संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ११२

खण्डः २ - अध्यायः ११२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
जन्तुः कथं सम्भवति कथं चैव विपद्यते॥
कथं देहान्तरं याति तन्ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच॥
विश्वस्यावरणं राम तथैवाण्डं न हेम यत्॥
तथा प्राणिशरीरस्य पार्थिवत्वं महाभुज ॥२॥
आकाशे नरशार्दूल यथैवाण्डं व्यवस्थितम्॥
सुषिरं तद्वदेवेह पुरुषस्य शरीरगम् ॥३॥
धारयन्ति यथा विश्वमण्डस्याभ्यन्तरे स्थिताः॥
वाय्वग्निसोमाः सततं तथा देहं शरीरिणाम् ॥४॥
आधारभूते द्वे भूते आद्यन्ते सर्वदेहिनाम्॥
प्रपद्यन्ते महाभाग कललत्वं हि तत्क्षणात् ॥५॥
करोति तत्र च ततः प्रवेशं कर्मचोदितः॥
वायुभूतस्तथा जीवस्त्यक्त्वा भोगविवर्धनम्॥
स्वर्गाद्वा नरकाद्देहं तिर्यग्योनावथापि वा ॥६॥
एवं प्रवेशं स करोति गर्भे जीवस्तदा कर्मवशानुबन्धात्॥
ततः प्रविष्टस्तु तथा स मूढो मासांश्च षट् तिष्ठति वेद नित्यः ॥७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने गर्भसंक्रान्तिवर्णनन्नाम द्वादशोत्तरशततमोऽध्यायः ॥११२॥

N/A

References : N/A
Last Updated : December 16, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP