद्धवेगैस्तैस्तत्र सुरासुरकरोरितैः ।
आयुधैस्त्रस्तनक्षत्रः क्रियते सङ्क्षयो महान् ॥१६॥

क्षुद्राणाङ्गजयोर्युद्धे यथा भवति सङ्‌क्षयः ।
देवासुरगणैस्तद्वत्तिमिनक्रक्षयोऽभवत् ॥१७॥

विद्युन्माली च वेगेन विद्युन्माली इवाम्बुदः ।
विद्युन्माल घनोन्नादो नन्दीश्वरमभिद्रुतः ॥१८॥

स तन्तमोऽरिवदनं प्रनदन् वदताम्वरः ।
उवाच युधि शैलादिन्दानवोऽम्बुधिनिस्वनः ॥१९॥

युद्धाकाङ्क्षी तु बलवान् विद्युन्माल्यहमागतः ।
यदि त्विदानीं मे जीवन्मुच्यसे नन्दिकेश्वर! ।
न विद्युन्मालि हननं वचोभिर्युधि दानवः ॥२०॥

तमेवं वादिनं दैत्यं नन्दीशस्तपताम्वरैः ।
उवाच प्रहरंस्तत्र वाद्यलङ्कारवद्वचः ॥२१॥

दानवाः! धर्म्मकामानां नैषोऽवसर इत्यतः ।
शक्तो हन्तुं किमात्मानं जातिदोषाद्विवृंहसि ॥२२॥

यदि तावन्मया पूर्वं हतोऽसि पशुवद्यथा ।
इदानीं वा कथं नाम न हिंस्ये क्रतु दूषणम् ॥२३॥

सागरं तरते दोर्भ्यां पातयेद्यो दिवाकरम् ।
सोऽपि मां शक्नुयान्नैव चक्षुर्भ्यां समवीक्षितुम् ॥२४॥

इत्येवं वादिनं तत्र नन्दिनं तन्निभोबले ।
बिभेदैकेषुणा दैत्यः करणार्क इवाम्बुदम् ॥२५॥

वक्षसः सशरस्तस्य पपौ रुधिरमुत्तमम् ।
सूर्य्यस्त्वात्मप्रभावेण नद्यर्णवजलं यथा ॥२६॥

स तेन सुप्रहारेण प्रथमञ्चाति रोषितः ।
हस्तेन वृक्षमुत्पाट्य चिक्षेप गजराडिव ॥२७॥

वायुनुन्नः स च तरुः शीर्णपुष्पो महारवः ।
विद्युन्मालिशरैश्छिन्नः पपात पतगेशवत् ॥२८॥

वृक्षमालोक्य तं छिन्नं दानवेन वरेषुभिः ।
रोषमाहारयत्तीव्रं नन्दीश्वर सुविग्रहः ॥२९॥

सोद्यम्य करमारावे रविशक्रकरप्रभम् ।
दुद्राव हन्तुं स क्रूरं महिषं गजराडिव ॥३०॥

तमापतन्तं वेगेन वेगवान् प्रसभं बलात् ।
विद्युन्माली शरशतैः पूरयामास नन्दिनम् ॥३१॥

शरकण्टकिताङ्गो वै शैलादिः सोऽभवत् पुनः ।
अरेर्गुह्यरथं तस्य महतः प्रययौ जवात् ॥३२॥

बिलम्बिताश्वो विशिरो भ्रमितश्च रणे रथः ।
पपात मुनिशापेन सादित्योऽर्करथो यथा ॥३३॥

अन्तपान्निर्गतश्चैव मायया स दितेः सुतः ।
आजघान तदा शक्त्या शैलादिं समवास्थितम् ॥३४॥

तामेव तु विनिष्क्रम्य शक्तिं शोणितभूषिताम् ।
विद्युन्मालिं समुद्दिश्य चिक्षेप प्रमथाग्रणीः ॥३५॥

तया भिन्नतनुत्राणो विभिन्न हृदयस्त्वपि ।
विद्युन्माल्यपतद्‌भूमौ वज्राहत इवाचलः ॥३६॥

विद्युन्मालिनि निहते सिद्धचारणकिन्नराः ।
साधुसाध्विति चोक्त्वा ते पूजयन्त उमापतिम् ॥३७॥

नन्दिना सादिते दैत्ये विद्युन्मालौ हते मयः ।
ददाह प्रमथानीकं वनमग्निरिवोद्धतः ॥३८॥

शूलनिर्दारितोरस्का गदाचूर्णितमस्तकाः ।
इषुभिर्गाढ़विद्धाश्च पतन्ति प्रमथार्णवे ॥३९॥

अथ वज्रधरो यमोऽर्थदः स च नन्दी स च षण्मुखो गुहः ।
मयमसुरवीरसम्प्रवृत्तं विविधुः शस्त्रवरैर्हतारयः ॥४०॥

नागन्तु नागाधिपतेः शताक्षं मयो विदार्येषु वरेण तूर्णम् ।
मयञ्च वित्ताधिपतिञ्च विद्‌ध्वा ररास मत्ताम्बुदवत्तदानीम् ॥४१॥

ततः शरैः प्रमथगणैश्च दानवा द्रृढ़ाहताश्वोत्तमवेगविक्रमाः ।
भृशानुविद्धास्त्रिपुरं प्रवेशिता यथा शिवश्चक्रधरेण संयुगे ॥४२॥

ततस्तु शङ्खानकभेरिमर्दलाः ससिंहनादादनुपुत्रभङ्गदाः ।
कपर्दिसैन्ये प्रबभुः समन्ततो निपात्यमाना युधि वज्रसन्निभाः ॥४३॥

अथ दैत्यपुराभावे पुष्ययोगो बभूव ह ।
बभूव चापि संयुक्तं तद्योगेन पुरत्रयम् ॥४४॥

ततो बाणं त्रिधा देवस्त्रिदैवतमयं हरः ।
मुमोच त्रिपुरे तूर्णं त्रिनेत्रस्त्रिपदाधिपः ॥४५॥

तेन मुक्तेन बाणेन बाणपुष्पसमप्रभम् ।
आकाशं स्वर्णसङ्काशं कृतं सूर्य्येण रञ्जितम् ॥४६॥

मुक्ता त्रिदैवतमयं त्रिपुरे त्रिदशः शरम् ।
धिग्धिङ्‌मामिति चक्रन्दकष्टं कष्टमिति ब्रुवन् ॥४७॥

वैधुर्यं दैवतं द्रृष्ट्वा शैलादिर्गजवद्गतः ।
किमिदन्त्विति पप्रच्छ शूलपाणिं महेश्वरम् ॥४८॥

ततः शशाङ्कतिलकः कपर्दी परमार्तवत् ।
उवाच नन्दिनं भक्तः स मयोऽद्य विनंक्ष्यति ॥४९॥

अथ नन्दीश्वरस्तूर्णं मनोमारुतमद्बली ।
शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः ॥५०॥

स मयम्प्रेक्ष्य गणपः प्राहकाञ्चनसन्निभः ।
विनाशस्त्रिपुरस्यास्य प्राप्तो मय! सुदारुणः ॥५१॥

अनेनैव गृहेण त्वमपक्राम ब्रवीम्यहम् ।
श्रुत्वा तन्नन्दिवचनं द्रृढ़भक्तो महेश्वरे ॥
तेनैव गृहमुख्येन त्रिपुरादपसर्पितः ॥५२॥

सोऽपीषुः पत्रपुटवद्दग्ध्वा तन्नगरत्रयम् ।
त्रिधा इव हुताशश्च सोमो नारायणस्तथा ॥५३॥

शरतेजः परीतानि पुराणि द्विजपुङ्गवाः ।! ।
दुष्पुत्रदोषाद्दह्यन्ते कुलान्यूर्ध्वं यथा तथा ॥५४॥

मेरुकैलासकल्पानि मन्दराग्रनिभानि च ।
सकपाटगवाक्षाणि वलिभिः शोभितानि च ॥५५॥

सप्रासादानि रम्याणि कूटागारोत्कटानि च ।
सजलानिसमाख्यानि सावलोकनकानि च ॥५६॥

बद्धध्वजपताकानि स्वर्णरौप्यमयानि च ।
गृहाणि तस्मिंस्त्रिपुरे दानवानामुपद्रवे ॥
दह्यन्ते दहनाभानि दहनेन सहस्रशः ॥५७॥

प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च ।
वातायन गताश्चान्या चाकाशस्य तलेषु च ॥५८॥

रमणैरुपगूढ़ाश्च रमन्त्यो रमणैः सह ।
दद्यन्ते दानवेन्द्राणामग्निना ह्यपि ताः स्त्रियः ॥५९॥

काचित् प्रियं परित्यज्य अशक्ता गन्तुमन्यतः ।
पुरः प्रियस्य प़ञ्चत्वङ्गताग्नि वदनेक्षयम् ॥६०॥

उवाच शतपत्राक्षी सास्राक्षीव कृताञ्जलिः ।
हव्यवाहन! भार्याहं परस्य परतापन! ॥
धर्म्मसाक्षी त्रिलोकस्य न मां स्रष्टुमिहार्हसि ॥६१॥

शायितञ्च मया देव! शिवया च शिवप्रभ! ।
परेण प्रैहि मुक्त्वेदं गृहञ्च दयितं हि मे ॥६२॥

एका पुत्रमुपादाय बालकं दानवाङ्गना ।
हुताशनसमीपस्था इत्युवाच हुताशनम् ॥६३॥

बालोऽयं दुःखलब्धश्च मया पावक!पुत्रक ।
नार्हस्येनमुपादातुं दयितं षण्मुखप्रिय! ॥६४॥

काश्चित् प्रियान्परित्यज्य पीड़िता दानवाङ्गनाः ।
निपतन्त्यर्णवजले शिञ्जमानविभूषणाः ॥६५॥

तात पुत्रेति मातेति मातुलेति च विह्वलम् ।
चकम्पुस्त्रिपुरेनार्यः पावकज्वालवेपिताः ॥६६॥

यथा दहति शैलाग्निः साम्बुजं जलजाकरम् ।
तथा स्त्रीवक्त्रपद्मानि चादहत्त्रिपुरेऽनलः ॥६७॥

तुषारराशिः कमलाकराणां यथा दहत्यम्बुजकानि शीते ।
तथैव सोऽग्निस्रिपुराङ्गनानां ददाह वक्त्रेक्षणपङ्कजानि ॥६८॥

शराग्निपातात् समभिद्रुतानां तत्राङ्गनानामतिकोमलानाम् ।
बभूव काञ्चीगुणनूपुराणामाक्रन्दितानाञ्च रवोऽतिमिश्रः ॥६९॥

दग्धार्द्धचन्द्राणि स वेदिकानि विशीर्णहर्म्याणि सतोरणानि ।
दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे ॥७०॥

गृहः पतद्भिर्ज्वलनावलीढ़ेरासीत्‌समुद्रे सलिलं प्रतप्तम् ।
कुपुत्रदोषैः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य ॥७१॥

गृहप्रतापैः क्वथितं समन्तात्तदार्णवे तोयमुदीर्णवेगम् ।
वित्रासयामास तिमीन् सनक्रां स्तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान् ॥७२॥

सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सोऽथ ।
तैरेव सार्द्धं भवनैः पपात शब्दं महान्तं जनयन् समुद्रे ॥७३॥

सहस्रश्रृङ्गैर्भवनैर्यदासीत् सहस्रश्रृङ्गः स इवाचलेशः ।
नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारबलिप्रयुक्तम् ॥७४॥

प्रदह्यमानेन पुरेण तेन जगत्सपातालदिवं प्रतप्तम् ।
दुःखं महत्प्राप्य जलावमग्नं यस्मिन् महान् सौधवरो मयस्य ॥७५॥

तद्धेवेशोवचः श्रुत्वा इन्द्रो वज्रधरस्तदा ।
शशाप तद्‌गृहञ्चापि मयस्यादितिनन्दनः ॥७६॥

असेव्यमप्रतिष्ठञ्च भयेन च समावृतम् ।
भविष्यति मयगृहं नित्यमेव यथाऽनलः ॥७७॥

यस्य यस्य तु देशस्य भविष्यति पराभवः ।
द्रक्ष्यन्ति त्रिपुरं खण्डं तत्रेदं नाशगा जना ॥
तदेतदद्यापि गृहं मयस्यामयवर्जितम् ॥७८॥

ऋषय ऊचुः ।
भगवन्! स मयो येन गृहेण प्रपलायितः ।
तस्य नो गतिमाख्याहि मयस्य चमसोद्भव ॥७९॥

सूत उवाच ।
द्रृश्यते द्रृश्यते यत्र ध्रुवस्तत्र मयास्पदम् ।
देवद्विड् तु मयश्चातः स तदा खिन्नमानसः ॥
ततश्च्युतोऽन्यलोकेऽस्मिंन् त्राणार्थं वै चकार सः ॥८०॥

तत्रापि देवताः सन्ति आप्तोर्यामाः सुरोत्तमाः ।
तत्राशक्तं ततो गन्तुं तञ्चैकं पुरमुत्तमम् ॥८१॥

शिवः सृष्ट्वा गृहं प्रादान् मयञ्चैव गृहार्थिनम् ।
विरराम सहस्राक्षः पूजयामास चेश्वरम् ॥
पूज्यमानञ्च भूतेशं सर्वे तुष्टुवुरीश्वरम् ॥८२॥

संपूज्यमानं त्रिदशैः समीक्ष्य गणैर्गणेशाधिपतिन्तु मुख्यम् ।
हर्षाद्ववल्गुर्जहसुश्च देवा जग्मुर्ननर्दुस्तु विषाक्तहस्ताः ॥८३॥

पितामहं वन्द्य ततो महेशं प्रगृह्य चापं प्रविसृज्य भूतान् ।
रथाच्च सम्पत्य हरेषु दग्धं क्षिप्तं पुरं तन्मकरालये च ॥८४॥

य इमं रुद्र विजयं पठते विजयावहम् ।
विजयन्तस्य कृत्येषु ददाति वृषभध्वजः ॥८५॥

पितृणां वापि श्राद्धेषु य इमं श्रावयिष्यति ।
अनन्तं तस्य पुण्यं स्यात् सर्वयज्ञफलप्रदम् ॥८६॥

इदं स्वस्त्ययनं पुण्यमिदं पुंसवनं सहत् ।
इदं श्रुत्वा पठित्वा च यान्ति रुद्रसलोकताम् ॥८७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दोनी घरच्या सोयराक दोनीकडे जेवणना

  • (गो.) दोन घरचा पाहुणा उपाशी. 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site