TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९३

मत्स्यपुराणम् - अध्यायः १९३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १९३
नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम् ।

मार्कण्डेय उवाच ।
ततस्त्वनरकं गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र नरकञ्च न पश्यति॥१

तस्य तीर्थस्य माहात्म्यं श्रृणु त्वं पाण्डुनन्दन! ।
तस्मिंस्तीर्थे तु राजेन्द्र! यस्यास्थीनि विनिक्षिपेत् ॥२

विलयं यान्ति सर्वाणि रूपवान् जायते नरः ।
गोतीर्थन्तु ततो गत्वा सर्वपापात् प्रमुच्यते ॥३

ततो गच्छेत्तु राजेन्द्र कपिलातीर्थमुत्तमम् ।
तत्र गत्वा नरो राजन्! गोसहस्रफलं लभेत् ॥४

ज्यैष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ॥५

घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम् ।
सघृतं श्रीफलं जग्ध्वा दत्त्वा चान्ते प्रदक्षिणम् ॥६

घण्टाभरणसंयुक्तां कपिलां यः प्रयच्छति ।
शिवतुल्यबलो भूत्वा नैवासौ जायते पुनः ॥७

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
पूजयेत्तु शिवं भक्त्या ब्राह्मणेभ्यश्च भोजनम् ॥८

अङ्गारकनवम्यां तु अमायाञ्च विशेषतः ।
स्नापयेत्तत्र यत्नेन रूपवान् सुभगो भवेत्॥ १३३.९

घृतेन स्नापयेल्लिङ्गं पूजयेद् भक्तितो द्विजान् ।
पुष्पकेण विमानेन सहस्रैः परिवारितः ॥१०

शैवं पदमवाप्नोति यत्र चाभिमतं भवेत् ।
अक्षयं मोदते कालं यथा रुद्रस्तथैव सः ॥११

यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः ।
राजा भवति धर्मिष्ठो रूपवान् जायते कुले ॥१२

ततो गच्छेच्च राजेन्द्र! ऋषितीर्थमनुत्तमम् ।
तृणबिन्दुर्नाम ऋषिः पापदग्धो व्यवस्थितः ॥१३

तत्तीर्थस्य प्रभावेण शापमुक्तोऽभवद्द्विजः ।
तथा गच्छेत्तु राजेन्द्र! गङ्गेश्वरमनुत्तमम् ॥१४

श्रावणे तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥१५

पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥१६

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥१७

तत्र तीर्थे नरः स्नात्वा व्रजेद्वै यत्र शङ्करः ।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ॥१८

पितॄणां तर्पणं कृत्वा ह्यश्वमेधफलं लभेत् ।
प्रयागे यत् फलं दृष्टं शङ्करेण महात्मना ॥१९

तदेव निखिलं दृष्टं गङ्गावदनसङ्गमे ।
तस्यैव पश्चिमे स्थाने समीपे नातिदूरतः ॥२०

दशाश्वमेधजननं त्रिषु लोकेषु विश्रुतम् ।
उपोष्य रजनीमेकां मासि भाद्रपदे तथा ॥२१

अमायाञ्च नरः स्नात्वा व्रजते यत्र शङ्करः ।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ॥२२

पितॄणां तर्पणं कृत्वा चाश्वमेधफलं लभेत् ।
दशाश्वमेधात् पश्चिमतो भृगुर्ब्राह्मणसत्तमः ॥२३

दिव्यं वर्षसहस्रन्तु ईस्वरं पर्युपासत ।
वल्मीकवेष्टितश्चासौ पक्षिणाञ्च निकेतनः ॥२४

आश्चर्यं सुमहज्जातमुमायाः शङ्करस्य च ।
गौरी पप्रच्छ देवेशं कोऽयमेवन्तु संस्थिता(तः) ॥२५

देवो वा दानवो वाथ कथयस्व महेश्वर! ।
महेश्वर उवाच ।
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः ॥२६

मान्ध्यायते समाधिस्थो वरं प्रार्थयते प्रिये! ।
ततः प्रहसिता देवी ईश्वरं प्रत्यभाषत॥२७

धूमवत्तच्छिखाजाता ततोऽद्यापि न तुष्यसे ।
दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा ॥२८

महेश्वर उवाच ।
न जानासि महादेवि ह्ययं क्रोधेन वेष्टितः ।
दर्शयामि यथातथ्यं प्रत्ययं ते करोम्यहम् ॥२९

ततः स्मृतोऽथ देवेन धर्म्मरूपो वृषस्तदा ।
स्मरणात्तस्य देवस्य वृषः शीघ्रमुपस्थितः ॥३०

वदंस्तु मानुषीं वाचमादेशो दीयतां प्रभो! ।
वल्मीकं त्वं खनस्वैनं विप्रं भूमौ निपातय ॥३१

योगस्थस्तु ततो ध्यायन् भृगुस्तेन निपातितः ।
तत्क्षणात् क्रोधसन्तप्तो हस्तमुत्क्षिप्य सोऽशपत् ॥३२

एवं स भाषमाणस्तु कुत्र गच्छसि भो वृष! ।
अद्याहं संप्रकोपेन प्रलयं त्वान्नये वृष! ॥३३

धर्षितस्तु तदा विप्रश्चान्तरिक्षङ्गतो वृषम् ।
आकाशे प्रेक्षते विप्र एतदद्भुतमुत्तमम् ॥३४

तत्र प्रहसिते रुद्र ऋषिरग्रे व्यवस्थितः ।
तृतीयलोचनं दृष्ट्वा वैलक्ष्यात् पतितो भुवि ॥३५

प्रणम्य दण्डवद् भूमौ तुष्टाव परमेश्वरम् ।
प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम्
भवातीतो भुवनपते प्रभो! तु विज्ञापये किञ्चित् ॥३६

त्वद्गुणनिकरान् वक्तुं कः शक्तो भवति मानुषो नाम ।
वासुकिरपि हि कदाचिद्वदनसहस्रं भवेद्यस्य ॥३७

भक्त्या तथापि शङ्कर भुवनपते! त्वत्सुतो मुखरः ।
वदतः क्षमस्व भगवन्! प्रसीद मे तव चरणपतितस्य ॥३८

सत्वं रजस्तमस्त्वं स्थित्युत्पत्योर्विनाशने देव! ।
त्वां मुक्त्वा भुवनपते! भुवनेश्वर नैव दैवतं किञ्चित् ॥३९

यमनियमयज्ञदानवेदाभ्यासाश्च धारणा योगः ।
त्वद्भक्तेः सर्वमिदं नार्हति हि कलासहस्रांशम् ॥४०

उच्छिष्टरसरसायनखड्गाजनपादुका विवरसिद्धिर्वा ।
चिह्नं भवव्रतानां दृश्यति चेह जन्मनि प्रकटम् ॥४१

शाठ्येन नमति यद्यपि ददासि त्वं भूतिमिच्छतो देव! ।
भक्तिर्भवभेदकरी मोक्षाय विनिर्मिता नाथ ॥४२

परदारपरस्वरतं परपरिभवदुःखशोकसन्तप्तम् ।
परवदनवीक्षणपरं परमेश्वर! । मां परित्राहि ॥४३

मिथ्याभिमानदग्धं क्षणभङ्गुरविभवविलसन्तम् ।
क्रूरं कुपथ्याभिमुखं पतितं मां पाहि देवेश! ॥४४

दीने द्विजगणसार्थे बन्धुजनेनैव दूषिता ह्याशा ।
तृष्णा तथाऽपि शङ्कर! किं मूढ़ं मां विडम्बयति ॥४५

तृष्णा हरस्व शीघ्रं लक्ष्मीं प्रदस्व यावदासिनीं नित्यम् ।
छिन्धि मदमोहपाशानुत्तारय मां महादेव! ॥४६

करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम् ।
यः पठति भक्तियुक्तस्तस्य तुष्येत् भृगोर्यथा च शिवः ॥४७

ईश्वर उवाच ।
अहं तुष्टोऽस्मि ते वत्स! प्रार्थयस्वेप्सितं वरम् ।
उमया सहितो देवो वरं तस्य ह्यदापयत् ॥४८

भृगुरुवाच ।
यदि तुष्टोसि देवेश! यदि देयो वरो मम ।
रुद्रवेदी भवेदेवमेतत्सम्पादयस्व मे ॥४९

ईश्वर उवाच ।
एवं भवतु विप्रेन्द्र! क्रोधस्त्वा न भविष्यति ।
न पितापुत्रयोश्चैव त्वैकमत्यं भविष्यति ॥५०

तदा प्रभृति ब्रह्माद्या सर्वदेवाः सकिन्नराः ।
उपासन्ते भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ॥५१

दर्शनात्तस्य तीर्थस्य सद्यः पापत् प्रमुच्यते ।
अवशाः स्ववशा वापि म्रियन्ते यत्र मानवाः ॥५२

गुह्यातिगुह्यासु गतिस्तेषां निःसंशयं भवेत् ।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥५३

तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ।
उपानहौच छत्रञ्च देवमन्नञ्च काञ्चनम् ॥५४

भोजनञ्च यथाशक्त्या ह्यक्षयञ्च तथा भवेत् ।
सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया ॥५५

दीयमानस्तु तद्दानमक्षयं तस्य तद् भवेत् ।
चन्द्रसूर्योपरागेषु यत् फलं त्वमरकण्टके ॥५६

तदेव निखिलं पुण्यं भृगुतीर्थे न संश्यः ।
क्षरन्ति सर्वदानानि यज्ञदानतपः क्रियाः ॥५७

न क्षरेत्तु तपस्तप्तं भृगुतीर्थे युधिष्ठिरः ।
यस्य वै तपसोग्रेण तुष्टेनैव तु शम्भुना ॥५८
सान्निध्यं तत्र कथितं भृगुतीर्थे नराधिप! ।
प्रख्यातं त्रिषु लोकेषु यत्र तुष्टो महेश्वरः ॥५९

एवं तु वदतो देवीं भृगुतीर्थमनुत्तमम् ।
न जानन्ति नरा मूढा विष्णुमाया विमोहिताः ॥६०

नर्म्मदायां स्थितं दिव्यं भृगुतीर्थं नराधिप! ।
भृगुतीर्थस्य माहात्म्यं यः श्रृणोति नरः क्वचित् ॥६१

विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ।
ततो गच्छेत्तु राजेन्द्र! गौतमेश्वरमुत्तमम् ॥६२

तत्र स्नात्वा नरो राजन्नुपवासपरायणः ।
काञ्चनेन विमानेन ब्रह्मलोके महीयते ॥६३

धौतपापं ततो गच्छेत् क्षेत्रं यत्र वृषेण तु ।
नर्म्मदायां कृतं राजन्! सर्वपातकनाशनम् ॥६४

तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां विमुञ्चति ।
तस्मिंस्तीर्थे तु राजेन्द्र! प्राणत्यागं करोति यः ॥६५

चतुर्भुजस्त्रिनेत्रश्च शिवतुल्यबलो भवेत् ।
वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ॥६६

कालेनमहता प्राप्तः पृथिव्यामेकराट् भवेत् ।
ततो गच्छेच्च राजेन्द्र! ऐरण्डी तीर्थमुत्तमम् ॥६७
प्रयागे यत् फलं दृष्टं मार्कण्डेयेन भाषितम् ।
तत् फलं लभते राजन्! स्नातमात्रो हि मानवः ॥६८

मासि भाद्रपदे चैव शुक्लपक्षे चतुर्दशी ।
उपोष्य रजनीमेकां तस्मिन् स्नानं समाचरेत् ॥६९

यमदूतैर्न बाध्येत रुद्रलोकं स गच्छति ।
ततो गच्छेत्तु राजेन्द्र! सिद्धो यत्र जनार्दनः ॥७०

हिरण्यदीपेति विख्यातं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरो राजन्! धनवान् रूपवान् भवेत् ॥७१

ततो गच्छेत्तु राजेन्द्र! तीर्थङ्कनखलं महत् ।
गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ॥७२

प्रख्यातं त्रिषु लोकेषु योगिनी तत्र तिष्ठति ।
क्रीडते योगिभिः सार्द्धं शिवेन सह नृत्यति ॥७३

तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते ।
ततो गच्छेत्तु राजेन्द्र! हंसतीर्थमनुत्तमम् ॥७४

हंसास्तत्र विनिर्मुक्ता गता ऊद्‌र्ध्वं न संशयः ।
ततो गच्छेत्तु राजेन्द्र! सिद्धो यत्र जनार्दनः ॥७५

वाराहं रुपमास्थाय अर्चितः परमेश्वरः ।
वराहतीर्थे नरः स्नात्वा द्वादश्यान्तु विशेषतः ॥७६

विष्णुलोकमवाप्नोति नरकं न च पश्यति ।
ततो गच्छेत्तु राजेन्द्र! चन्द्रदीर्थमनुत्तमम् ॥७७

पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते ॥७८

दक्षिणेन तु तीरेण कन्यातीर्थन्तु विश्रुतम् ।
शुक्लपक्षे तृतीयायां स्नानं तत्र समारेत् ॥७९

प्रणिपत्य तु चेशानं बलिस्तेन प्रसीदति ।
हरिश्चन्द्रपुरं दिव्यमन्तरिक्षे च दृश्यते ॥८०

शक्रध्वजे समावृत्ते सुप्ते नागरिके जने ।
नर्मदा सलिलौघेन तरून् संप्लावयिष्यति ॥८१

अस्मिन् स्थाने निवासः स्यात् विष्णुः शङ्करमब्रबीत् ।
दीपेश्वरे नरः स्नात्वा लभेद् बहु सुवर्णकम् ॥८२

ततो गच्छेत्तु राजेन्द्र! कन्यातीर्थे सुसङ्गमे ।
स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात् ॥८३

देवतीर्थं ततो गच्छेत् सर्वतीर्थमनुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र! दैवतैः सह मोदते ॥८४

ततो गच्छेच्च राजेन्द्र! शिखि तीर्थमनुत्तमम्‍ ।
यत्तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ॥८५

अपरपक्षे त्वमायान्तु स्नानं तत्र समाचरेत् ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥८६

भृगुतीर्थन्तु राजेन्द्र! तीर्थकोटिर्व्यवस्थिता ।
आकामो व सकामो वा तत्र स्नानं समाचरेत् ॥८७

अश्वमेधमवाप्नोति दैवतैः सह मोदते ।
तत्र सिद्धिं परां प्राप्तो भृगुस्तु मुनिपुङ्गवः ।
अवतारः कृतस्तत्र शङ्करेण महात्मना ॥८८

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:55.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

igneoaqueous

  • अग्निजलीय 
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.