संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ००३

खण्डः २ - अध्यायः ००३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
सर्वलक्षणलक्षण्यो विनीतः प्रियदर्शनः॥
अदीर्घसूत्री धर्मात्मा जितक्रोधो जितेन्द्रियः ॥१॥
स्थूललक्षो महोत्साहः स्मितपूर्वाभिभाषकः॥
सुरूपः कुलसंपन्नः क्षिप्रकारी महाबलः ॥२॥
ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः॥
अलोलुपस्संयतवाग्गंभीरः प्रियदर्शनः ॥३॥
नातिदण्डो न निर्दण्डः चारचक्षुरजिह्मगः॥
व्यवहारे समः प्राप्ते पुत्रस्य रिपुणा सह ॥४॥
रथे गजेऽश्वे धनुषि व्यायामे च कृतश्रमः॥
उपवासतपःशीलो यज्ञयाजी गुरुप्रियः ॥५॥
मन्त्रिसांवत्सराधीनः समरेष्वनिवर्तकः॥
कालज्ञश्च कृतज्ञश्च नृविशेषज्ञ एव च ॥६॥
पूज्यं पूजयिता नित्यं दण्ड्यं दण्डयिता तथा॥
षाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ॥७॥
उक्तैरनुक्तैस्तु गुणैरनेकैरलङ्कृतो भूमिपतिश्च कार्यः॥
सम्भूय राष्ट्रप्रवरैर्यथावद्राष्ट्रस्य रक्षार्थमदीनसत्त्वः ॥८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजलक्षणं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP