संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ११७

खण्डः २ - अध्यायः ११७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
भगवञ्छ्रोतुमिच्छामि ये नराः स्वर्गगामिनः॥
केन धर्मभृतां श्रेष्ठ तथा निरयगामिनः ॥१॥
पुष्कर उवाच॥
आश्रमेषु यथोक्तेषु वर्तन्ते ये द्विजोत्तमाः॥
स्वधर्मसक्ताः सततं ते नराः स्वर्गगामिनः ॥२॥
वर्तन्ते ये महीपाल राजधर्मानुसारतः॥
पुरोहितमते युक्ता राजानः स्वर्गगामिनः ॥३॥
प्रजासुखे सुखं येषां तद्दुःखे ये च दुःखिताः॥
दुष्टनिग्रहकर्तारो ज्ञेयास्ते स्वर्गगामिनः ॥४॥
स्वाम्यर्थे ब्राह्मणार्थे वा मित्रकार्ये च ये हताः॥
गोग्रहे निहता ये च ते नराः स्वर्गगामिनः ॥५॥
देहधातून्परित्यज्य सलिलारण्यवह्निषु॥
अनाशने वा धर्मज्ञ मृताः स्युः स्वर्गगामिनः ॥६॥
तीर्थयात्राप्रसक्ताश्च नित्यमध्वनि कर्षिताः॥
तपसा कर्षिता ये च ते ज्ञेयाः स्वर्गगामिनः ॥७॥
मधुमांसनिवृत्ताश्च निवृत्ता मधुपानतः॥
काममैथुनतश्चापि विज्ञेयाः स्वर्गगामिनः ॥८॥
मातापितृपरा दान्ता गुरुभक्ताः प्रियंवदाः॥
सत्यार्जवरता ये च ते नराः स्वर्गगामिनः ॥९॥
वैवाहिकानां वस्त्राणां प्रपाणां ये प्रदायिनः॥
उद्यानारामकर्तारस्ते नराः स्वर्गगामिनः ॥१०॥
तडागकूपकर्तारस्तथा कन्याप्रदायकाः॥
छत्रोपानहदातारस्ते नराः स्वर्गगामिनः ॥११॥
इन्धनानां प्रदातारस्तथा गोग्रामदायिनः॥
गवां शुश्रूषका ये च ते नराः स्वर्गगामिनः ॥१२॥
परोपकारसक्ताश्च परबन्धविवर्जकाः॥
पूज्यपूजयितारश्च ते नराः स्वर्गगामिनः ॥१३॥
स्वाध्यायसक्ता धीमन्तो गुरुशुश्रूषणे रताः॥
उपासकाश्च वृद्धानां ते ज्ञेयाः स्वर्गगामिनः ॥१४॥
प्रतिश्रयप्रदातारस्तथा ये सत्रदायकाः॥
भक्ता गोदेवविप्राणां ते नराः स्वर्गगामिनः ॥१५॥
श्रोतारो ये च धर्माणां ये तथा यज्ञयाजिनः॥
उपवासरता ये च ते ज्ञेयाः स्वर्गगामिनः ॥१६॥
क्लेशाननुभवन्तीह शास्त्राध्ययनतत्पराः॥
शास्त्राणां च हिते युक्तास्ते ज्ञेयाः स्वर्गगामिनः ॥१७॥
आर्तप्राणप्रदा ये च ये च हिंसाविवर्जकाः॥
अपीडकाश्च भूतानां ते नराः स्वर्गगामिनः ॥१८॥
दरिद्राय च दातारः प्रभवश्च क्षमान्विताः॥
यौवनस्थाश्च ये शान्तास्ते नराः स्वर्गगामिनः ॥१९॥
पौत्रदौहित्रसंयुक्ता ये तथा चिरजीविनः॥
प्रियङ्कराश्च बालानां ते नराः स्वर्गगामिनः॥
पोषकाणामनाथानां ये चैवोद्वाहकारिणः॥
द्विरागमनदा ये च ते नराः स्वर्गगामिनः ॥२१॥
ग्रहाणां पूजका ये च ये तथा श्राद्धकारिणः॥
संविभागकरा ये च ते नराः स्वर्गगामिनः ॥२२॥
सर्वासां देवतानां च ये च पूजारताः सदा॥
सर्वदानरता ये च ते नराः स्वर्गगामिनः ॥२३॥
अहताश्च तथा तत्र कृत्वा कर्मातिदुष्करम्॥
कालेनापि मृता राम ते नराः स्वर्गगामिनः ॥२४॥
ये भक्तिमन्तो मधुसूदनस्य देवेश्वरस्याप्रतिमस्य नित्यम्॥
सत्त्वेन हीना रजसा वियुक्तास्ते यान्ति नाकं सुरसंघपूज्याः ॥२५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्वर्गभाग्वर्णनन्नाम सप्तदशोत्तरशततमोऽध्यायः ॥११७॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP