संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४५

खण्डः २ - अध्यायः १४५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
किं नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः॥
राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता॥
 ॥पुष्कर उवाच॥
सप्तांगस्य च राज्यस्य भावयुक्तेन भूभृता॥
एतावदेव कर्तव्यं राज्ञा तन्त्रं भृगूत्तम ॥२॥
साम दानं तथा दुर्गं कोशो दण्डस्तथैव च॥
मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥३॥
सप्ताङ्गस्य च राज्यस्य विघ्नकर्तॄन्विवासयेत्॥
अहितान्घातयेद्राजा क्षिप्रमेवाविचारयन् ॥४॥
सप्ताङ्गस्य च राज्यस्य वृद्धिः कार्या सुमण्डले॥
मण्डलेषु च सर्वेषु कर्षणीया महीक्षिता ॥५॥
राम उवाच॥
मण्डलानि समाचक्ष्व विजिगीषोर्यथाविधि॥
यान्याश्रित्य नृपैः कार्यं सन्धिविग्रहचिन्तनम् ॥६॥
पुष्कर उवाच॥
आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत्॥
समन्तात्तस्य विज्ञेया रिपवो मण्डलस्य तु ॥७॥
अधिकृत्याऽभियोज्यं तु तत्रापि शृणु कल्पनम्॥
अभियोज्यः स्मृतः शत्रुस्तत्रापि च प्रतीक्षिता ॥८॥
तत्परस्तु सुहृज्ज्ञेयो मित्रं मित्ररिपुस्तथा॥
एतत्पुरस्तात्कथितं पश्चादपि निबोध मे ॥९॥
पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते॥
आसारस्तु ततोप्यन्यस्त्वाक्रन्दासार उच्यते ॥१०॥
जिगीषोः शस्त्रयुक्तस्य वियुक्तस्य तथा द्विज॥
निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्तितः ॥११॥
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत्॥
उदासीनः स कथितो बलवान्पृथिवीपतिः ॥१२॥
एतावदेव ते राम प्रोक्तं द्वादशराजकम्॥
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ॥१३॥
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते॥
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥१४॥
त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तर कृत्रिमाः॥
पूर्वः पूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥१५॥
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः॥
पार्ष्णिग्राहो भवेद्राजा शत्रोर्मित्राभियोगिनः ॥१६॥
पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम्॥
मित्रेण शत्रोरुच्छेदं न शंसन्ति पुरातनाः ॥१७॥
मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम्॥
शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि ॥१८॥
प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम्॥
नान्यथा पृथिवीं जेतुं शक्त्या राम जिगीषुणा ॥१९॥
प्रतापवृद्धिः कर्तव्या तस्माद्राज्ञा यथा तथा॥
तथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत ॥२०॥
जिगीषुर्धर्मविजयी तथा लोकं वशं नयेत्॥
यः स्यादधर्मविजयी तस्मादुद्विजते जनः॥
प्राप्यापि वसुधां कृत्स्नां न चिरं श्रिथमश्नुते ॥२१॥
धर्मेण यज्ञो भवतीह वृद्धिर्धर्मेण वृद्धिश्च तथापरत्र॥
धर्मेण लब्धा वसुधा जितारिर्भुक्त्वा चिरं नाकमनुप्रयाति ॥२२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने राज्यमण्डलवर्णनं नाम पञ्चचत्वरिंशदुत्तरशततमोऽध्यायः ॥१४५ ॥।

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP