संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७१

खण्डः २ - अध्यायः ०७१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
दण्डप्रणयनार्थाय राजा सृष्टः स्वयंभुवा॥
देवभागानुपादाय सर्वभूताभिगुप्तये ॥१॥
तेजसा यदयं कश्चिन्नैव शक्नोति वीक्षितुम्॥
तदा भवति लोकेषु राजा भास्करवत्प्रभुः ॥२॥
यदस्य दर्शने लोकः प्रसादमुपगच्छति॥
नयनानन्दकारित्वात्तदा भवति चन्द्रमाः ॥३॥
चारैर्यदायं व्याप्नोति सर्वलोकं यदृच्छया॥
तदा भवति लोकेषु राजा देवः समीरणः ॥४॥
यदाऽपराधिनां चैव विधत्ते निग्रहं नृपः॥
तदा भवति लोकेषु राजा वैवस्वतः सदा ॥५॥
यदा भवति माहात्म्यात्क्रुद्धबुद्धान्नरान्नृपः॥
अनिच्छन्नपि लोकेषु तदा भवति पावकः ॥६॥
करोति च यदा दानं धनानां सर्वतो नृपः॥
विसर्गार्थं सुरश्रेष्ठ तदा भवति वित्तदः ॥७॥
यदा च धनधाराभिर्वर्षन्प्लावयते जगत्॥
तदा स वरुणः प्रोक्तो राजा नयविशारदैः ॥८॥
क्षमा बलेन मनसा धारयन्सकलाः प्रजाः॥
अविशेषेण धर्मज्ञ पार्थिवः पार्थिवो भवेत् ॥९॥
यदाधिपत्येन जनान्समग्रान्परिरक्षति॥
तदा भवति देवेन्द्रः सर्वभूतानुकम्पिता ॥१०॥
उत्साहमंत्रशक्तिर्या प्रभुशक्तिश्च दैविकी॥
चतस्रः शक्तयस्तत्र वैष्णव्यः परिकीर्तिताः ॥११॥
कः समर्थः प्रजाः पातुं विना वैष्णवतेजसा॥
तिस्रस्तु शक्तयस्तस्य वैष्णव्यः पृथिवीपते ॥१२॥
दण्डप्रणयनं सम्यक् श्रोतुमिच्छामि तत्त्वतः॥
कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवा ॥१३॥
कथं च दण्डं प्रणयन्नरेन्द्रो धर्मेण युज्येद्यशसा च वीर॥
अर्थेन कामेन च स सर्वमेतद्ब्रवीहि यादोगण नाथपुत्र ॥१४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामवाक्याध्यायो नामैकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP