संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०९५

खण्डः २ - अध्यायः ०९५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
वैवाहिकेऽग्नौ कुर्वीत कर्म स्मार्तं सदा गृही॥
दायकालाहृते वापि पितुर्मरणकालिके ॥१॥
मातुर्वा भृगुजश्रेष्ठ श्रौतं वैतानिकाग्निषु॥
देवतानां पितॄणां च ऋषीणां च तथा नरः ॥२॥
ऋणवाञ्जायते यस्मात्तन्मोक्षे प्रयतेत्सदा॥
देवानामनृणो जन्तुर्यज्ञैर्भवति मानद ॥३॥
स्वल्पवित्तश्च पूजाभिरुपवासैर्व्रतैस्तथा॥
श्राद्धेन पूजया चैव पितॄणामनृणो भवेत् ॥४॥
ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा॥
हुतं चैवाहुतं चैव निर्वाप्यं प्रहुतं तथा ॥५॥
प्राशितं च महाभाग पञ्चयज्ञान्न हापयेत्॥
हुतमग्नौ विजानीयादहुतं बलिकर्म यत् ॥६॥
पिण्डनिर्वापणं राम निर्वाप्यं परिकीर्तितम्॥
प्रहुतं च यथायज्ञं पितृयज्ञं तथैव च ॥७॥
प्राशनं च तथा प्रोक्तं यद्भुक्तं तदनन्तरम्॥
पञ्चयज्ञान्सदा कुर्याद् गृही पापापनुत्तये ॥८॥
देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च॥
मानुष्यमृषियज्ञं च कुर्यान्नित्यमतन्द्रितः ॥९॥
देवयज्ञं हुतं विद्याद्भूतयज्ञं बलिक्रिया॥
पितृयज्ञं तथा पिण्डैर्ऋषियज्ञं च भार्गव ॥१०॥
स्वाध्यायसेवा विज्ञेया तथै वातिथिपूजनम्॥
मनुष्ययज्ञो विज्ञेयः पञ्चयज्ञान्न हापयेत् ॥११॥
विष्णुं यजेत्तथा देवं हविर्यज्ञैश्च सप्तभिः॥
अग्न्याधानं महाभाग तथाग्निहवनक्रिया ॥१२॥
दर्शं च पौर्णमासं च चातुर्मास्यं तथैव च॥
द्विराग्रहायणेष्टिश्च पाके च यवधान्ययोः ॥१३॥
विरूढा पशुबन्धश्च तथा सौत्रामणिर्द्विजः॥
सप्तभिः सोमसंस्थाभिर्यजेद्देवं सनातनम् ॥१४॥
अग्निष्टोमं महाभाग चात्यग्निष्टोममेव च॥
उक्थं च पावनीं चैव प्रतिरात्रं तथैव च ॥१५॥
वाजपेयञ्च धर्मज्ञ आप्तोर्यामं तथैव च॥
अन्यैश्च विविधैर्यज्ञैः पौण्डरीकादिभिस्तथा ॥१६॥
गोसवेनाश्वमेधेन राजसूयेन वा पुनः॥
तथा पुरुषमेधेन सर्वमेधेन भार्गव ॥१७॥
अन्यैश्च विविधैर्यज्ञैर्नामकल्पोचितैस्तथा॥
यजनं देवदेवस्य वासुदेवस्य कारयेत् ॥१८॥
यज्ञो विष्णुर्महातेजा यजमानः स एव हि॥
त एव यज्ञपात्राणि यज्ञद्रव्याणि यानि च ॥१९॥
तं यजेत्सततं राम सर्वदेवमयं हरिम्॥
सत्येन वै यजेद्देवं प्रत्यब्दं मुनिपुङ्गव ॥२०॥
पशुप्रत्ययनं कुर्याच्चातुर्मासिकमेव च॥
इष्टिं वैश्वानरीं कुर्यात्तथा स्वल्पधनो नरः ॥२१॥
अत्येवाल्पे धने सोमं पिबेद्भार्गवसत्तम॥
आयुः पुत्रान्यशो मेधां धनमन्त्रगणं तथा ॥२२॥
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत्॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये ॥२३॥
अधिकं वापि विद्येत स सोमं पातुमर्हति॥
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणा ॥२४॥
अनाहिताग्निर्भवति ब्राह्मणो विभवे सति॥
सर्वदेवमयो विष्णुः प्रत्यहं तस्य पूजनम् ॥२५॥
प्रतिमायामपि तथा कर्तव्यं भृगुसत्तम॥
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु वै द्विजाः ॥२६॥
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम्॥
तत्तद्देवनिकायेषु तथैव स्वयमेव वा ॥२७॥
पूजा कार्या बहिर्वेदौ श्रद्धया भृगुनन्दन॥
नत्वल्पदक्षिणैर्यज्ञैर्यजेतेह कदाचन ॥२८॥
विष्णुं देवनिकायस्थं यथाश्रद्धमरिन्दम॥
तपसा पूजयेन्नित्यं तस्मादल्पधनो नरः ॥२९॥
संपूज्य देवं परमान्नगन्धैर्धूपैः सुगन्धैश्च फलैश्च मुख्यैः॥
तस्मादवाप्नोति स सर्वयज्ञांस्तस्मात्प्रपूज्यः सततं महात्मा ॥३०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने गृहस्थधर्म वर्णनन्नाम पञ्चनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP