संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १७४

खण्डः २ - अध्यायः १७४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


स्वोदयास्तविलग्नौ चन्द्रार्कयोः ततश्चन्द्रोदयास्तकालौ साध्यौ इष्टकालिकचन्द्रार्कस्वक्रान्ति त्रिज्यागुणे विलस्वज्यया विभजेत् ।
लब्धेग्रे क्रान्तिदिष्टेशेन ततोर्कचन्द्रशंकुकार्यौ पृथक्च्छंकुहताक्षज्यावलम्बकेन विभजेत् ।
लब्धे शङ्कुतले तौ चोत्तरे स्वरात्रौ दिवसयाम्ये द्वादशशंकुतलयोर्दिशैको योगो दिग्भेदवियोगः पृथग्बाहुः तयोर्दिगैको वियोगोन्यथा योगःस्फुटबाहुः स्वदृगर्ण्यवर्जभुजावर्गविश्लेषपदयोगः कपालभेदे साम्ये वियोगः प्रथमांशजां दिगैवातिश्लेषो दिग्भेदो युतिर्द्वितीयः प्रथमद्वितीयवर्गयोगपदं कोटिः कोटि वाहुवर्गयोगमूलकर्णः अर्कोनाश्चन्द्रार्केर्द्धं तस्माज्ज्याकेन्द्रलिप्ताश्चन्द्रमासलिप्ताः तस्माज्ज्याकेन्द्रलिप्ताश्चन्द्रमानघ्नाः नवत्याहृतास्मिन् केन्द्र प्रयमचतुर्थपदस्थे द्वितीयस्थे कृष्णम् इन्दुमानचतुर्भागकृतास्मितेर्कमानभुजककर्णकोटिसूत्राण्यङ्गुलतां यान्ति पूर्वापराशाभिमुखार्केन्द्राण्याद्य पदगे मितशृङ्गं परिलिखेत् ।
एवं द्वितीयतृतीयगे कृष्णं बिन्दुमर्कं परिकल्प्य ततोर्काद्यथा शशी तथा भुजा देया तदग्रात्स्वाभिमुख्येन कोटिः ततः तदंतलग्नेन पूर्वान्तं पुनःपुनः सत्कुलम् ।
यावदविशेषं लब्धोनं स्यात् इति लम्बनं संस्कृते तिथ्यन्ते ग्रहणमध्यश्चन्द्रश्चन्द्रवत्कल्पिताद्द्वित्रि भात्स्वक्रान्तिः अक्षे सौम्या शोध्या याम्या देया तज्ज्यामध्यमचन्द्रार्कभुक्त्यंतरहता शरेर्कहतया त्रिज्यया विभजेत् ।
लब्धभवनतिः स्वक्रान्तितोक्षेधिके सौम्यान्यथा याम्या तात्कालिकचन्द्रविक्षेपावनन्यादिगैक्ये योगो दिग्भेदो वियोगः स्फुटविक्षेपः तेन स्थिते मन्दभदलोनयुतैर्ग्रहैः स्पर्थनिमीलोन्मीलनमोक्षकालिकैलम्बनमानि कार्याणि मध्यलम्बनस्येष्टलंबनस्य धनर्णेकोन्तरे भेदयोगः फलम् ।
तेन मध्यस्थित्यरविमन्दावेव युते स्वकालिके स्फुटे भवतः पञ्चदशं घटिकाकालिकं लंबने फलेन हीने विमंदार्धे कार्ये शेषं पीरलेखाढ्ये चद्रग्रहणवद्भवति॥
धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा॥
इदं ग्रहाणां गणितं सर्वकामप्रदं शिवम्॥
गतिमेकस्य विज्ञाय ग्रहस्य सुसमाहितः॥
तस्य लोकमवाप्नोति नात्र कार्या विचारणा॥
सर्वग्रहगतिं ज्ञात्वा ब्रह्मलोकं प्रपद्यते॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्॥
कामानवाप्नुयात्कामी मोक्षार्थी परमं पदम्॥
सम्यग्ग्रहगतिं ज्ञात्वा पात्रतां याति वै द्विजः॥
न चेद् वृत्तिं तथा कुर्यात्तथा वृत्तिं विवर्जयेत्॥
पात्राणामपि तत्पात्रं ग्रहाणां वेत्ति यो गतिम्॥
वेदास्तु यज्ञार्थमभिप्रवृत्ताः कलानुपूर्व्या विहिताश्च यज्ञाः॥
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद सर्वम्॥
इनि श्रीवि० ध० द्वि. ख० मा० सं० पैतामहसिद्धान्तो नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥१७४॥
॥ समाप्तं पैतामहसिद्धान्तम् ॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP