संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४९

मत्स्यपुराणम् - अध्यायः १४९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


तारकोपाख्याने देवदानवयुद्धवर्णनम् ।

सूत उवाच ।
सुरासुराणां सम्मर्दस्तस्मिन्नत्यन्तदारुणे ।
तुमुलोऽतिमहानासीत् सेनयोरुभयोरपि ॥१॥

गर्जतां देवदैत्यानां शङ्खभेरीरवेण च ।
तुर्याणाञ्चैव निर्घोषैर्मातङ्गानाञ्च बृंहितैः ॥२॥

ह्रेषतां हयवृन्दानां रथनेमिस्वनेन च ।
ज्याघोषेण च शूराणान् तुमुलोऽतिमहानभूत् ॥३॥

समासाद्योभये सेने परस्पर जयैषिणाम् ।
रोषेणातिपरीतानान् त्यक्त जीवित चेतसाम् ॥४॥

समासाद्य तु तेऽन्योन्यं प्रक्रमेण विलोमतः ।
रथेनासक्त पादातो रथेन चतुरङ्गमः ॥५॥

हस्ती पादाति संयुक्तो रथिना च क्वचिद्रथी ।
मातङ्गेनापरो हस्ती तुरङ्गैर्बहुभिर्गजः ॥६॥

पदातिरेको बहुभिर्गजैर्मत्तैश्च युज्यते ।
ततः प्रासाशनि गदा भिन्दि पालपरश्वधैः ॥७॥

शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कड़पैर्गडैः ।
चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः स्थितैः ॥८॥

कर्णिकालीकनारा च वत्सदन्तार्द्धचन्द्रकैः ।
भल्लैश्च शतपत्रैश्च शुकतुण्डैश्च निर्म्मलैः ॥९॥

वृष्टिरत्यद्भुताकारा गगने समदृश्यत ।
सम्प्रच्छाद्य दिशः सर्वास्तमोमयमिवाकरोत् ॥१०॥

न प्राज्ञायत तेऽन्योऽन्यं तस्मिंस्तमसि सङ्कुले ।
अलक्ष्यं विसृजन्तस्ते हेतिसङ्घातमुद्धतम् ॥११॥

पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम् ।
ततो ध्वजैर्भुजैश्छत्रैः शिरोभिश्च सकुण्डलैः ॥१२॥

गजैस्तुरङ्गैः पादातैः पतद्भिः पतितैरपि ।
आकाशसरसोभ्रष्टैः पङ्कजैरिव भूस्तृता ॥१३॥

भग्नदन्ता भिन्नकुम्भा श्छिन्नदीर्घमहाकराः ।
गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः ॥१४॥

भग्नेषा दण्डचक्राक्षा रथाश्च शकलीकृता ।
पेतुः शकलतां यातास्तुरङ्गाश्च सहस्रशः ॥१५॥

ततोऽसृक् ह्रददुस्तारा पृथिवी समजायत ।
नद्यश्च रुधिरावर्ता हर्षदाः पिशिताशिनाम् ॥१६॥

वेताला क्रीड़मभवत् तत् सङ्कुलरणाजिरम् ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP