संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः ११५ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः ११५ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः ११५ Translation - भाषांतर ॥राम उवाच॥शरीरं सकलं देव तन्ममाख्यातुमर्हसि॥एतदेव परं ज्ञानं त्वं हि वेत्सि महाभुज ॥१॥पुष्कर उवाच॥भूमिः पञ्चगुणा ज्ञेया जलं ज्ञेयं चतुर्गुणम्॥तेजस्तु त्रिगुणं राम पवनो द्विगुणो मतः ॥२॥तत्रैकगुणमाकाशं नित्यं ज्ञेयं मनीषिभिः॥शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ॥३॥भूमेर्गुणं विजानीयादुपान्ते गन्धवर्जिताः॥रसगन्धविहीनास्तु तेजसः परिकीर्तिताः ॥४॥गन्धो रसस्तथा रूपं नास्ति वायोर्भृगूत्तम॥गन्धो रसस्तथा रूपं स्पर्शः खे न च विद्यते ॥५॥रसो गन्धस्तथा रूपं स्पर्शनं शब्द एव च॥भूम्यादीनां गुणाः प्रोक्ताः प्रधाना भृगुनन्दन ॥६॥आकाशजानि स्रोतांसि तथा श्रोत्रं विविक्तता॥श्वासोच्छ्वासौ परिस्पन्दो वाक् च संस्पर्शनं तथा ॥७॥वायवीयानि जानीयात्सर्वाण्येतानि पण्डितः॥रूपं संदर्शनं पक्तिं पित्तमूष्माणमेव च ॥८॥मेधा वर्णं बलं छाया तेजः शौर्यं तथैव च॥सर्वाण्येतानि जानीयात्तैजसानि शरीरिणाम् ॥९॥अम्भसानीह रसनं स्वेदः क्लेदो वसा तथा॥रसासृक्छुक्रमूत्रादि देहे द्रवचयस्तथा ॥१०॥शैत्यं स्नेहश्च धर्मज्ञ तथा श्लेष्माणमेव च॥पार्थिवानीह जानीहि प्राणकेशनखादि च ॥११॥अस्थ्नां समूहो धैर्यं च गौरवं स्थिरता तथा॥मातृजानि मृदून्यत्र त्वक् च मांसं च भार्गव ॥१२॥हदयं च तथा नाभिः स्वेदो मज्जा यकृत्तथा॥क्लोमान्तं च गुदं राम आमस्याशयमेव च ॥१३॥पितृजानि स्थिराण्यग्रभूमिजानीह यानि तु॥स्नायुशुक्रशिराश्चैव आत्मजानि निबोध मे ॥१४॥कामः क्रोधो भयो हर्षो धर्माधर्मात्मता तथा॥आकृतिः स्वरवर्णौ च चेतनाद्यं तथा वयः ॥१५३॥तामसानि तथा ज्ञानप्रमादालस्यतृट्क्षुधः॥मोहमात्सर्यवैगुण्यशोकायासभयानि च ॥१६॥कामक्रोधौ तथा शौर्यं यज्ञेप्सा बहुभाषिता॥अहङ्कारः परावज्ञा राजसानि महाभुज ॥१७॥धर्मेच्छा मोक्षकामित्वं परा भक्तिश्च केशवे॥दाक्षिण्यं व्यवसायश्च सात्त्विकानि विनिर्दिशेत् ॥१८॥चतुरः क्रोधनो भीरुर्बहुभाषी कलिप्रियः॥स्वप्ने गगनगश्चैव वहुवातो नरो भवेत् ॥१९॥अकालपलितः क्रोधी महाप्रज्ञो रणप्रियः॥स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत् ॥२०॥स्थिरचित्तः स्थिरोत्साहः स्थिराङ्गरचनान्वितः॥स्वप्ने जलसितालोकी बहुश्लेष्मा नरो भवेत् ॥२१॥रसस्तु प्रीणनो देहे जीवनो रुधिरस्तथा॥लेपनं च तथा मांसे मेदः स्नेहकरं च तत् ॥२२॥धारणं त्वस्थि कथितं मज्जा भवति पूरणी॥गर्भोत्पादकरं शुक्रं तथा वीर्यविवर्धनम् ॥२३॥तेजः प्राणकरं नित्यं तत्र जीवो व्यवस्थितः॥शुक्रादपि परं सारमपीतं हृदयोपमम् ॥२४॥षडङ्गानि प्रधानानि कथयिष्यामि ते शृणु॥द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च ॥२५॥षट्त्वचश्च शरीरेऽस्मिन्कीर्त्यमाना निबोध मे॥बाह्यतो ह्यधरा राम त्वचा रुधिरधारिणी ॥२६॥विलासकारिणी चान्या चतुर्थी कुष्ठकारिणी॥पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ॥२७॥कलाः सत्यस्मृता देहे तासांवक्ष्यामि लक्षणम्॥एका मांसधरा राम धमन्यो यत्र संस्थिताः ॥२८॥असृग्धरा द्वितीया तु यकृत्प्लीहाश्रया मता॥मेदोधरा तृतीया स्यात्सूक्ष्मस्थूलाश्रया तु या ॥२९॥मज्जाश्रया चतुर्थी तु तथा श्लेष्मपरा मता॥पुरीषधारिणी चान्या यथा पक्वाशये स्थितेः ॥३०॥षष्ठी पित्तधरा नाम जठराग्नौ समाश्रिता॥शुक्राशया शुकधरा तथा ज्ञेया च सप्तमी ॥३१॥बुद्धीन्द्रियाणि पञ्चात्र श्रोत्रं प्राणं च चक्षुषी॥त्वक्तथा रसना चैव महाभूताश्रयाणि तु ॥३२॥इन्द्र्यार्थास्तथा पञ्च तेषां नामानि मे शृणु॥श्रोत्रस्य शब्दः कथितो गन्धो प्राणस्य पार्थिवः ॥३३॥रूपं च चक्षुषो ज्ञेयं त्वक् च संस्पर्शनं तथा॥रसनस्य रसश्चैव महाभूताश्रयास्तु ते ॥३४॥कर्मेन्द्रियाणि पञ्चात्र तेषां नामानि मे शृणु॥पायूपस्थं हस्तपादौ जिह्वा चैवात्र पञ्चमी ॥३५॥तेषामर्थास्तथा पञ्च तान्प्रवक्ष्याम्यतः परम्॥उत्सर्गं च तथानन्दं आदानगमने तथा ॥३६॥इन्द्रियाणि दशैतानि तेषां वै नायकं मनः॥पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च ॥३७॥इन्द्रियार्थाश्च पञ्चात्र महाभूतानि पञ्च च॥इन्द्रियेभ्यः पराः प्रोक्ताश्चत्वारो भृगुनन्दन ॥३८॥मनो बुद्धिस्तथैवात्मा अव्यक्तश्च महाभुज॥तदाश्रयाणीन्द्रियाणि इन्द्रियेभ्यः पराश्च ते ॥३९॥तत्त्वान्येतानि जानीहि चतुर्विंशतिसंख्यया॥येषामैक्यं महाभाग पुरुषः पञ्चविंशकः ॥४०॥संयुक्तस्तैर्वियुक्तश्च तथा मत्स्योदके उभे॥मनः संशयकृन्नित्यं तथा बुद्धिर्विवेचनी ॥४१॥आत्मा जीवः स्मृतो राम यो भोक्ता सुखदुःखयोः॥अव्यक्तो मिश्रितानीह रजःसत्त्वतमांसि च ॥४२॥पुरुषस्त्वपरो ज्ञेयो यश्च सर्वगतो महान्॥चतुर्विशतिकात्संख्याद्यः स नित्यः पृथक् स्थितः ॥४३॥एकत्रितानि तत्त्वानि पुरुषस्य तथैकतः॥न चैव व्यतिरिक्तानि तत्त्वानि पुरुषात्परम् ॥४४॥प्रकृतिः पुरुषो राम निष्फलः पञ्चविंशकः॥विकृतिस्तस्य विज्ञेया शेषस्तत्त्वगणो बुधः ॥४५॥सर्वतः पाणिपादोऽसौ सर्वतोक्षिशिरोमुखः॥पुरुषः स परो ज्ञेयः सर्वशक्तिस्तु सर्वतः ॥४६॥नादिर्न मध्यो नैवान्तो व्याप्तिसम्भवयोर्द्वयोः॥यस्य जानन्ति मुनयो यस्तं वेद स वेदवित् ॥४७॥स याति परमं स्थानं यो वेत्ति पुरुषं परम्॥एतदेव च विज्ञानं प्रस्तुतं शृणु भार्गव ॥४८॥सप्ताशयाः स्मृता देहे शृणु तानपि भार्गव॥आशयो रुधिरस्यैकः कफस्य च तथा परः ॥४९॥आमपित्ताशयौ चान्यौ ज्ञेयः पक्वाशयोऽपरः॥वायुमात्राशयौ चान्यौ आशया सप्त कीर्तितः ॥५०॥स्त्रीणां गर्भाशयो राम पित्तपक्वाशयान्तरे॥अष्टमः स भवेत्तासां यत्र गर्भः स तिष्ठति ॥५१॥ऋतौ विकोशा भवति योनिः कमलवत्सदा॥गर्भाशये ततः शुक्र धत्ते रक्तसमन्वितम् ॥५२॥अन्यत्र काले मुकुला योनिर्भवति योषिताम्॥न्यस्तं शुक्रमतो योनौ नैति गर्भाशयं मुने ॥५३॥ऋतावपि च योनिश्चेद्वातपित्तकफावृता॥भवेत्तस्या विशौचार्थं नैव तस्याः प्रजायते ॥५४॥वृक्का तु पुष्पसप्लीहं हृत्कोष्ठाङ्गयकृद् घनाः॥तण्डुलश्च महाभाग निबद्धान्याशये तु ते ॥५५॥रसस्य पच्यमानस्य साराद्भवति देहिनाम्॥प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च पुक्कसः ॥५६॥रक्तकिट्टाच्च भवति तथा दण्डकसंज्ञकः॥मेदो रक्तप्रसादाच्च वृक्कयोः सम्भवः स्मृतः ॥५७॥रक्तमांसप्रसादाच्च भवन्त्यन्त्राणि देहिनाम्॥सावित्रिव्योमसंख्यानि तानि स्त्रीणां विनिर्दिशेत् ॥५८॥त्रिव्योमानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः॥रक्तवायुसमायोगात्कालो यस्योद्भवः स्मृतः ॥५९॥कफप्रसादाद्भवति हृदयं पद्मसन्निभम्॥अधोमुखं तत्सुषिरं यत्र जीवो व्यवस्थितः ॥६०॥चैतन्यानुगता भावा सर्वे तत्र व्यवस्थिताः॥तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत् ॥६१॥दक्षिणे च तथा क्लोम पद्मस्यैव प्रकीर्तितम्॥स्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि तु ॥६२॥तेषां भूतानुगानां तु भवतीन्द्रियसम्भवः॥नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैत्तिकम् ॥६३॥कृष्णं च मण्डलं वातात्तथा भवति मातृकम्॥सर्वहृन्मण्डलं ज्ञेयं मातापितृसमुद्भवम् ॥६४॥पक्ष्ममण्डलमेकं तु द्वितीयं वर्त्ममण्डलम्॥शुक्ले तृतीयं कथितं चतुर्थं कृष्णमण्डलम् ॥६५॥दृङ्मण्डलं पञ्चमं तु नेत्रं स्यात्पञ्चमण्डलम्॥अन्ये तु नेत्रभागे द्वे तथाऽपाङ्गकनीनिके ॥६६॥याभ्यां नेत्रस्य जनिता मत्स्यसंस्थानता द्विज॥नासासमीपे कथितं तदपाङ्गेतिसंज्ञितम् ॥६७॥कपोलयोः समीपे तु तथा प्रोक्ता कनीनिका॥मांसासृक्कफजा जिह्वा मेदोऽसृक्कफमांसजा ॥६८॥वृषणौ च तथा ज्ञेयौ सर्वेषामेव देहिनाम्॥प्राणस्यायतानान्यत्र दशैतानि निबोध मे ॥६९॥मूर्धा च हृदयं नाभि कण्ठो जिह्वा निबन्धनम्॥रक्तं शुक्रं गुदो वस्तिस्तथा गुल्फौ च भार्गव ॥७०॥कण्डराः षोडश प्रोक्तास्तथा देहे शरीरिणाम्॥द्वे करस्थे तथा द्वे च चरणस्थे पृथक्पृथक् ॥७१॥चतस्रः पृष्ठगा ज्ञेया ग्रीवायां तावदेव तु॥जलानि षोडशैवात्र विभागस्तेषु कथ्यते ॥७२॥मांसस्नायुशिरास्थिभ्यः चत्वारस्तु पृथक्पृथक्॥मणिबन्धानि गुल्फेषु निबद्धानि परस्परम् ॥७३॥शंकूनि च स्मृतानीह हस्तयोः पादयोस्तथा॥ग्रीवायां च तथा मेढ्रे कथितानि मनीषिभिः ॥७४॥देहेऽस्मिंश्च तथा ज्ञेयाश्चतस्रो मांसरज्जवः॥पृष्ठवंशोभयगते द्वे द्वे तत्र प्रकीर्तिते ॥७५॥तावन्त्यश्च तथाप्येतास्तासां बन्धनकारकाः॥सीवन्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः ॥७६॥एका मेढ्रगता चैका तथा जिह्वागता परा॥अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि तु ॥७७॥सूक्ष्मैः सह चतुःषष्टिं दशना विंशतिर्न्नखाः॥पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् ॥७८॥चत्वारिंशत्तथास्थीनि जंघयोस्तावदेव तु॥द्वेद्वे जानुकपोलौष्ठफलकांससमुद्भवे ॥७९॥अक्षिस्थलेऽष्टकं श्रोणिफलके चैवमादिशेत्॥भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ॥८०॥ग्रीवापञ्चदशास्थीनि जत्र्वेकं च तथा हनुः॥भ्रूमूलं द्वे ललाटाक्षिगण्डनासा तथास्थिका ॥८१॥सर्जुकास्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः॥द्वौ शङ्खकौ कपालानि चत्वार्येव शिरस्तथा ॥८२॥उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः॥तथा चैवात्र सन्धीनां द्वे शते तु शताधिके ॥८३॥अष्टषष्टिश्च शाखासु षष्टिश्चैकविवर्जिता॥अन्तराधौ त्वशीतिश्च कथिता भृगुनन्दन ॥८४॥न च स्नायुशतान्यत्र द्वे तु त्रिंशाधिके मते॥अन्तराधौ तु कथिता ह्यूर्ध्वगाश्चैव सप्ततिः ॥८५॥षट्कृतानि च शाखासु कथितानि मनीषिभिः॥पञ्चपेशीशतान्यत्र चत्वारिंशत्तथोर्ध्वगाः ॥८६॥चत्वारिंशच्छतान्यत्र तथा शाखासु पण्डितैः॥अन्तराधौ तथा षष्टिः पेश्यस्तु कथिता बुधैः॥८७॥स्त्रीणां चैवाधिका ज्ञेया त्रिंशतिश्चतुरुत्तरा॥स्तनयोर्दश विज्ञेया योनौ राम तथा दश ॥८८॥गर्भाशये तथा ज्ञेयाश्चतस्रो गर्भचिन्तकैः॥त्रिंशच्छतसहस्राणि तथान्यानि दशैव तु ॥८९॥षट्पञ्चाशत्सहस्राणि शिराणां कथितानि तु॥ता वहन्ति रसं देहे केदारमिव कुल्यकाः ॥९०॥अभ्यंगादि तथा सर्वं स्वेदलेपादिकं च यत्॥द्विसप्ततिस्तथा कोट्यो रोम्णां विद्धि महाभुज ॥९१॥मज्जाया मेदसश्चैव वसायाश्च तथा द्विज॥मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा ॥९२॥रक्तस्य च रसस्याथ क्रमशोञ्जलयः स्मृताः॥अर्धार्धाभ्यधिकाः सर्वाः पूर्वार्धाञ्जलितः स्मृताः॥९३॥अर्धांजलिश्च शुक्रस्य तथार्धा च तथौजसः॥रजसस्तु तथा स्त्रीणां चतस्रः कथिता बुधैः॥९४॥समधातोरिदं प्रोक्तं प्रमाणं देहचिन्तकैः॥विलक्षणानि देहानि नित्यमेव शरीरिणाम्॥तेषां भेदेन भिद्यन्ते मलदोषानुरूपतः ॥९५॥एतच्छरीरं मलदोषपिण्डं धात्वाश्रयं कर्मवशानुबद्धम्॥मोक्षाय यस्येह भवेत्स धन्यो मोक्षे च हेतुः परमो हि विष्णुः॥९६॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शरीरविषयवर्णनन्नाम पञ्चदशोत्तरशततमोऽध्यायः ॥११५॥ N/A References : N/A Last Updated : December 16, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP