संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०४४

खण्डः २ - अध्यायः ०४४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
अतः परं प्रवक्ष्यामि शान्तिकर्म गवां तव॥
नित्यं नैमित्तिकं काम्यं तथा पुष्टिविवर्धनम् ॥ऽ॥
पञ्चमीषु च शुक्लासु श्रियः पूजा विधीयते॥
गवां पुरीषे धर्मज्ञ धूपदीपान्नसम्पदा ॥२॥
वन्यैः सुकुसुमैर्भक्त्या ब्राह्मणानां च पूजनम्॥
तत्रैवाहनि कर्तव्यं वासुदेवस्य पूजनम् ॥३॥
स हि सर्वगतो देवः क्षीरोदधिनिकेतनः॥
त्रैलोक्याधारभूतानां विशेषेण तथा गवाम् ॥४॥
आश्वयुक्शुक्लपक्षस्य पञ्चदश्यां भृगूत्तम॥
वृत्रान्तकस्य कर्तव्यस्तदा यागस्तु गोमता ॥'५॥
गन्धधूपनमस्कारपुष्पदीपान्नसम्पदा॥
इह प्रजायाः साम्राधः पृषदश्वा तथैव च ॥६॥
घृतप्रतीकश्च तथा रौद्रीभिश्च भृगूत्तम॥
नित्याभिश्च तथा वह्निं घृतेन जुहुयाद्बुधः ॥७॥
अम्भस्थेति च मन्त्रेण लवणं चाभिमन्त्रयेत्॥
दध्ना संप्राशनं कार्यं दधिक्राव्णेत्यनन्तरम् ॥८॥
यजमानेन देया च धेनुः स्याच्छतधेनुना॥
तदूनवित्तो दद्याच्च होत्रे शक्त्यैव दक्षिणाम् ॥९॥
गावः स्वलंकृताः पश्चाद्गन्धमाल्यफलादिभिः॥
स्वाशिता मुक्तवत्साश्च कुर्युर्वह्निं प्रदक्षिणम् ॥१०॥
क्ष्वेडाकिलकिलाशब्दैः शङखवाद्यरवैस्तथा॥
वृषाणां योजयेद्युद्धं गोपालानां तथैव च ॥११॥
द्वितीयेऽहनि धेनूनां वृषाणां सह वत्सकैः॥
लवणं तत्प्रदातव्यं ब्राह्मणेनाभिमन्त्रितम ॥१२॥
भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत्॥
स्वस्ति वाच्यं ततः पश्चाद्दत्तदायान्विसर्जयेत ॥१ ३॥
नित्यमेतत्तु वो दिष्टं शान्तिकर्म शुभं गवाम्॥
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ॥१४॥
धेनूनां मारके प्राप्ते तथा रोगाऽद्युपद्रवे॥
क्षीरक्षये तथान्यस्मिन्प्रकृतेस्तु विपर्यये ॥१५॥
त्रिरात्रोपोषितो विद्वानेकरात्रोषितोऽथ वा॥
गवां मध्ये शुभे देशे स्थण्डिलं परिकल्पयेत ॥१६॥
अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम्॥
पूजयेत्कर्णिकामध्ये वासुदेवं श्रिया सह ॥१७॥
कृसरैः पूजन कार्यं देवतानां यथाक्रमम्॥
यासां तासां प्रवक्ष्यामि तव नामानि भार्गव ॥१८॥
सुभद्रां नाम दिग्धेनुं पूर्वभागे समर्चयेत्॥
पूजनीयस्ततो ब्रह्मा सुरभिस्तदनन्तरम् ॥१९॥
ततः सूर्यस्ततो धेनुर्बहुरूपा द्विजोत्तम॥
ततस्तु पृथिवीं देवीं ततोऽनन्तं प्रपूजयेत् ॥२०॥
ततश्च विश्वरूपाक्षं दिग्धेनुं तदनन्तरम्॥
ततः सिद्धिं ततो ऋद्धिं ततः शान्तिं समर्चयेत् ॥२१॥
रोहिणी नाम दिग्धेनुस्ततः पूज्या द्विजोत्तम॥
ततश्चन्द्रमसं देवं महादेववृषं ततः ॥२२॥
महादेवं ततो देवं पूजयेत्तदनन्तरम्॥
इत्येता देवताः प्रोक्ताः कृसरे तव षोडश ॥२३॥
पत्रेषु पूजनीयाश्च दिक्पालाश्च यथादिशम्॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥२४॥
प्रत्येकां पूजयेद्राम देवतां प्रयतो द्विजः॥
पूर्णकुम्भानि सर्वाणि प्रत्येकं विनिवेदयेत ॥२५॥
भक्त्यास्थगितवक्त्राणि वर्धमानैस्सतण्डुलैः॥
सहिरण्यैर्यथाशक्ति ततो होमं समारभेत् ॥२६॥
वेदिं कृत्वा यथशास्त्रं समिध्य च हुताशनम्॥
एकैकं दैवतं राम समुद्दिश्य यथाविधि ॥२७॥
चतुर्थ्यन्तेन धर्मज्ञ नाम्ना तु प्रणवादिना॥
होमद्रव्यैस्तथैकैकं शतसंख्यं तु होमयेत् ॥२८॥
समिधः क्षीरवृक्षस्य अक्षतानि तिलाँस्तथा॥
सिद्धार्थकान्यथाज्यं च प्रत्येकं जुहुयात्क्रमात् ॥२९॥
ततो रक्षोहणैर्मन्त्रैर्जुहुयाद्गौरसर्षपान्॥
ततः समापयेद्विद्वानग्निकर्म यथाविधि ॥३०॥
सुवर्णं च तथा कांस्यं धेनुं वस्त्रयुगं तथा॥
कर्तुर्देयमुपस्रष्टुर्वस्त्रयुग्मं गुरोस्तथा ॥३१॥
भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत्॥
स्वस्ति वाच्यं ततः पश्चाद्दत्तदाया द्विजोत्तमाः ॥३२॥
रक्षोहणैस्तथा मन्त्रैः कुर्युरभ्युक्षणं गवाम्॥
गवां च पूजा कर्तव्या गन्धमाल्यानुलेपनैः ॥३३॥
मोक्तव्याश्च तदा वत्सा यथाकामं द्विजोत्तम॥
शान्तिकर्म गवामेतत्सर्वोत्पातप्रशान्तये ॥३४॥
कर्तव्यं भृगुशार्दूल परमं कर्म दारुणम्॥
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥३५॥
कर्ता तूपवसेत्तत्र कारकैश्च तथैव च॥
पूर्वभाद्रपदायोगमाहिर्बुध्न्यगते तथा ॥३६॥
स्नानं निशाकरे कुर्याद्द्वितीयेऽहनि शास्त्रवित्॥
उदुम्बरस्य पत्राणि पञ्चगव्यं कुशोदकम् ॥३७॥
रोचनां च समंगां च क्षिपेत्कुम्भद्वये ततः॥
कुम्भद्वयं बुधः कुर्याद्गन्धमाल्योज्ज्वलं दृढम् ॥३६॥
अकालमूलं संस्थाप्य कर्ता तेन तदा भवेत्॥
स्नात्वा गोवालचीराणि परिधाय समाहितः ॥३९॥
पूजयेच्चाप्यहिर्बुध्न्यमादित्यं च तथैव च॥
वरुणं च शशाङ्कं च गन्धमाल्यान्नसम्पदा ॥४०॥
धूपदीपनमस्कारैस्तथैव बलिकर्मणा॥
अक्षतानां च पात्राणि ततो राम चतुर्दश ॥४१॥
अहिर्बुध्न्याय रुद्राय सफलांश्च निवेदयेत्॥
खट्वांगेन तु दातव्यं तथा धूपं द्विजोत्तम ॥४२॥
ततस्तु पूजा कर्तव्या देवदेवस्य चक्रिणः॥
ॐकारपूर्वमाज्यं च सर्वासां जुहुयात्ततः ॥४३॥
देवतानां यथोक्तानामेकैकस्य शतंशतम्॥
गोवालशफशृङ्गैश्च त्रिवृतं कारयेन्मणिम् ॥४४॥
धारणं तस्य कर्तव्यं कण्ठे मूर्ध्न्यथवा भुजे॥
कर्त्रे चैवोपद्रष्ट्रे च शक्त्या देया च दक्षिणा ॥४५॥
ब्राह्मणानां च सर्वेषां यथावदनुपूर्वशः॥
अलंघयन्भद्रपदामथान्त्यां करोति यः स्नानमिदं सदैव॥
भवन्ति तस्यायुतशश्च गावः परामवाप्नोति तथैव वृद्धिम् ॥४६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने गवां शान्तिकर्म नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP