संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८८

खण्डः २ - अध्यायः ०८८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
निद्रां जह्याद् गृही राम नित्यमेवारुणोदये॥
वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्वकम् ॥१॥
स्नानं समाचरेत्प्रातः सर्वकल्मषनाशनम्॥
वेगोत्सर्गं न कुर्वीत फालकृष्टे तथा शुचौ ॥२॥
गोष्ठे न चाग्नौ न तटे द्रुमच्छायासु शाद्वले॥
पथि भस्मनि तोये च नांगणे न च गोपथे ॥३॥
नाग्न्यर्कानागतोयेषु प्रतिवाते तथैव च॥
न वेगितो न कार्यस्थो वेगोत्सर्गं समाचरेत् ॥४॥
उदङ्मुखस्तु सन्ध्यासु दिवा वै भृगुनन्दन॥
दक्षिणाभिमुखो रात्रौ नाकाशे तु कथञ्चन ॥५॥
कर्णस्थब्रह्मसूत्रस्तु वस्त्राच्छादितमस्तकः॥
अभ्युद्धृताभिरद्भिस्तु मृद्भिः शौचं समाचरेत् ॥६॥
कृतशौचः शुचौ देशे प्राङ्मुखः सुसमाहितः॥
उदङ्मुखस्तु धर्मज्ञ तथान्तर्जानुरेव च ॥७॥
उपस्पृशेच्च धर्मज्ञ शुद्धपादकरः सदा॥
एकहस्तार्पितेनाऽथ फेणबुद्बुदिना तथा ॥८॥
अग्निपक्वेन तोयेन ननु नोपस्पृशेद्बुधः॥
अङ्गुल्यग्रे भवेद्दैवं ब्राह्ममङ्गुलिमूलके ॥९॥
पैत्र्यं तर्जनिमूले स्यात्कनिष्ठायाश्च मानुषम्॥
ब्राह्मेण त्रिः पिबेदापः प्रमृज्यात्तु ततो मुखम् ॥१०॥
खान्यद्भिः संस्पृशेत्पश्चान्मूर्धानं नाभिमेव च॥
उपस्पृश्य ततः पश्चाद्भक्षयेद्दन्तधावनम् ॥११॥
भुक्त्वा च निक्षिपेद्राम नित्यमेव समाहितः॥
उदङ्मुखः प्राङ्मुखो वा न याम्याशापराङ्मुखः ॥१२॥
मांसन्न भक्षयेच्चैव नोर्धशुष्कं न पिच्छिलम्॥
सुशिरं मधुरं चाम्लं वित्वचं पत्रसंयुतम ॥१३॥
समपूर्वमतिस्थूलं कुब्जकीटविनाशितम्॥
शाल्मल्यश्वत्थभव्यानां धवकिंशुकयोरपि ॥१४॥
कोविदारशमीपीलुश्लेष्मातकबिभीतकान्॥
वर्जयेद्दन्तकाष्ठेषु गुग्गुलं क्रमुक तथा ॥१५॥
वटासनार्कखदिरकरवीरांश्च भक्षयेत्॥
जात्यश्वबिल्वबदरं मूलं च ककुभस्य च ॥१६॥
अरिमेदं प्रियङ्गुं च कण्टकिन्याश्च भार्गव॥
प्रक्षाल्य भक्षयेत्पूर्वं प्रक्षाल्यैव च संत्यजेत् ॥१७॥
पतितेऽभिमुखं शस्तं शान्ताशाभिमुखे दिनम्॥
सौभाग्यकामो वामेन भक्षयेत्प्राक् सुसंयतः ॥१८॥
मुखभागेन धर्मज्ञ वाग्यतश्चैव भक्षयेत्॥
मलशौचं ततः कृत्वा सम्यक् स्नानमथाचरेत् ॥१९॥
न स्नानमाचरेद्भुक्त्वा नाविज्ञाते जलाशये॥
नातुरो नारुणकरैरनाक्रान्ते नभस्तले ॥२०॥
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात॥
परांभसि तथैवाल्पे नासिरस्कः कथञ्चन ॥२१॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम्॥
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ॥२२॥
खानि रात्रौ शयानस्य स्रवन्ति पुरुषस्य च॥
तस्मात्सर्वप्रयत्नेन प्रातःस्नानं समाचरेत् ॥२३॥
प्रातःस्नायी सदा राम नरकं न च पश्यति॥
यः करोति सदा राम स्नानं तु सवनद्वयम् ॥२४॥
स तु स्वर्गमनुप्राप्य त्रिदशैरपि पूज्यते॥
तथा त्रिषवणस्नायी स्वर्गलोके महीयते ॥२५॥
मानुष्यं प्राप्य भवति रूपयौवनसंयुतः॥
धनधान्यवति स्फीते कुले चैव प्रसूयते ॥२६॥
रूपौदार्यगुणोपेताः स्त्रियश्चाप्नोत्यनिन्दिताः॥
धर्मे मतिश्चास्य भवेद्यशसा च विराजते ॥२७॥
तस्मात्सदा धर्मपरेण राम तीर्थेषु मुख्येषु सरस्सु चैव॥
स्नानं च कार्यं सुमलापहर्तृ नाकप्रदं कामकरं सुखाय ॥२८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने स्नानवर्णनो नामाष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP