TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७२

मत्स्यपुराणम् - अध्यायः १७२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १७२
विष्णोः प्रादुर्भाव वर्णनम् ।
मत्स्य उवाच ।
विष्णुत्वं श्रृणु विष्णोश्च हरित्वञ्च कृते युगे ।
वैकुण्ठत्वञ्च देवेषु कृष्णत्वं मानुषेषु च ॥१॥

ईश्वरस्य हितस्यैषा कर्म्मणां गहनागतिः ।
संप्रत्यतीतान् भव्यांश्च श्रृणु राजन्! यथातथम् ॥२॥

अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः ।
नारायणोह्यनन्तात्मा प्रभवोऽव्यय एव च ॥३॥

एष नारायणो भूत्वा हरिरासीत् सनातनः ।
ब्रह्मा वायुश्च सोमश्च धर्म्मः शक्रो बृहस्पतिः ॥४॥

अदितेरपि पुत्रत्वं समेत्य रविनन्दन! ।
एष विष्णुरितिख्यात इन्द्रस्यावरजो विभुः ॥५॥

प्रसादजं ह्यस्य विभोरदित्याः पुत्रकारणम् ।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥६॥

प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः ।
सोऽसृजत् पूर्वपुरुषः पुराकल्पे प्रजापतीन् ॥७॥

असृजन्मानवांस्तत्र ब्रह्मवंशाननुत्तमान् ।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥८॥

एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम् ।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥९॥

वृत्ते वृत्रवधे तत्र वर्तमाने कृते युगे ।
आसीत्त्रैलोक्य विख्यातः संग्रामस्तारकामयः ॥१०॥

यत्र ते दानवा घोराः सर्वे संग्रामदुर्जयाः ।
घ्नन्तिदेवगणान् सर्वान् सयक्षोरगराक्षसान् ॥११॥

ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुः ॥१२॥

एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः ।
सार्कचन्द्रग्रहगणं छादयन्तोः नभस्तलम् ॥१३॥

वेणुर्विद्युद् गणोपेता घोरनिह्राद कारिणः ।
अन्योन्य- वेगांभिहताः प्रववुः सप्त मारुताः ॥१४॥

दीप्त तोयाशनिघनैर्वज्रवेगानलानिलैः ।
रवैः सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम् ॥१५॥

तत उल्कासहस्राणि निपेतुः खगतान्यपि ।
दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥१६॥

चतुर्युगान्ते पर्याये लोकानां यद्भयं भवेत् ।
अरूपवन्ति रूपाणि तस्मिन्नुत्पात लक्षणे ॥१७॥

जातञ्च निष्प्रभं सर्वं न प्राज्ञायत किञ्चन ।
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥१८॥

विवेश रूपिणी काली कालमेघावगुण्ठिता ।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥१९॥

तान् घनौघान् सतिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः ।
वपुः सर्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः ॥२०॥

बलाहकाञ्जनमिमं बलाहकतनूरुहम् ।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥२१॥

दीप्ता पीताम्बरधरं तप्तकाञ्चन भूषणम् ।
धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम् ॥२२॥

चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्द्धजम् ।
बभौ चामीरप्रख्यै रायुधैरुपशोभितम् ॥२३॥

चन्द्रार्क किरणोद्योतं गिरिकूटमिवोच्छ्रितम् ।
नन्दकानन्दितकरं शराशी विष धारिणम् ॥२४॥

शक्तिचित्रफलोदग्र शङ्ख चक्र गदाधरम् ।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ॥२५॥

त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम् ।
सर्वलोकमनः कान्तं सर्वसत्वमनोहरम् ॥२६॥

नानाविमानविटपन्तोयदाम्बु मधुस्रवम् ।
विद्याहङ्कारसाराद्यं महाभूत प्ररोहणम् ॥२७॥

विशेषपत्रैर्निचितं ग्रहनक्षत्र पुष्पितम् ।
दैत्यलोकमहास्कन्धं मर्त्यलोके प्रकाशितम् ॥२८॥

सागराकारनिर्हादं रसातल महाश्रयम् ।
मृगेन्द्रपाशैर्विततं पक्षजन्तु निषेवितम् ॥२९॥

शीलार्थ चारु गन्धाढ्यं सर्वलोकमहाद्रुमम् ।
अव्यक्तानन्तसलिलं व्यक्ताहङ्कारफेनिलम् ॥३०॥

महाभूततरङ्गौघं ग्रहनक्षत्र बुद्बुदम् ।
विमानगरुतव्याप्तं तोयदाडम्बरा कुलम् ॥३१॥

जन्तुमत्सजनाकीर्णं शैल शङ्ख कुलैर्युतम् ।
त्रैगुण्यविषयावर्तं सर्वलोक तिमिङ्गिलम् ॥३२॥

वीरवृक्षलतागुल्मं भुजगोत्कृष्ट शैवलम् ।
द्वादशार्कमहाद्वीपं रुद्रैकादश पत्तनम् ॥३३॥

वस्वष्ट पर्वतोपेतं त्रैलोक्याम्भो महोदधिम् ।
सन्ध्या सङ्ख्योर्मि सलिलं सुपर्णानिल सेवितम् ॥३४॥

दैत्यरक्षोगणग्राहं यक्षोरग झषाकुलम् ।
पितामहमहावीर्य्यं सर्वस्त्री रत्नशोभितम् ॥३५॥

श्रीर्कीर्तिकान्तिलक्ष्मीभिर्नदीभिरुपशोभितम् ।
कालयोगि महापर्व प्रलयोत्पत्ति वेगिनम् ॥३६॥

तन्तु योगमहापारं नारायणमहार्णवम् ।
देवाधिदेवं वरदं भक्तानां भक्ति वत्सलम् ॥३७॥

अनुग्रहकरं देवं प्रशान्तिकरणं शुभम् ।
हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते ॥३८॥

ग्रहचन्द्रार्करचिते मन्दराक्ष-वरावृते ।
अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे ॥३९॥

तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ।
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ॥४०॥

ददृशुस्तेस्थितं देवं दिव्ये लोकमये रथे ।
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ॥४१॥

जयशब्दं पुरस्कृत्य शरण्यं शरणङ्गताः ।
स तेषां ताङ्गिरं श्रुत्वा विष्णुर्दैवत दैवतम् ॥४२॥

मनश्चक्रे विनाशाय दानवानां महामृधे ।
आकाशे तु स्थितो विष्णुरुत्तमं वपुरास्थितः ॥४३॥

उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ।
शान्तिं व्रजत भद्रं वो मा भैष्ट मरुताङ्गणाः ॥४४॥

जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम् ।
ते तस्य सत्यसन्धस्य विष्णोर्वाक्येन तोषिताः ॥४५॥

देवाः प्रीतिं समाजग्मुः प्राश्यामृतमनुत्तमम् ।
ततस्तमः संहृतं तद्विनेशुश्च बलाहकाः ॥४६॥

प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश ।
शुद्धप्रभाणि ज्योतींषि सोमञ्चक्रुः प्रदक्षिणम् ॥४७॥

न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः ।
विरजस्का भवन्मार्गा नाकवर्गादयस्त्रयः ॥४८॥

यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।
आसंश्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥४९॥

महर्षयो वीतशोका वेदानुच्चैरधीयत ।
यज्ञेषु च हविः पाकं शिवमाप च पावकः ॥५०॥

प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।
विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारि-निधने गिरम् ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:53.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सौंदरी

  • स्त्री. ( व .) मीठ . अगोदर सौंदरी वाढा . [ सिंधु ] 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site