TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४६

मत्स्यपुराणम् - अध्यायः १४६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १४६
तारकाख्यानवर्णनम् ।

ऋषय ऊचुः ।
कथं मत्स्येन कथितस्तारकस्य वधो महान्  ।
कस्मिन् काले विनिर्वृत्ता कथेयं सूतनन्दन! ॥१॥

त्वन्मुखक्षीरसिन्धूत्था कथेयममृतात्मिका  ।
कर्णाभ्यां पिबतां तृप्तिरस्माकं न प्रजायते ॥२॥

इदं मुने! समाख्याहि महाबुद्धे! मनोगतम् ॥
सूत उवाच ।
पृष्टस्तु मनुना देवो मत्स्यरूपी जनार्दनः ॥३॥

कथं शरवने जातो देवः षड्‌वदनो विभो! ।
एतत्तु वचनं श्रुत्वा पार्थिवस्यामितौजसः ॥४॥

उवाच भगवान् प्रीतो ब्रह्मसूनुर्महामतिम् ।
मत्स्य उवाच ।
वज्राङ्गो नाम दैत्योऽभूत् तस्य पुत्रस्तु तारकः ॥५॥

सुरानुद्वासयामास पुरेभ्यः स महाबलः ।
ततस्ते ब्रह्मणोऽभ्यासं जाग्मुर्भयनिपीडिताः ॥६॥

भीताश्च त्रिदशात् द्रृष्ट्वा ब्रह्मा तेषामुवाच ह ।
सन्त्यज्यध्वं भयं देवाः! शङ्करस्यात्मजः शिशुः ॥७॥

तुहिनाचलदौहित्रस्तं हनिष्यति दानवम् ।
ततः काले तु कस्मिंश्चिद्दृष्ट्वा वै शैलजां शिवः ॥८॥

स्वरेतो वह्निवदने व्यसृजत्कारणान्तरे ।
तत्प्राप्तं वह्निवदने रेतो देवानतर्पयत् ॥९॥

विदार्य जठराण्येषामजीर्णं निर्गतं मुने! ।
पतितं तत्सरिद्वारे ततस्तु शरकानने ॥१०॥

तस्मात्तु स समुद्‌भूतो गुहो दिनकरप्रभः ।
स सप्तदिवसो बालो निजघ्ने तारकासुरम् ॥११॥

एवं श्रुत्वा ततो वाक्यं तमूचुर्ऋषिसत्तमाः ।
ऋषय ऊचुः ।
अत्याश्चर्यवती रम्या कथेयं पापनाशिनी ॥१२॥

विस्तरेण हि नो ब्रूहि यथातथ्येन श्रृण्वताम् ।
वज्राङ्गो नाम दैत्येन्द्रः कस्य वंशोद्भवः पुरा ॥१३॥

तस्याभूत्तारकः पुत्रः सुरप्रमथनो बली ।
निर्मितः को वधे चाभूत्तस्यः दैत्येश्वरस्य तु ॥१४॥

गुहजन्म तु कात्र्स्न्येन अस्माकं ब्रूहि मानद! ॥
सूत उवाच ।
मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः ॥१५॥

षष्टिं सोऽजनयत्कान्या वैरिण्यामेव नः श्रुतम् ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥१६॥

सप्तविंशति सोमाय चतस्रोऽरिष्टनेमये ।
द्वौ वौ बाहुकपुत्राय द्वौ चान्येऽङ्गिरसे तथा ॥१७॥

द्वे कृशाश्वाय विदुषे प्रजापतिसुतः प्रभुः ।
अदितिर्दितिर्दनुर्विश्वा ह्यरिष्टा सुरसा तथा ॥१८॥

सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कर्द्रूर्मुनिश्च लोकस्य मातरो गोषु मातरः ॥१९॥

तासां सकाशाल्लोकानां जङ्गमस्थावरात्मनाम् ।
जन्म नाना प्रकाराणां ताभ्योऽन्ये देहिनः स्मृताः ॥२०॥

देवेन्द्रोपेन्द्रपूजाद्याः सर्वेते दितिजा मताः ।
दितेः सकाशाल्लोकास्तु हिरण्यकशिपादयः ॥२१॥

दानवाश्च दनोः पुत्रा गावश्च सुरभीसुताः ।
पक्षिणो विनतापुत्रागरुड़प्रमुखाः सुताः ॥२२॥

नागाः कद्रूसुता ज्ञेयाः सेषाश्चान्येऽपि जन्तवः ।
त्रैलोक्यनाथं शक्रन्तु सर्वामरगणप्रभुम् ॥२३॥

हिरण्यकशिपुश्चक्रे नीत्वा राज्यं महाबलः ।
ततः केनापि कालेन हिरण्यकशिपादयः ॥२४॥

निहता विष्णुना सङ्ख्ये शेषाश्चेन्द्रेण दानवाः ।
ततो निहतपुत्राभूद्दितिर्वरमयाचत ॥२५॥

भर्त्तारं कश्यपं देवं पुत्रमन्यं महाबलम् ।
समरे शक्रहन्तारं स तस्या अददात् प्रभुः ॥२६॥

नियमे वर्त हे देवि! सहस्रं शुचिमानसा ।
वर्षाणां लप्स्यसे पुत्रमित्युक्ता सा तथा करोत् ॥२७॥

वर्त्तन्त्या नियमे तस्याः सहस्राक्षः समाहितः ।
उपासामाचरत्तस्याः सा चैनमन्वमन्यत ॥२८॥

दशसम्वत्सरशेषस्य सहस्रस्य तदा दितिः ।
उवाच शक्रं सुप्रीता वरदा तपसि स्थिता ॥२९॥

दितिरुवाच ।
पुत्रोत्तीर्णव्रतां प्रायः विद्धि मां पाकशासन! ।
भविष्यति च ते भ्राता तेन सार्द्धमिमां श्रियम् ॥३०॥

भुङ्‌क्ष्व वत्स! यथाकामं त्रैलोक्यं हतकण्टकम् ।
इत्युक्त्वा निद्रयाविष्टा चरणाक्रान्तमूर्द्धजाः ॥३१॥

स्वयं सुष्वापनियता भाविनोऽर्थस्य गौरवात् ।
तत्तु रन्ध्रं समासाद्य जठरं पाकशासनः ॥३२॥

चकार सप्तधा गर्भं कुलिशेन तु देवराट् ।
एकैकन्तु पुनः खण्डं चकार मघवा ततः ॥३३॥

सप्तधा सप्तधा कोपात् प्रबुध्यत ततोऽदितिः ।
विबुध्योवाच मा शक्र! घातयेथाः प्रजां मम ॥३४॥

तच्छ्रुत्वा निःर्गतः शक्रः स्थित्वा प्राञ्जलिरग्रतः ।
उवाच वाक्यं सन्त्रस्तो मातुर्वै वदनेरितम् ॥३५॥

शक्र उवाच ।
दिवा स्वप्नपरा मातः! पादाक्रान्तशिरोरुहा ।
सप्त सप्तभिरेवातस्तव गर्भः कृतो मया ॥३६॥

एकोनपञ्चाशत्‌ कृता भागा वज्रेण ते सुताः ।
दास्यामि तेषां स्थानानि दिवि दैवतपूजिते ॥३७॥

इत्युक्ता सा तदा देवी सैवमस्त्वित्यभाषत ।
पुनश्च देवी भर्तारमुवाचासितलोचना ॥३८॥

पुत्रं प्रजापते! देहि शक्रजेतारमूर्जितम् ।
यो नास्त्रशस्त्रैर्बध्यत्वं गच्छेत्‌ त्रिदिववासिनाम् ॥३९॥

इत्युक्तः स तथोवाच तां पत्नीमतिदुःखिताम् ।
दशवर्षसहस्राणि तपः कृत्वा तु लप्स्यसे ॥४०॥

वज्रसारमयैरङ्गैरच्छेद्यैरायसैर्द्रृढ़ैः ।
वज्राङ्‌गो नाम पुत्रस्ते भविता पुत्रवत्सले! ॥४१॥

सा तु लब्धवरा देवी जगाम तपसे वनम् ।
दशवर्षसहस्राणि सा तपो घोरमाचरत् ॥४२॥

तपसोऽन्ते भगवती जनयामास दुर्जयम् ।
पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम् ॥४३॥

सजातस्तत्र एवाभूत् सर्वशस्त्रास्त्रपारगः ।
उवाच मातरं भक्त्या मातः! किङ्करवाण्यहम् ॥४४॥

तमुवाच ततो हृष्टा दितिर्दैत्याधिपञ्च सा ।
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक! ॥४५॥

तेषां त्वं प्रतिकर्तुं वै गच्छ शक्रवधाय च ।
बाढ़मित्येव तामुक्त्वा जगाम त्रिदिवं बली ॥४६॥

बद्‌ध्वा ततः सहस्राक्षं पाशेनामोघवर्चसाः ।
मातुरन्तिकमागच्छद्व्याघ्रः क्षुद्रमृगं यथा ॥४७॥

एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः ।
आगतो तत्र यत्रास्तां मातापुत्रावभीतकौ ॥४८॥

द्रृष्ट्वा तु तमुवाचेदं ब्रह्मा कश्यप एव च ।
मुञ्चैनं पुत्र! देवेन्द्रं किमनेन प्रयोजनम् ॥४९॥

अपमानो वधः प्रोक्तः पुत्रसम्भावितस्य च ।
अस्मद्वाक्येन यो मुक्तो विद्धि तं मृतमेव च ॥५०॥

परस्य गौरवान् मुक्तः शत्रूणां भारमावहेत् ।
जीवन्नेव मृतो वत्स! दिवसे दिवसे स तु ॥५१॥

महतां वशमायाते वैरं नैवास्ति वैरिणि ।
एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रव्रीत् ॥५२॥

न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया ।
त्वं सुरासुरनाथो वै मम च प्रपितामहः ॥५३॥

करिष्ये त्वद्वचो देव! एष मुक्तः शतक्रतुः ।
तपसे मे रतिर्देव! निर्विघ्नं चैव मे भवेत् ॥५४॥

त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम सः ।
तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः ॥५५॥

ब्रह्मोवाच ।
तपस्त्वं क्रूरमापन्नो अस्मच्छासनसंस्थितः ।
अनया चित्तशुद्ध्या ते पर्याप्तं जन्मनः फलम् ॥५६॥

इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम् ।
तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसम्भवः ॥५७॥

वराङ्गेति च नामास्याः कृत्वा यातः पितामहः ।
वज्राङ्गोऽपि तया सार्द्धं जगाम तपसे वनम् ॥५८॥

ऊद्‌र्ध्वं बाहुः स दैत्येन्द्रोऽचरदब्द सहस्रकम् ।
कालं कमलपत्राक्षः शुद्ध बुद्धिर्महातपाः ॥५९॥

तावच्चावाङ्‌मुखः कालं तावत् पञ्चाग्निमध्यगः ।
निराहारो घोरतपाः तपोराशिरजायत ॥६०॥

ततः सोऽन्तर्जले चक्रे कालं वर्षसहस्रकम् ।
जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता ॥६१॥

तस्यैव तीरे सरसस्तपस्यन्ती मौनमास्थिता ।
निराहारा तपो घोरं प्रविवेश महाद्युतिः ॥६२॥

तस्यां तपसि वर्त्तन्त्यामिन्द्रश्चक्रे विभीषिकाम् ।
भूत्वा तु मर्कटस्तत्र तदाश्रमपदं महत् ॥६३॥

चक्रे विलोलं निः शेषं तुम्वी घटकरण्डकम् ।
ततस्तु मेषरूपेण कम्पं तस्याकरोन्महान् ॥६४॥

ततो भुजङ्गरूपेण बध्वा च चरणद्वयम् ।
अपकृष्टा ततो दूरं भ्रमंस्तस्या महीमिमाम् ॥६५॥

तपो बलाढ्या सा तस्य न वध्यत्वं जगाम ह ।
ततो गोमायुरूपेण तस्या दूषयदाश्रमम् ॥६६॥

ततस्तु मेघरूपेण तस्याः क्लेदयदाश्रमम् ।
भीषिकाभिरनेकाभिस्तां क्लिश्यन् पाकशासनः ॥६७॥

विरराम यदा नैवं वज्राङ्गमहिषी तदा ।
शैलस्य दुष्टतां मत्वा शापन्दातुं व्यवस्थिता ॥६८॥

स शापाभिमुखां द्रृष्ट्वा शैलः पुरुषविग्रहः ।
उवाच तां वरारोहां वराङ्गीं भीरुचेतनः ॥६९॥

नाहं वराङ्गने! दुष्टः सेव्योऽहं सर्वदेहिनाम् ।
विभ्रमन्तु करोत्येष रुषितः पाकशासनः ॥७०॥

एतस्मिन्नन्तरे जातः काल वर्षसहस्रिकः ।
तस्मिन् गते तु भगवान् काले कमलसम्भवः ।
तुष्टः प्रोवाच वज्राङ्गं तमागम्य जलाश्रयम् ॥७१॥

ब्रह्मावाच ।
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन! ।
एवमुक्तस्तदोत्थाय दैत्येन्द्रस्तपसां निधिः ॥
उवाच प्राञ्जलिर्वाक्यं सर्वलोक पितामहम् ॥७२॥

वज्राङ्ग उवाच ।
आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः ।
तपस्येव रतिर्मेऽस्तु शरीरस्यास्तु वर्तनम् ॥७३॥

एवमस्त्विति तन्देवो जगाम स्वकमालयम् ।
वज्राङ्गोऽपि समाप्ते तु तपसि स्थिरसंयमः ॥७४॥

आहारमिच्छन् भार्यां स्वान्न ददर्शाश्रमे स्वके ।
क्षुधाविष्टः स शैलस्य गहनम्प्रविवेश ह ॥७५॥

आदातुं फलमूलानि स च तस्मिन्‌ व्यलोकयत् ।
रुदन्तीं तां प्रियां दीनां तनुप्रच्छादिताननाम् ॥७६॥

तां विलोक्य स दैत्येन्द्रः प्रोवाच परिसान्त्वयन् ।

वज्राङ्ग उवाच ।
केन तेऽपकृतं भीरु! यमलोकं यियासुना ॥७७॥
कम्वा कामं प्रयच्छामि शीघ्रं मे ब्रूहि मानिनि! ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Allotted grant

  • तरतूद केलेले अनुदान 
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.