संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १७३

खण्डः २ - अध्यायः १७३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


भौमजीवमंदाः केन्द्रः शीघ्रः बुधसितौ वक्रे मंदावत्यथाशीघ्रौ मन्द ग्रहर्कांतरगाः कालदृश्यादृश्यांशेन यदा तदा पूर्वार्धोदयास्तमययोरार्कोदयिको ग्रहः पश्चार्धेन तदास्तमयिकः तात्कालिकग्रहस्फुटविक्षेपमदाज्याहतव्यामार्धेन विभजेत ।
लब्धग्रह औदयिके ऋणमास्तमयिकवनउत्तरविक्षेपपरमापक्रमेण विभजेत्।
लब्धमयनविक्षेपेन्ये शोध्यमन्यथादेयम् ।
एवं ग्रहोदयास्तलग्नौ भवतः ।
ततो ग्रहान्तराल्लग्नवत्कालः कलांशग्रहान्तरांशानां भुजान्तरेण भागमपहरेत् ।
ग्रहे वक्रिणि भुक्तियोगेन लब्धो दिनादिः कालमुपास्तमयस्य एव नक्षत्राणां तेषां द्वादश दृश्यादृश्यांशः अगस्त्यध्रुवकृदिक्कर्मद्वयकं कृत्वा तद्वटिकाद्वयेन स्वदेशराश्युदये वर्धयेत् ।
तदंशेकेगस्त्योदयः वक्रोनेस्तमयः प्रतिदैवसिक उदयो ग्रहान्तं लग्नवशेनेति॥
इति श्रीवि० ध० द्वि० खं०- मा० सं० उदयास्तमयप्रकरणं नाम सप्तत्युत्तरशततमोऽध्यायः ॥१७३॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP