संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १०८

खण्डः २ - अध्यायः १०८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
स्नानानामिह सर्वेषां यत्स्नानमतिरिच्यते॥
तन्ममाचक्ष्व सकलं सर्वकल्मषनाशनम् ॥१॥
पुष्कर उवाच॥
शृणु पादोदकस्नानं सर्वकिल्बिषनाशनम्॥
श्रवणर्क्षं विना ह्येतद्भवत्यर्धफलं यतः ॥२॥
ततः कार्यं प्रयत्नेन श्रवणर्क्षे विशेषतः॥
अथोत्तरासु षाढासु निराहारो जितेन्द्रियः ॥३॥
सर्वौषधैः सर्वगन्धैर्देवदेवस्य चक्रिणः॥
पादं प्रलेपयेद्विद्वान्क्रमेण चतुरात्मनः ॥४॥
ततस्तु कलशान्कुर्याच्चतुरः सुदृढान्नवान्॥
सौवर्णान्राजतान्ताम्रानथ वापि महीमयान् ॥५॥
ततोऽनिरुद्धचरणौ कृपाद्भिः क्षालयेत्ततः॥
ताभिस्तु कलशं पूर्णं स्थापनीयं तदग्रतः ॥६॥
ततः प्रद्युम्नचरणौ क्षाल्यौ प्रस्रवणोदकैः॥
कलशं पूरितं तच्च भवेत्स्थाप्यं तदग्रतः ।७॥
संकर्षणस्य चरणौ क्षाल्यौ तोयैश्च सारसैः॥
तैस्तु संपूर्णकलशं स्थाप्यं तस्याग्रतो भवेत् ॥८॥
वासुदेवस्य चरणौ नादेयैः क्षालयेद्बुधः॥
कलशं पूरितं तैश्च स्थापनीयं तदग्रतः ॥९॥
ततः पूजा तु कर्तव्या यथावच्चतुरात्मनः॥
कलशान्पूजयेत्तांश्च गन्धमाल्यफलाक्षतैः ॥१०॥
ततः प्राप्ते द्वितीयेऽह्नि स्नातः पूर्वमुपोषितः॥
सम्मुखश्चानिरुद्धस्य स्नाप्यश्च कटुको भवेत् ॥११॥
प्रद्युम्नस्य च देवस्य ततः संकर्षणस्य च॥
ततश्च वासुदेवस्य यथा रामस्य चक्रिणः ॥१२॥
( पवित्रमन्त्रैः सर्वेषां घण्टानामभिमन्त्रणम्॥
कर्तव्यं सात्त्वतेनाथ शुचिना भार्गवोत्तम ॥१३॥
अथ मन्त्रान्प्रवक्ष्यामि कलशेषु चतुर्षु ते॥)
मङ्गल्यांश्च यशश्यांश्चा सर्वाघविनिषूदनान् ॥१४॥
अरुद्धमार्गाः सर्वत्र सर्वशश्चापराजिताः॥
वायुमूर्तिरचिन्त्यात्मा सोऽनिरुद्धः स्वयं प्रभुः ॥१५॥
पादोदकेन दिव्येन शिवेनाघविनाशिना॥
तथाघमपहृत्याशु शिवं वर्धयतां प्रभुः ॥१६॥
लोकान्प्रद्योतयति यः प्रयुम्नो भास्करप्रभः॥
हुताशनः स तेजस्वी मङ्गलं विदधातु मे ॥१७॥
कामदेवो जगद्योनिः सर्वशः प्रभुरीश्वरः॥
दुःखहर्ता जगन्नाथो मङ्गलानि ददातु ते ॥१८॥
जगतां कर्षणाद्देवो यः स सङ्कर्षणः प्रभुः॥
रुद्रमूर्तिरचिन्त्यात्मा सर्वगः सर्वहारकः ॥१९॥
कामपालोऽरिदमनः सर्वभूतस्य शङ्करः॥
विश्वयोनिर्महातेजा मङ्गलानि ददातु ते ॥२०॥
सर्वावासो वासुदेवो भूतात्मा भूतभावनः॥
सर्वगश्चाप्रमेयश्च पुरुषः परमेश्वरः ॥२१॥
अनन्तः सर्वदेवेशो जगदाधारकारणः॥
अघापहारी वरदो विदधातु श्रियं तव ॥२२॥
एवं स्नातस्ततस्त्यक्त्वा तत्रैव स्नानवाससी॥
शुक्लवासा उपस्पृश्य पूजां कुर्यात्क्रमेण तु ॥२३॥
गन्धैः पुष्पैः फलैर्मुख्यैर्दीपैर्धूपैः सुगन्धिभिः॥
नैवेद्यैर्विविधैश्चैव सात्त्वतानां च पूजनैः ॥२४॥
एवं देवार्चनं कृत्वा सात्त्वतां शान्तिदं शुभम्॥
भोजनं गोरसप्रायं कृत्वा तिष्ठेत्सुयन्त्रितम् ॥२६॥
प्रादुर्भावाणि मुख्यानि शृणुयात्केशवस्य च॥
पाखण्डिपतितानां च वर्जयेद्दर्शनं तथा ॥२६॥
इति पादोदकस्नानं प्रोक्तं रक्षोहणं तव॥
मङ्गल्यं पापशमनमलक्ष्मीनाशनं परम् ॥२७॥
सर्वविघ्नप्रशमनं सर्वबाधाविनाशनम्॥
दुःस्वप्नारिष्टशमनं सर्वव्याधिहरं शिवम् ॥२८॥
यात्रासिद्धिकरं धन्यं कर्मणां सिद्धिकारकम्॥
शत्रुघ्नं बुद्धिदं मेध्यं बलायुःस्मृतिवर्धनम्॥
सौभाग्यदं कामपरं यशःपुत्रविवर्धनम् ॥२९॥
अमोघवीर्यं पुरुषोत्तमस्य पादोदकस्नानमिदं प्रदिष्टम्॥
स्नानोत्तरं ते रणचण्डवेग भूयस्तु ते किं कथयामि राम ॥३०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषोत्तमपादोदकस्नानवर्णनन्नामाष्टोत्तरशततमोऽध्यायः ॥१०८॥

N/A

References : N/A
Last Updated : December 16, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP