TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४४

मत्स्यपुराणम् - अध्यायः १४४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः १४४
द्वापरयुग विवरणवर्णनम् ।

सूत उवाच ।
अत ऊद्‌र्ध्व प्रवक्ष्यामि द्वापरस्य विधिं पुनः ।
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥१॥

द्वापरादौ प्रजानान्तु सिद्धिस्त्रेतायुगे तु या ।
परिवृत्ते युगे तस्मिंस्ततः सा वै प्रणश्यति ॥२॥

ततः प्रवर्त्तिते तासां प्रजानां द्वापरे पुनः ।
लोभो धृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥३॥

प्रध्वंसश्चैव वर्णानां कर्म्मणान्तु विपर्ययः ।
यात्रा वधः परो दण्डो मानो दर्पोऽक्षमाबलम् ॥४॥

तथा रजस्तमो भूयः प्रवृत्ते द्वापरे पुनः ।
आद्ये कृतेनाधर्मोऽस्ति स त्रेतायां प्रवर्त्तितः ॥५॥

द्वापरे व्याकुलो भूत्वा प्रणश्यति कलौ पुनः ।
वर्णानां द्वापरे धर्माः सङ्कीर्यन्ते तथाश्रमाः ॥६॥

द्वैधमुत्पद्यते चेव युगे तस्मिन्‌ श्रुतिस्मृतौ ।
द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते ॥७॥

अनिश्चयावगमनाद्धर्मतत्त्वं न विद्यते ।
धर्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते ॥८॥

परस्परं विभिन्नास्ते द्रृष्टीनां विभ्रमेण तु ।
अतो द्रष्टिविभिन्नैस्तैः कृतमत्याकुलन्त्विदम् ॥९॥

एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः ।
संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विहः ॥१०॥

वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापारदिषु ।
ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते द्रृष्टिविभ्रमैः ॥११॥

ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः ।
संहृता ऋग्यजुः साम्नां संहितास्तैर्महर्षिभिः ॥१२॥

सामान्याद्वैकृताच्चैव द्रृष्टिभिन्नैः क्वचित् क्वचित् ।
ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव च ॥१३॥

अन्ये तु प्रस्थितास्तान्वै केचित्तान् प्रत्यवस्थिताः ।
द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः ॥१४॥

एकमाध्वर्यवं पूर्वमासीद्‌द्वैधन्तु तत् पुनः ।
सामान्यविपरीतार्थैः कृतं शस्त्राकुलन्त्विदम् ॥१५॥

आध्वर्यवञ्च प्रस्थानैर्बहुधा व्याकुलीकृतम् ।
तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः ॥१६॥

व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः ।
द्वापरे सन्निवृत्ते ते वेदा नश्यन्ति वै कलौ ॥१७॥

तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः ।
अद्रृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥१८॥

वाङ्नः कर्मभिर्दुः खैर्निर्वेदो जायते ततः ।
निर्वेदाज्जायते तेषां दुः खमोक्षविचारणा ॥१९॥

विचारणायां वैराग्यं वैराग्याद्दोषदर्शनम् ।
दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिस्तु जायते ॥२०॥

तेषां मेधाविनां पूर्वं मर्त्ये स्वायम्भुवेऽन्तरे ।
उत्पत्स्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः ॥२१॥

आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च ।
अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ॥२२॥

प्रक्रिया कल्पसूत्राणां भाष्यविद्याविकत्थनम् ।
स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक्‌ पृथक् ॥२३॥

द्वापरेष्वभिवर्त्तन्ते मतिभेदास्तथा नृणाम् ।
मनसा कर्म्मणा वाचा कृच्छ्राद्वार्त्ता प्रसिध्यति ॥२४॥

द्वापरे सर्वभूतानां कालः क्लेशपरः स्मृतः ।
लोभो धृतिर्वणिग्युद्धन्तत्त्वानामविनिश्चयः ॥२५॥

वेदशास्त्रप्रणयनं वर्णानां सङ्करस्तथा ।
वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥२६॥

पूर्णो वर्षसहस्रेद्वे परमायुस्तदा नृणाम् ।
निः शेषे द्वापरे तस्मिंस्तस्य सन्ध्या तु पादतः ॥२७॥

गुणहीनास्तु तिष्ठन्ति धर्म्मस्य द्वापरस्य तु ।
तथैव सन्ध्या पादेन अंशस्तस्यां प्रतिष्ठितः ॥२८॥

द्वापरस्य तु पर्येषा पुष्यस्य च निबोधत ।
द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरथ ॥२९॥

हिंसास्तेयानृतं माया दम्भश्चैव तपस्विनाम् ।
एते स्वभावाः पुष्यस्य साधयन्ति च ताः प्रजाः ॥३०॥

एष धर्म्मः स्मृतः कृत्स्नो धर्म्मश्च परिहीयते ।
मनसा कर्मणा वाचा वार्त्ताः सिद्‌ध्यन्ति वानवा ॥३१॥

कलिः प्रमारको रोगः सततं चापि क्षुद् भयम् ।
अनावृष्टिभयञ्चैव देशानाञ्च विपर्ययः ॥३२॥

न प्रमाणे स्थिति हर्यस्ति पुष्ये घोरे युगे कलौ ।
गर्भस्थो म्रियते कश्चिद्‌ यौवनस्थस्तथापरः ॥३३॥

स्थावर्ये मध्यकौमारे म्रियन्ते च कलौ प्रजाः ।
अल्प तेजो बलाः पापा महाकोपा ह्यधार्मिकाः ॥३४॥

अनृतव्रतलुब्धाश्च पुष्ये चैव प्रजाः स्थिताः ।
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥३५॥

विप्राणां कर्म्मदोषैस्तैः प्रजानां जायते भयम् ।
हिंसा मानस्तथेर्ष्याच क्रोधोऽसूयाऽक्षमाऽधृतिः ॥३६॥

पुष्ये भवन्ति जन्तूनां लोभो मोहश्च सर्वशः ।
सङ्‌क्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम् ॥३७॥

नाधीयन्ते तथा वेदान् यजन्ते वै द्विजातयः ।
उत्सीदन्ति यथा चैव वैश्यैः सार्द्धन्तु क्षत्रियाः ॥३८॥

शूद्राणां मन्त्रयोनिस्तु सम्बन्धो ब्राह्मणैः सह ।
भवतीह कलौ तस्मिन्‌ शयनासनभोजनैः ॥३९॥

राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवृत्तयः ।
काषायिणश्च निष्कच्छास्तथा कापालिनश्च ह ॥४०॥

ये चान्ये देवव्रतिनस्तथा ये धर्म्मदूषकाः ।
दिव्यवृत्ताश्च ये केचिद्‌वृत्त्यर्थं श्रुतिलिङ्गनः ॥४१॥

एवम्विधाश्च ये केचिद् भवन्तीह कलौ युगे ।
अधीयते तदा वेदान् शूद्रा धर्मार्थकोविदाः ॥४२॥

यजन्ति ह्यश्वमेधैस्तु राजानः शूद्रयोनयः ।
स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम् ॥४३॥

उपहृत्य तथान्योन्यं साधयन्ति तदा प्रजाः ।
दुः खप्रचुरताल्पायुर्देशोत्सादः सरोगताः ॥४४॥

अधर्माभिनिवृत्तत्वं कलौ वृत्तं कलौस्मृतम् ।
भ्रूणहत्या प्रजानाञ्च तथा ह्येवं प्रवर्त्तते ॥४५॥

तस्मादायुर्बलं रूपं प्रहीयन्ते कलौ युगे ।
दुः खेनाभिप्लुतानां च परमायुः शतं नृणाम् ॥४६॥

भूत्वा च न भवन्तीह वेदाः कलियुगेऽखिलाः ।
उत्सीदन्ते तथा यज्ञाः केवलं धर्महेतवः ॥४७॥

एषा कलियुगावस्था सन्ध्यांशौ तु निबोधत ।
युगे युगे तु हीयन्ते त्रींस्त्रीन् पादांश्च सिद्धयः ॥४८॥

युगस्वभावाः सन्ध्यासु अवतिष्ठन्ति पादतः ।
सन्ध्यास्वभावाः स्वांशेषु पादेनैवावतस्थिरे ॥४९॥

एवं सन्ध्यांशके काले सम्प्राप्ते च युगान्तिके ।
तेषामधर्मिणां शास्ता भृगुणाञ्च कुले स्थितः ॥५०॥

गोत्रेण वै चन्द्रमसे नाम्ना प्रमतिरुच्यते ।
कलिसन्ध्यांशभागेषु मनोः स्वायम्भुवेऽन्तरे ॥५१॥

समास्त्रिंशत्तु सम्पूर्णाः पर्यटन्वै वसुन्धराम् ।
अस्त्रकर्मा स वै सेना हस्त्यश्वरथसङ्कुलाम् ॥५२॥

प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः ।
स तदातैः परिवृतो म्लेच्छान् सर्वान्निजघ्निवान् ॥५३॥

स हत्वा सर्वशश्चैव राजानः शूद्रयोनयः ॥५४॥

पाषण्डान् स तदा सर्वान्निः शेषानकरोत् प्रभुः ॥५५॥

अधार्मिकाश्च ये केचित्तान्‌ सर्वान् हन्ति सर्वशः ।
औदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च ॥५६॥

प्राच्यान् प्रतीच्यांश्च तथा विन्ध्यपृष्ठा परान्तिकान् ।
तथैव दाक्षिणात्यांश्च द्रविडान् सिंहलैः सह ॥५७॥

गन्धारान् पारदांश्चैव पह्लवान् यवनान् शकान् ।
तुषारान् बर्बशान् श्वेतान् पुलिन्दान् बर्बरान् श्वसान् ॥५८॥

लम्पकानान्ध्रकांश्चापि चोरजातींस्तथैव च ।
प्रवृत्तचक्रो बलवान्शूद्राणामन्तकृद् बभौ ॥५९॥

विद्राव्य सर्वभूतानि चचार वसुधामिमाम् ।
मानवस्य तु वंशे तु नृदेवस्येह जज्ञिवान् ॥६०॥

पूर्वजन्मनि विष्णुश्च प्रमतिर्नाम वीर्यवान् ।
स्वतः स वै चन्द्रमसः पूर्वं कलियुगे प्रभुः ॥६१॥

द्वात्रिंशेऽभ्युदिते वर्षे प्रकान्तो विंशतिं समाः ।
निजघ्ने सर्वभूतानि मानुषाण्येव सर्वशः ॥६२॥

कृत्वा वाजावशिष्टान्तां पृथ्वीं क्रूरेण कर्मणा ।
परस्परनिमित्तेन कालेनाकस्मिकेन च ॥६३॥

संस्थिता सह सायासे सेना प्रमतिना सह ।
गङ्गायमुनयोर्मध्ये सिद्धिं प्राप्ताः समाधिना ॥६४॥

ततस्तेषु प्रनष्टेषु सन्ध्यांशे क्रूरकर्म्मसु ।
उत्साद्य पार्थिवान् सर्वान् तेष्वतीतेषु वे तदा ॥६५॥

ततः सन्ध्यांशके काले संप्राप्ते च युगान्तके ।
स्थिताः स्वल्पावशिष्टासु प्रजास्विह क्वचित् क्वचित् ॥६६॥

स्वाप्रदानास्तथा ते वै लोभाविष्टास्तु वृन्दशः ।
उपहिंसन्ति चान्योन्यं प्रलुम्पन्ति परस्परम् ॥६७॥

अराजके युगांशे तु सङ्क्षये समुपस्थिते ।
प्रजास्ता वै तदा सर्वाः परस्परभयार्दिताः ॥६८॥

व्याकुलास्ताः परावृत्तास्त्यज्य देवगृहाणि तु ।
स्वान् स्वान् प्राणानवेक्षन्तो निष्कारुण्यात् सुदुः खिताः ॥६९॥

नष्टे श्रौतस्मृते धर्मे कामक्रोधवशानुगाः ।
निर्मर्यादा निरानन्दा निः स्नेहानिरपत्रपाः ॥७०॥

नष्टे धर्मे प्रतिहता हृस्वकाः पञ्चविंशकाः ।
हित्वा दारांश्च पुत्रांश्च विषादव्याकुलप्रजाः ॥७१॥

अनावृष्टिहतास्ते वै वार्त्तामुत्सृज्यदुः खिताः ।
चीरकृष्णाजिनधरा निष्क्रुद्धानिष्परिग्रहाः ॥७२॥

वर्णाश्रमपरिभ्रष्टाः सङ्करङ्घोरमास्थिताः ।
एवं कष्टमनुप्राप्ता ह्यल्पशेषाः प्रजास्ततः ॥७३॥

जन्तवश्च क्षुधाविष्टा दुः खान्निर्वेदमागमन् ।
संश्रयन्तिच देशांस्तांश्चक्रवत् परिवर्त्तनाः ॥७४॥

ततः प्रजास्तु ताः सर्वा मांसाहारा भवन्ति हि ।
मृगान् वराहान् वृषभान्ये चान्ये वनचारिणः ॥७५॥

भक्ष्यांश्चैवाप्यभक्ष्यांश्च सर्वांस्तान् भक्षयन्ति ताः ।
समुद्रं संश्रिता यास्तु नदींश्चैव प्रजास्तु ताः ॥७६॥

तेऽपि मत्स्यान् हरन्तीह आहारार्थं च सर्वशः ।
अभक्ष्याहारदोषेण एकवर्णगता प्रजाः ॥७७॥

यथा कृतयुगे पूर्वमेकवर्णमभूत्किल ।
तथा कलियुगस्यान्ते शूद्रीभूताः प्रजास्तथा ॥७८॥

एवं वर्षशतं पूर्णं दिव्यं तेषां न्यवर्त्तत ।
षट्‌त्रिंशच्च सहस्राणि मानुषाणितु तानि वै ॥७९॥

अथ दीर्घेण कालेन पक्षिणः पशवस्तथा ।
मत्स्याश्चैव हताः सर्वैः क्षुधाविष्टैश्च सर्वशः ॥८०॥

निः शेषेष्वथ सर्वेषु मत्स्यपक्षिपशुष्वथ ।
सन्ध्यांशे प्रतिपन्नेतु निः शेषास्तु तदा कृताः ॥८१॥

ततः प्रजास्तु सम्भूय कन्दमूलमथोऽखनन् ।
फलमूलाशनाः सर्वे अनिकेतास्तथैव च ॥८२॥

वल्कलान्यथ वासांसि अधः शय्याश्च सर्वशः ।
परिग्रहो न तेष्वस्ति धनशुद्धिमवाप्नुयुः ॥८३॥

एवं क्षयं गमिष्यन्ति ह्यल्पशिष्टाः प्रजास्तदा ।
तासामल्पावशिष्टनामाहाराद् वृद्धिरिष्यते ॥८४॥

एवं वर्षशतं दिव्यं सन्ध्यांशस्तस्य वर्त्तते ।
ततो वर्षसहस्रान्ते अल्पशिष्टाः स्त्रियः सुताः ॥८५॥

मिथुनानि तु ताः सर्वाह्यन्योन्यं संप्रजज्ञिरे ।
ततस्तास्तु म्रियन्ते वै पूर्वोत्पन्नाः प्रजास्तु याः ॥८६॥

जातमात्रेष्वपत्येषु ततः कृतमवर्त्तत ।
यथा स्वर्गे शरीराणि नरके चैव देहिनाम् ॥८७॥

उपभोगसमर्थानि एवं कृतयुगादिषु ।
एवं कृतस्य सन्तानः कलेश्चैव क्षयस्तथा ॥८८॥

विचारणात्तु निर्वेदः साम्यावस्थात्मना तथा ।
ततश्चैवात्मसम्बोधः सम्बोधाद्धर्म्मशीलता ॥८९॥

कलिशिष्टेषु तेष्वेवं जायन्ते पूर्ववत् प्रजाः ।
भाविनोऽर्थस्य च बलात्ततः कृतमवर्त्तत ॥९०॥

अतीतानागतानि स्युर्य्यानि मन्वन्तरेष्विह! ।
एते युगस्वभावास्तु मयोक्तास्तु समासतः ॥९१॥

विस्तरेणानुपूर्व्याच्च नमस्कृत्य स्वयम्भुवे ।
प्रवृत्तेतु ततस्तस्मिन् पुनः कृतयुगे तु वै ॥९२॥

उत्पन्नाः कलिशिष्टेषु प्रजाः कार्त्तयुगास्तथा ।
तिष्ठन्ति चेह ये सिद्धा अद्रृष्टा विहरन्ति च ॥९३॥

सह सप्तर्षिभिर्ये तु तत्र ये च व्यवस्थिताः ।
ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्मृताः ॥९४॥

तेषां सप्तर्षयो धर्मं कथयन्तीह तेषु च ।
वर्णाश्रमाचारयुतं श्रौतस्मार्त्तविधानतः ॥९५॥

एवं तेषु क्रियावत्सु प्रवर्त्तन्तीह वै कृते ॥९६॥

श्रौतस्मार्त्तस्थितानान्तु धर्मे सप्तर्षिदर्शिते ।
ते तु धर्मव्यवस्थार्थं तिष्ठन्तीह कृते युगे ॥९७॥

मन्वन्तराधिकारेषु तिष्ठन्ति ऋषयस्तु ते ।
यथा दावप्रदग्धेषु तृणेष्वेवापनक्षितौ ॥९८॥

वनानां प्रथमं द्रृष्ट्वा तेषां मूलेषु सम्भवः ।
एवं युगाद्‌युगानां वै सन्तानस्तु परस्परम् ॥९९॥

प्रवर्त्तते ह्यविच्छेदाद्यावन्मन्वन्तरक्षयः ।
सुखमायुर्बलं रूपं धर्मार्थौ काम एव च ॥१००॥

युगेष्वेतानि हीयन्ते त्रयः पादाः क्रमेण तु ।
इत्येषः प्रतिसन्धिर्वः कीर्त्तितस्तु मया द्विजाः! ॥१०१॥

चतुर्युगाणां सर्वेषामेतदेव प्रसाधनम् ।
एषां चतुर्युगाणान्तु गणिता ह्येकसप्ततिः ॥१०२॥

क्रमेण परिवृत्तास्ता मनोरन्तरमुच्यते ।
युगाख्यासु तु सर्वासु भवतीह यदा च यत् ॥१०३॥

तदेव च तदन्यासु पुनस्तद्वै यथाक्रमम् ।
सर्गे सर्गे यथा भेदा ह्युत्पद्यन्ते तथैव च ॥१०४॥

चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह ।
आसुरी यातुधानी च पैशाची यक्षराक्षसी ॥१०५॥

युगे युगे तदा काले प्रजा जायन्ति ताः श्रृणु ।
यथाकल्पं युगैः सार्द्धं भवन्ति तुल्यलक्षणा ।
इत्येतल्लक्षणं प्रोक्तं युगानां वै यथाक्रमम् ॥१०६॥

मन्वन्तराणां परिवर्तनानि चिरप्रवृत्तातियुगस्वभावात् ।
क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ॥१०७॥

एते युगस्वभावा वः परिक्रान्ता यथाक्रमम् ।
मन्वन्तराणि यान्यस्मिन् कल्पे वक्ष्यामि तानि च ॥१०८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:52.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गोडिळणें

  • अ.क्रि. ( राजा . ) गोड , पक्व होणें ( फळें , फणस , केळी ). [ गोड ] 
RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.