संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १३२

खण्डः २ - अध्यायः १३२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
अष्टादशभ्यः शान्तिभ्यः शान्तयो याः सुरोत्तम॥
भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच॥
अमृता चाभया सौम्यास्तिस्रोन्याः सन्ति भार्गव॥
एकापि तासां विज्ञेया सर्वकर्मफलप्रदा ॥२॥
सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका॥
पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च ॥३॥
राम उवाच॥
शान्तीनां मे त्वमाचक्ष्व स्वरूपाणि महाभुज॥
पितामहसमो लोके सर्वज्ञोऽपि मतो मम ॥४॥
पुष्कर उवाच॥
अमृता शर्वदैवत्या अभया ब्रह्मदैवता॥
सौम्या च सोमदैवत्या कथिता भृगुनन्दन ॥५॥
अन्यासां देवता ज्ञानं नाम्नैव कथितं तव॥
आथर्वणानां शान्तीनां निबोध गदतो मम ॥६॥
अमृता चित्रवर्णा स्यादभया तु शशिप्रभा॥
सौम्या शुक्लैव विज्ञेया नीला भवति वैष्णवी ॥७॥
बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा॥
रुक्मवर्णा तथैवैन्द्री वायव्या हरिता भवेत् ॥८॥
शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा॥
भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका ॥९॥
त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा॥
आग्नेय्यग्निसुवर्णा स्याच्छुक्ला मातङ्गिनी भवेत् ॥१०॥
प्रवालाभा च गान्धर्वी कृष्णा वै नैनृता तथा॥
रोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत् ॥११॥
पार्थिवी च मयूराभा वर्णतः कथितास्तव॥
अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि ॥१२॥
अमृता चाभया सौम्या तिस्रस्तु भृगुनन्दन॥
तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः ॥१३॥
प्राजापत्या तथाग्नेयी याम्या वै नैर्ऋती तथा॥
कौबेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः ॥१४॥
वायव्या चैव कौमारी वैष्णवी रुद्रदैवता॥
अन्तरिक्षे विनिर्दिष्टाः शान्तयो द्विजसत्तम ॥१५॥
ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथेरिता॥
वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा ॥१६॥
आद्यास्तु कथितास्तुभ्यं कर्तव्याश्च विजानता॥
यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि ॥१७॥
तद्दैवत्यास्तथा मन्त्राः सर्वासां गर्भ उच्यते॥
मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते ॥१८॥
मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः॥
सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश ॥१९॥
शान्त्यातीतन्तु भैषज्यं त्रिसप्तीयं तथैव च॥
अभया च तथा राम तथा चैवापराजिता ॥२०॥
आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा॥
वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश ॥२१॥
होमस्तथैषां मन्तव्यः सर्वशान्तिषु भार्गव॥
पृथक्प्रधानतः कल्पास्तिस्रः पूर्वाः प्रकीर्तिताः ॥२२॥
गणेगणे तु गां दद्याद्गां गर्भे गां तथा मणौ॥
अराजा भूमिपालस्तु दद्याद्दश दशैव तु ॥२३॥
निष्कामः सभुवं चैव तथा दद्यात्पुरोधसे॥
अभयाया मणिः कार्यो वरुणस्य भृगूत्तम ॥२४॥
शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः॥
वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः ॥२५॥
ब्रह्मरक्षस्तथा ब्रह्म्या मैत्र्याः स्यात्कनको मणिः॥
वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः शङ्खजो भवेत् ॥२६॥
औदुम्बरश्च कौबेर्या भार्गव्यायाः शतावरीम्॥
प्राजापत्या बिल्वमणिस्त्वाष्ट्र्याः संस्कृतको मणिः ॥२७॥
दाक्षायणश्च कौमार्य्या आग्नेय्याश्च तदेव तु॥
मातङ्गिन्या जिगितजं गान्धर्व्या अजशृङ्गजम् ॥२८॥
नैर्ऋत्यामायसं चैव आङ्गिरस्यास्तथाञ्जनम्॥
शतकाण्डश्च याम्यायाः पार्थिव्या अपि पार्थिवम् ॥२९॥
अद्भुतस्य बलं ज्ञात्वा कृच्छ्रं कुर्यात्पुरोहितः॥
प्रागेव कुर्याच्छमनमादावेवाद्भुतस्य तु ॥३०॥
कृतकृच्छ्रस्तु कुर्वीत ततः शान्तिमुपोषितः॥
अरण्यां पातयेद्वह्निं सर्वास्वेतासु शान्तिषु ॥३१॥
उपवासदिनस्यान्ते वह्निमुत्पाद्य यत्नतः॥
उत्पन्नमन्नं विभजेत्क्रव्यादं सौम्यमेव च ॥३२॥
कृत्वा कपाले क्रव्यादं ध्रुवेण नैर्ऋतीं दिशम्॥
शान्त्यागारे स्थापयेच्च शान्त्यर्थे सौम्यमेव वा ॥३३॥
कृष्णोष्णीषः कृष्णवासाः कृष्णमाल्यानुलेपनः॥
पुरोहितः प्रदेशं तु गत्वा वै नैर्ऋतीं यजेत् ॥३४॥
मृन्मयं जीर्णशीर्षे तु गन्धमाल्यानुसम्पदा॥
कृष्णवस्त्रैस्तु संच्छाद्य ततस्तूपहरेद्बलिम् ॥३५॥
वाद्यघोषेण महता तथा कोलाहलैः शुभैः॥
ततोऽग्नौ जुहुयात्सम्यङ्मेदःप्रभृति वै द्विज ॥३६॥
ये पिशाचाश्चतुर्भिस्तु इषीका शर्करी ततः॥
केवले जुहुयाद्वह्नौ करशुक्त्या श्रवामया ॥३७॥
फलीकरणमग्नौ च हुत्वा भुक्त्वा च पावकम्॥
अपश्यन्स्वगृहं यायात्स्नात्वा श्वेताम्बरस्ततः॥ ॥३८॥
अहोमुचं शान्तिकं च जप्त्वा तिष्ठेत्सुयन्त्रितः॥
रात्रौ त्रिभागशेषायां शान्तिकर्म समारभेत् ॥३९॥
शान्तिकल्पविधानज्ञः सदस्यैः सहितस्ततः॥
एकः कर्मणि युक्तः स्यादेको मन्त्रस्य निश्चये ॥४०॥
एष शान्तिविधिः प्रोक्तः समासात्सर्वशान्तिषु॥
विस्तरे विस्तरः प्रोक्तः शान्तिकर्म ह्यथर्वणः ॥४१॥
धनेन पूज्योऽथ पुरोहितः स्यात्तथोपदेष्टा गुरुरप्रमत्तः॥
सांवत्सरो यस्तु ततः सदस्याः पूज्यास्ततो विप्रवराश्च सर्वे ॥४२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शान्तिकर्मवर्णनन्नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥१३२॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP