संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १०७

खण्डः २ - अध्यायः १०७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
स्नानान्यन्यानि ते वच्मि निबोध गदतो मम॥
रक्षोघ्नानि यशस्यानि मङ्गल्यानि विशेषतः ॥१॥
स्नानं घृतेन कथितं चायुषो वर्धनं परम्॥
राम गोशकृता स्नानं परं लक्ष्मीविवर्धनम् ॥२॥
स्नानं च कथितं दध्ना परं लक्ष्मीविवर्धनम्॥
तथा दर्भोदकस्नानं सर्वपापनिबर्हणम् ॥३॥
पलाशबिल्व कमलकुशस्नानं पुरो हितम्॥
वचा हरिद्रा मञ्जिष्ठा तगरं चारकं तथा ॥४॥
स्नानमेतद्विनिर्दिष्टं रक्षोघ्नं पापसूदनम्॥
वचाहरिद्रया युक्तं स्नानं रक्षोहणं परम् ॥५॥
आयुष्यं च यशस्यं च धन्यं मेधाविवर्धनम्॥
स्नानं पवित्रं मङ्गल्यं तथा काञ्चनवारिणा ॥६॥
क्रमादूनतरे किञ्चिद्रूप्यताम्रोदकैस्ततः॥
तथा रत्नोदकस्नानं सङ्ग्रामविजयावहम् ॥७॥
वैडूर्यं मध्यतः कृत्वा प्रवालैः परिवारयेत्॥
तेन पात्रेण यत्स्नानं सर्वकामकरं हितम् ॥८॥
स्नानं सर्वौषधैर्मुख्यं विवादे विजयप्रदम्॥
सर्वगन्धोदकस्नानं सौभाग्यारोग्यकारकम् ॥९॥
तथा बीजोदकस्नानं सर्वकर्मप्रसाधकम्॥
तथैवामलकस्नानमलक्ष्मीनाशनं परम् ॥१०॥
तिलसिद्धार्थकैः स्नानममङ्गल्यप्रणाशनम्॥
केवलैर्वा तिलैः स्नानमथवा गौरसर्षपैः ॥११॥
स्नानं प्रियङ्गुना प्रोक्तं तथा सौभाग्यवर्धनम्॥
सौभाग्यकं तथा स्नानं नागकान्ताप्रियङ्गुभिः ॥१२॥
पुरोचारुककुष्ठैश्च तथैव च विनिर्दिशेत्॥
धात्रीफलेन पद्मैश्च तथामलकवारिणा ॥१३॥
लक्ष्मीवृद्धिकरं स्नानं कथितं भार्गवोत्तम॥
पद्मोत्पलकदम्बैश्च तथा लक्ष्मीविवर्धनम् ॥१४॥
बलामतिबलां चैव तथा नागबलामपि॥
बलां मोटां चतुर्थी तु स्नानं वै बलवर्धनम् ॥१५॥
ब्रह्माकर्कोटकीमूलं कुमारी पद्मचारिणी॥
स्नाने रोगविनाशाय स्मृताः प्रत्येकशो द्विज ॥१६॥
मांसीमुराचोरकनागपुष्पैः सनागदानैरतिनाशकारि॥
तुरुष्ककक्कोलकजातिपूगैः फलैः समस्तैः सुतरां प्रदद्यात् ॥१७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नानाविधस्नानवर्णनन्नाम सप्तोत्तरशततमोऽध्यायः ॥१०७॥

N/A

References : N/A
Last Updated : December 16, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP