संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ३१

मत्स्यपुराणम् - अध्यायः ३१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययाति चरित्रम्  ।

शौनक उवाच  ।
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसन्निभम्  ।
प्रविश्यान्तः पुरं तत्र देवयानीं न्यवेशयत् ॥१॥

देवयान्याश्चानुमते सुतां तां वृषपर्वणः  ।
अशोकवनिकाभ्यासे गृहं कृत्वा न्यवेशयत् ॥२॥

वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्  ।
वासोभिरन्नपानैश्च संभिज्य सुसंवृताम् ॥३॥

देवयान्यातु सहितः स नृपो नहुषात्मजः  ।
विजहार बहूनब्दान् देववन्मुदितो भृशम् ॥४॥

ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना  ।
लेभे गर्भं प्रथमतः कुमारश्च व्यजायत ॥५॥

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी  ।
ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा ॥६॥

चिन्तयामास दर्म्मज्ञा ऋतु प्राप्तौ च भामिनी  ।
ऋतुकालश्च संप्राप्तो न कश्चिन् मे पतिर्वृतः ॥७॥

किं प्राप्तं किञ्च कर्तव्यं कथं कृत्वा सुखं भवेत्  ।
देवयानी प्रसूतासौ वृथाऽहं प्राप्तयौवना ॥८॥

यथा तथावृतो भर्ता तथैवाहं वृणोमि तम्  ।
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ॥
अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत् ॥९॥

अथनिष्क्रम्य राजाऽसौ तस्मिन्‌ काले यदृच्छया  ।
अशोकवनिकाभ्यासे शार्मिष्ठां प्राप्य धिष्ठितः ॥१०॥

तमेकं रहसि द्रृष्ट्वा शर्मिष्ठा चारुहासिनी  ।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥११॥

सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणाश्च वा  ।
तव वा नाहुषगृहे कः स्त्रियं द्रष्टुमर्हति ॥१२॥

रूपाभिजनशीलैर्हि त्वं राजन्! वेत्थ मां सदा  ।
सा त्त्वां याचे प्रसाद्येऽहरन्तु मे हि नराधिप! ॥१३॥

ययातिरुवाच  ।
वेद्मित्वाशीलसम्पन्नां दैत्य कन्यामनिन्दिताम्  ।
रूपन्तु ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥१४॥

मामब्रवीत्तदा शुक्रो देवयानीं यदावहम्  ।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥१५॥

शर्मिष्ठोवाच  ।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्नविवाहकाले  ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥१६॥

पृष्ठास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्या वचना नरेन्द्र ते  ।
एकार्थतायान्तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥१७॥

ययातिरुवाच  ।
राजा प्रमाणं भूतानां स विनश्येत् मृषा वदन्  ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥१८॥

शर्मिष्ठोवाच  ।
समावेतौ मतौ राजन्  । पतिः सख्याश्च यः पतिः  ।
समं विवाह इत्याहुः सख्यामेऽसि पतिर्यतः ॥१९॥

दातव्यं याचमानस्य हीति मे व्रतमाहितम्  ।
त्वञ्च याचसि कामं मां ब्रूहि किङ्करवाणि तत् ॥२०॥

शर्मिष्ठोवाच  ।
अधर्मात्‌ त्राहि मां राजन्! धर्मञ्च प्रतिपादय  ।
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥२१॥

त्रय एवाधना राजन्! भार्या दासस्तथा सुतः  ।
यत्ते समघिगच्छन्ति यस्य ते तस्य तद्‌धनम् ॥२२॥

देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी  ।
स चाहं च त्वया राजन्! भरणीयां भजस्व माम् ॥२३॥

शौनक उवाच  ।
एव मुक्तस्तया राजा ताड्यमित्यभिजज्ञवान्  ।
पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयत् ॥२४॥

स समागम्य शर्मिष्ठां यथा काममवाप्य च  ।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥२५॥

तस्मिन् समागमे सुभ्रुः शर्मिष्ठा वार्षपर्वणी  ।
लेभे गर्भं प्रथमतः तस्मात् नृपति सत्तमात् ॥२६॥

प्रजज्ञे च ततः काले राज्ञी राजीवलोचना  ।
कुमारं देवगर्भाभमादित्यसमतेजसम् ॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP