TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५२

मत्स्यपुराणम् - अध्यायः १५२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १५२
तारकासुरोपाख्याने देवासुरयुद्धवर्णनम् ।

सूत उवाच ।
तस्मिन् विनिहते दैत्ये ग्रसने लोकनायके ।
निर्मर्यादमयुध्यन्त हरिणा सह दानवाः ॥१॥

पट्टिशैर्मुशलैः पाशैर्गदाभिः कुशलैरपि ।
तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च ॥२॥

तानस्त्रान् दानवैर्मुक्तान् चित्रयोधी जनार्दनः ।
एकैकं शतशश्चक्रे बाणैरग्निद्विजोपमैः ॥३॥

ततः क्षीणायुधप्राया दानवा भ्रान्तचेतसः ।
अस्त्राण्यादातुमभवन्न समर्था यदा रणे ॥४॥

तदा मृतैर्गजैरश्वैर्जनार्दनमयोधयन् ।
समन्तात् कोटिशो दैत्याः सर्वतः प्रत्ययोधयन् ॥५॥

बहु कृत्वा वपुर्विष्णुः किञ्चिच्छ्रान्त भुजोऽभवत् ।
उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे ॥६॥

गरुत्मन्! कच्चिदश्रान्तस्त्वमस्मिन्नपि साम्प्रतम् ।
यद्यश्रान्तोऽसि तद्याहि मथनस्य रथम्प्रति ॥७॥

श्रान्तोऽस्यथ मुहूर्तन्त्वं रणादपसृतो भव ।
इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना ॥८॥

आससाद रणे दैत्यं मथनं घोरदर्शनम् ।
दैत्यस्त्वभिमुखं दृष्ट्वा शङ्ख वक्र गदाधरम् ॥९॥

जघान भिन्दिपालेन शितबाणेन वक्षसि ।
तत् प्रहारमचिन्त्यैव विष्णुस्तस्मिन् महाहवे ॥१०॥

जघान पञ्चभिर्बाणैर्मार्जितैश्च शिलाशितैः ।
पुनर्दशभिराकृष्टैः तं तताड स्तनान्तरै ॥११॥

विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत ।
स मुहूर्तं समाश्वास्य जग्राह परिघन्तदा ॥१२॥

जघ्ने जनार्दने चापि परिघेणाग्निवर्चसा ।
विष्णुस्तेन प्रहारेण किञ्चिदाघूर्णितोऽभवत् ॥१३॥

ततः क्रोधविवृत्ताक्षो गदाञ्जग्राह माधवः ।
मथनं सरथं रोषान्निष्पिपेषाथ रोषितः ॥१४॥

स पपाताथ दैत्येन्द्रः क्षयकालेऽचलो यथा ।
यस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि ॥१५॥

अवसादं ययुर्दैत्याः कर्दमे करिणो यथा ।
ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु ॥१६॥

कोपरक्ततया नाम महिषो दानवेश्वरः ।
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः ॥१७॥

तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन् ।
शक्त्या च गरुडं वीरो महिषोऽभ्यहनद्धृदि ॥१८॥

ततो व्यावृत्तवदनं महाचलगुहानिभम् ।
यस्तु मैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम् ॥१९॥

अथाच्युतोऽपि विज्ञाय दानवस्य चिकीर्षितम् ।
वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः ॥२०॥

महिषस्याथ ससृजे बाणौघं गरुडध्वजः ।
पिधाय वदनं दिव्यैर्दिव्यास्त्रपरिमन्त्रितैः ॥२१॥

स तैर्बाणैरभिहतो महिषोऽचलसन्निभः ।
परिवर्तितकायोऽधः पपात न ममार च ॥२२॥

महिषं पतितं दृष्ट्वा भूमौ प्रोवाच केशवः ।
महिषासुर!मत्तस्त्वं वधन्नास्त्रैरिहार्हसि ॥२३॥

योषिद्वध्यः पुरोक्तोऽसि साक्षात् कमलयोनिना
उत्तिष्ठ जीवितं रक्ष गच्छास्मात् सङ्गराद् द्रुतम् ॥२४॥

तस्मिन् पराङ्मुखे दैत्ये महिषे शुम्भदानवः ।
सन्दष्टौष्ठपुटः कोपाद् भ्रुकुटी कुटिलाननः ॥२५॥

निर्मथ्य पाणिना पाणि धनुरादाय भैरवम् ।
सज्जञ्चकार स धनुः शरांश्चाशी- विषोपमान् ॥२६॥

स चित्रयोधी दृढमुष्टिपातस्ततस्तु विष्णुं गरुडञ्च दैत्यः ।
बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः परिघातहीनैः ॥२७॥

विष्णुश्च दैत्येन्द्रशराहतोऽपि भुशुण्डिमादाय कृतान्त तुल्याम् ।
तया भुशुण्ड्या च पिपेष मेषं शुम्भस्य पत्रं धरणीधराभम् ॥२८॥

तस्मादवप्लुत्य हताच्च मेषाद् भूमौ पदातिः स तु दैत्यनाथः ।
ततो महीस्थस्य हरिः शरौघान् मुमोच कालानल तुल्यभासः ॥२९॥

शरैस्त्रिभिस्तस्य भुजं बिभेद षड्भिश्च शीर्षं दशभिश्च केतुम् ।
विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य विव्याध विवृत्तनेत्रः ॥३०॥

स तेन बिद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणितौघः ।
ततोऽस्य किञ्चिच्चलितस्य धैर्यादुवाच शङ्खाम्बुज शार्ङ्गपाणिः ॥३१॥

कुमारिवध्योऽसि रणं विमुञ्च शुम्भासुर! स्वल्पतरैरहोभिः ।
वधं न मत्तोऽर्हसि चेह मूढ! वृथैव किं युद्धसमुत्सुकोऽसि ॥३२॥

शुम्भो वचा विष्णुमुखान्निशम्य निमिश्च निष्पेष्टुमियेष विष्णुम् ।
गदामथोद्यम्य निमिः प्रचण्डां जघान गाढां गरुडं शिरस्तः ॥३३॥

जम्भोऽपि विष्णुं परिघेण मूर्ध्नि प्ररुष्टरत्नौघ विचित्रभासा ।
तौ दानवाभ्यां विषमैः प्रहारैर्निपेतुरुर्व्यां घनपावकाभौ ॥३४॥

तत्कर्म दृष्ट्वा दितिजास्तु सर्वे जगर्जुरुच्चैः कृतसिंहनादाः ।
धनूंषि चास्फोट्य खुराभिघातैर्व्यदारयन् भूमिमपि प्रचण्डाः ।
वासांसि चैवादुधुवुः परे तु दध्मुश्च शङ्खानकगोमुखौघान् ॥३५॥

अथ संज्ञामवाप्याशु गरुडोऽपि स केशवः ।
पराङ्मुखो रणात्तस्मात् पलायत महाजवः ॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आदिमूर्ति

  • स्त्री. मूळ पुरुष ; ईश्वर ; नारायण . आदिमूर्ती निश्चिता । होते वटपत्रशयनीं । - गुच २ . ४० . 
  • श्रीकृष्ण . हेम सिंहासनीं आदिमूर्ती । वैसला असे सहज स्थिती । - एरुस्व ३ . २१ . [ सं . ] 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site