संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१८

खण्डः २ - अध्यायः ०१८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
इति सम्भृतसम्भारो राज्ञस्सांवत्सरस्तथा॥
कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते ॥१॥
मृते राज्ञि न कालस्य नियमोऽत्र विधीयते॥
तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः ॥२॥
घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ॥
अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः ॥३॥
स सान्त्वयित्वा स्वजनं भुक्त्वा बन्धनगांस्तथा॥
अभयं घोषयित्वा च कालाकांक्षी तथा भवेत् ॥४॥
नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव॥
न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज ॥५॥
न च भौमदिने राम चतुर्थ्यां न तथैव च॥
नवम्यां नाभिषेक्तव्यः चतुर्दश्यां च भार्गव ॥६॥
ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्ये तथैव च॥
नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने ॥७॥
नागश्चतुष्पदं विष्टिः किंस्तुघ्नः शकुनिस्तथा॥
करणानि न शस्यन्ते व्यतीपातदिनं तधा ॥८॥
नक्षत्रमुल्काभिहतमुत्पाताभिहतं तथा॥
सौरसूर्यकुजाक्रान्तं परिविष्टिञ्च भार्गव ॥९॥
मुहूर्ताश्चोक्तनक्षत्राः सतां मानहितप्रदाः॥
कुजहोरा तथा नेष्टा सर्वत्र कुलिकस्तथा ॥१०॥
वृषोऽथ कीटसिंहौ च कुम्भो लग्ने च शस्यते॥
एतेषां जन्मलग्नाभ्यां यः स्यादुपचयस्थितः ॥११॥
तारा द्वितीया षष्ठी च चतुर्थी चाष्टमी च या॥
नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः ॥१२॥
सौम्याः केन्द्रगता लग्ना शुभाश्चैव त्रिकोणयोः॥
पापाश्चोपचय स्थाने शस्तो लग्ने दिवाकरः ॥१३॥
लग्ने नवांशः क्षितिजस्य वर्ज्यो वर्गस्तथा तस्य महानुभाव॥
सूर्यस्य वर्गः सकलः प्रशस्तो राज्ञोऽभिषेके सग्रहो नृपाणाम् ॥१४ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादेऽअभिषेककालनिर्णयं नामाष्टादशो ऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP