संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०६

मत्स्यपुराणम् - अध्यायः १०६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


युधिष्ठिर उवाच ।
यथा यथा प्रयागस्य माहात्म्यं कथ्यते त्वया ।
तथा तथा प्रमुच्येऽहं सर्वपापैर्न संशयः ॥१॥

भगवन्! केन विधिना गन्तव्यं धर्म्मनिश्चयैः ।
प्रयागे यो विधिः प्रोक्तस्तन्मे ब्रूहि महामुने! ॥२॥

मार्कण्डेय उवाच ।
कथयिष्यामि ते राजन्! तीर्थयात्राविदिक्रमम् ।
आर्षेण विधिनानेन यथा द्रृष्टं यथाश्रुतम् ॥३॥

प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् ।
बलीवर्दसमारूढ श्रृणु तस्यापि यत्फलम् ॥४॥

नरके वसते घोरे गवां क्रोष्टा हि दारुणे ।
सलिलं न च गृह्णन्ति पितरस्तस्य देहिनः ॥५॥

यस्तु पुत्रांस्तथा बालान् स्नापयेत्पाययेत्तया ।
यथात्मना तथा सर्वं दानं विप्रेषु दापयेत् ॥६॥

ऐश्वर्यलोभमोहाद्वा गच्छेद्यानेन यो नरः ।
निष्फलं तस्य तत्सर्वं तस्माद्यानं विवर्जयेत् ॥७॥

गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ।
आर्षैणैव विवाहेन यथा विभवसम्भवम् ॥८॥

न स पश्यति तं घोरं नरकं तेन कर्म्मणा ।
उत्तरान् स कुरून् गत्वा मोदते कालमक्षयम् ॥
पुत्रान्दारांश्च लभते धार्मिकान् रूपसंयुतान् ॥९॥

तत्र दानं प्रकर्त्तव्यं यथा विभवसम्भवम् ।
तेन तीर्थफलञ्चैव वर्धते नात्र संशयः ॥
स्वर्गे तिष्ठति राजेन्द्र! यावदाभूतसंप्लवम् ॥१०॥

वटमूलं समासाद्य यस्तु प्राणान् विमुञ्चति ।
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥११॥

तत्र ते द्वादशादित्यास्तपन्ति रुद्रसंश्रिताः ।
निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते ॥१२॥

नष्टचन्द्रार्कभुवनं यदा चैकार्णवं जगत् ।
स्थीयते तत्र वै विष्णुर्यजमानः पुनः पुनः ॥१३॥

देवदानवागन्धर्वा ऋषयः सिद्धचारणाः ।
सदा सेवन्ति तत्तीर्थं गङ्गायमुनसङ्गमम् ॥१४॥

ततो गच्छेत राजेन्द्र! प्रयागं संस्तुवंश्च यत् ।
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥१५॥

लोकपालाश्च साध्याश्च पितरो लोकसंमताः ।
सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥१६॥

अङ्गिरः प्रमुखाश्चैव तथा ब्रह्मर्षयः परे ।
तथा नागाः सुपर्णाश्च सिद्धाश्चक्रधरास्तथा ॥१७॥

सागराः सरितः शैला नागा विद्याधराश्च ये ।
हरिश्च भगवानास्ते प्रजापतिपुरः सरः ॥१८॥

गङ्गायमुनमोर्मध्ये पृथिव्या जघनं स्मृतम् ।
प्रयागं राजशार्दूल त्रिषु लोकेषु भारत! ॥१९॥

श्रवणात्तस्य तीर्थस्य नामसंकीर्त्तनादपि ।
मृत्तिकालम्भनाद्वापि नरः पापात् प्रमुच्यते ॥२०॥

तत्राभिषेकं यः कुर्यात् सङ्गमे शंसितव्रतः ।
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥२१॥

न देववचनात्तात! न लोकवचनात्तथा ।
मतिरुत्क्रमणीया ते प्रयागगमनम्प्रति ॥२२॥

दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।
तेषां सान्निध्यमत्रैव ततस्तु कुरुनन्दन! ॥२३॥

या गतिर्योगयुक्तस्य सत्यस्थस्य मनीषिणः ।
स गतिस्त्यजतः प्राणान् गङ्गायमुनसङ्गमे ॥२४॥

न ते जीवन्ति लोकेऽस्मिन् तत्रतत्र युधिष्ठिर ।
ये प्रयागं न सम्प्राप्ता स्त्रिषु लोकेषु वञ्चिताः ॥२५॥

एवं द्रृष्ट्वा तु तत्तीर्थं प्रयागं परमम्पदम् ।
मुच्यते सर्वपापेभ्यो शशाङ्क इव राहुणा ॥२६॥

कम्बलाश्वतरौ नागौ विपुले यमुनातटे ।
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥२७॥

तत्र गत्वा च संस्थानं महादेवस्य धीमतः ।
नरस्तारयते सर्वान् दशपूर्वान् दशापरान् ॥२८॥

कृत्वाभिषेकन्तु नरः सोऽश्वमेधफलं लभेत् ।
स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥२९॥

पूर्वपार्श्वे तु गङ्गाया स्त्रिषु लोकेषु भारत ।
कूपञ्चैव तु सामुद्रं प्रतिष्ठानञ्च विश्रुतम् ॥३०॥

ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति ।
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥३१॥

उत्तरेण प्रतिष्ठानात् भागीरथ्यास्तु पूर्वतः ।
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥३२॥

अश्वमेधफलं तस्मिन् स्नानमात्रेण भारत ।
यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥३३॥

उर्वशीरमणे पुण्ये विपुले हंसपाण्डुरे ।
परित्यजति यः प्राणान् श्रृणु तस्यापि यत् फलम् ॥३४॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
सेव्यते पितृभिः सार्द्धं स्वर्गलोके नराधिप! ॥३५॥

उर्वशीन्तु सदा पश्येत् स्वर्गलोके नरोत्तम! ।
पूज्यते सततं पुत्र! ऋषिगन्दर्वकिन्नरै ॥३६॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ।
उर्वशीसद्रृशीनान्तु कन्यानां लभते शतम् ॥३७॥

मध्ये नारीसहस्राणां बहूनाञ्च पतिर्भवेत् ।
दशग्रामसहस्राणां भोक्ता भवति भूमिपः ॥३८॥

काञ्चीनूपुरशब्देन सुप्ताऽसौ प्रतिबुद्ध्यते ।
भुक्त्वातु विपुलान् भोगान् तत्तीर्थं भजते पुनः ॥३९॥

शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः ।
एकं कालन्तु भुञ्जानो मासं भूमिपतिर्भवेत् ॥४०॥

सुवर्णालङ्कृतानान्तु नारीणां लभते शतम् ।
पृथिव्यामासमुद्रायां महाभूमिपतिर्भवेत् ॥४१॥

धनधान्यसमायुक्तो दाता भवति नित्यशः ।
भुक्त्वातु विपुलान् भोगान् तत्तीर्थं लभते पुनः ॥४२॥

अथ सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः ।
उपवासी शुचिः सन्ध्यां ब्रह्मलोकमवाप्नुयात् ॥४३॥

कोटितीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।
कोटिवर्षसहस्राणां स्वर्गलोके महीयते ॥४४॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ।
सुवर्णमणिमुक्ताढ्य कुले जायेत रूपवान् ॥४५॥

ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ।
दशाश्वमेधिकं नाम तीर्थं तत्रापरं भवेत् ॥४६॥

कृताभिषेकस्तु नरः सोऽश्वमेधफलं लभेत् ।
धनाढ्यो रूपवान् दक्षो दाता भवति धार्मिकः ॥४७॥

चतुर्वेदेषु यत् पुण्यं यत् पुण्यं सत्यवादिषु ।
अहिंसायान्तु यो धर्मो गमनादेव तत् फलम् ॥४८॥

कुरुक्षेत्रसमा गङ्गा यत्र यत्रावगाह्यते ।
कुरुक्षेत्राद्दशगुणा यत्र विन्ध्येन सङ्गता ॥४९॥

यत्र गङ्गा महाभागा बहुतीर्था तपोधना ।
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्य्या विचारणा ॥५०॥

क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ।
दिवि तारयते देवांस्तेन त्रिपथगा स्मृता ॥५१॥

यावदस्थीनि गङ्गायां तिष्ठन्ति हि शरीरिणः ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥५२॥

तीर्थानान्तु परं तीर्थं नदीनां तु महानदी ।
मोक्षदा सर्वभूतानां महापातकिनामपि ॥५३॥

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥
तव स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ॥५४॥

सर्वेषामेव भूतानां पापोपहतचेतसाम् ।
गतिमन्विष्यमाणानां नास्ति गङ्गासमागतिः ॥५५॥

पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् ।
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP